उद्दालको हाऽरुणिः श्वेतकेतुं पुत्रमुवाच ..
अशनायापिपासे मे सोम्य विजानीहीति यत्रैतत्पुरुषोऽशिशिषति ..
यत्रैतत् पुरुषः स्वपिति नाम सता सोम्य ..
शरीरधातुकृत्त्वेन लक्ष्म्याद्याश्च मुमुक्षुणा
मुक्तावुमा तु वागारख्या रुद्रं याति मनोऽभिधम्
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा..
असुराः स्तब्धतां याता ब्रह्माहमिति मानिनः
आलम्ब्य तन्मतं न त्वमेकत्वं विद्धि विष्णुना
उद्दालको हाऽरुणिः श्वेतकेतुं पुत्रमुवाच ..
उपनिषत् (खण्डः - ८)
सुषुप्तिजाग्रदवस्थयोर्जीवः परमात्माधीन इति निरूपणम्
उद्दालको हाऽरुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवति ॥ १ ॥
स यथा शकुनिः सूत्रेण प्रबद्धः दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा बन्धनमेवोपाश्रयत एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वाऽन्यत्रायतनमलब्ध्वा प्राणमेवोपाश्रयते प्राणबन्धनं हि सोम्य मन इति ॥ २ ॥
भाष्यम्
स्वप्नान्तः (३) सुषुप्तिः । 'स्वातन्त्र्यात् स्व इति प्रोक्तो विष्णुः सर्वेश्वरेश्वरः । तं प्राप्नोति मनोनामा संसारी स्वपितीत्यतः ।।' इति च । मननान्मनोनामा संसारी ।
पदार्थकौमुदी
पूर्वं जीवेश्वरयोरत्यन्तभेदबोधनायासहायस्यैव भगवतस्तत्तेजोऽ- बन्नादिसमस्तजगन्निमित्तकारणत्वादिरूपं जीवेष्वसम्भाव्यमानं महन्मा- हात्म्यमुपवर्णितम् । तत्त्वागममात्रवेद्यम् । न पुनरनुभवसिद्धमित्यतो जागरे जीवस्य स्वातन्त्र्याभिमानात् स्वापे च तदभावात् तत्र जीवस्य भगवदाश्रयत्वमनुभवारूढं कर्तुम् उपक्रमते - उद्दालको हेत्यादिना || यद्यत्र ‘“स्वप्नान्त उच्चावचमीयमानः " इत्यादाविव स्वप्नान्तशब्देन स्वप्नाख्योऽन्तःस्थानं स्वप्नान्त इति स्वप्नावस्था गृह्येत तदा "सता सोम्य तदा सम्पन्नो भवति'' इत्युत्तरवाक्यमयुक्तं स्यात् । स्वप्नावस्थायां परात्मप्रवेशाभावादित्यतः स्वप्नान्तशब्दं व्याचष्टे - स्वप्रस्येति ॥ अन्तोऽवसानम् । कः स्वप्नस्यान्त इत्यत उक्तम् - सुषुप्तिरिति । स्वप्ना - नन्तरं सुषुप्तिस्तदनन्तरं जागरणमिति अवस्थाक्रममभिप्रेत्यैवमुक्तम् । सुषुप्त्यनन्तरं स्वप्नस्तदनन्तरं जागरणमित्यपि क्रमोऽस्ति । उक्तं च " सुप्तेरुत्थाने प्राज्ञाद् बिभक्तो भवति विश्वः । स्वप्नादुत्थाने तेज- सात्’इति । अनेन स्वप्नान्तं सुषुप्तमित्येतदपव्याख्यानमिति सूचयति । " अशनापिपासे सोम्य विजानीहि " इतिवदत्रापि स्वप्नान्तशब्देन सुषुप्त्यवस्थाया एव ग्राह्यत्वेन तद्ग्रहणस्यानुचितत्वात् ।
" स्वमपीतो भवति" इत्यत्र जीवः स्वं स्वात्मभूतं ब्रह्मापीतो भवतीति ब्रह्मणि स्वात्मवाचिस्वशब्दप्रयोगादैक्यप्रतीतिं वारयितुं स्वशब्दार्थमाह्– स्वातन्त्र्यादिति । एवं पदार्थमुक्त्वा वाक्यार्थमाह- तमिति ॥ एतेनापीतिशब्देनैक्यमुच्यत इत्यपास्तम् । स्वमपीत इत्यत्र पूर्ववाक्यात् पुरुषशब्दोऽनुवर्तते । स च संसारिपर एव । मुक्तस्योप- क्रमोपसंहारवाक्योक्तसुप्तिजागरावस्थानुपपत्तेरिति भावेनोक्तम् संसारीति ॥ " एतन्मनः " इत्युपसंहारा विरोधाय " मनोनामा " इत्युक्तम् । तं प्राणनामानमित्यपि ग्राह्यम् । ननु जीवः सुप्तौ स्वमाप्नोती- ति कुत इत्यतः सुषुप्ते स्वपितिशब्दप्रयोगादित्याह - स्वपितीति ।। यतः स्वमपीतो भवत्यतः स्वपितीत्याचक्षते विद्वांस इत्यर्थः । अनेन “तस्मादेनं स्वपितीत्याचक्षते'' इत्युक्तार्थम् । ननु “ मनोनामा संसारी" ‘“प्राणनामा भगवान्’” इत्युक्तम् । तत्र तस्य रूढेरभावादि- त्यतो योगं दर्शयति– मननादिति ।। प्राणनात् प्राणनामा भगवानित्यपि ग्राह्यम् । अनेन मन:प्राणशब्दाभ्यां तत्प्रविष्टौ जीवपरमात्मानौ लक्ष्येते इत्यपास्तम् । योगस्य लक्षणातो मुख्यत्वात् ।