अथ हैनमृषभोऽभ्युवाद सत्यकामा ..

उपनिषत् ( खण्ड: - ५)

ऋषभरूपिवायुना वासुदेवाख्यरूपोपदेशः

अथ हैनमृषभोऽभ्युवाद सत्यकामा ३ इति भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रं स्मः प्रापय न आचार्यकुलम् ॥ १ ॥

ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ २ ॥

स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिंल्लोके भवति प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वां श्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ३ ॥५॥

उपनिषत् (खण्डः-६)

अग्रिना सङ्कर्षणाख्यभगवद्रूपोपदेशः

अग्निष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्गुपोपविवेश ॥ १ ॥

तमग्निरभ्युवाद सत्यकामा३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच पृथिवी कलाऽन्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ ३ ॥

स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते अनन्तवानस्मिंल्लोके भवति अनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४ ॥ ६ ॥

उपनिषत् (खण्डः-७)

हंसरूपिणा चतुर्मुखब्रह्मणा प्रद्युम्नाख्यभगवद्रूपोपदेशः

हंसस्ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्गुपोपविवेश ॥ १ ॥

तं हंस उपनिपत्याभ्युवाद सत्यकामा३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला विद्युत् कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ३ ॥

स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिंल्लोके भवति ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४ ॥ ७ ॥

उपनिषत् (खण्डः- ८)

मद्गुरूपिवरुणेनानिरुद्धरूपोपदेशः

मद्गुः ते पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयाञ्चकार ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङ्गुपोपविवेश ॥ १ ॥

मद्गुरुपनिपत्याभ्युवाद सत्यकामा३ इति भगव इति ह प्रतिशुश्राव ॥ २ ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो आयतनवान्नाम ॥ ३ ॥

स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः आयतनवानित्युपास्ते आयतनवानस्मिंल्लोके भवति आयतनवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः आयतनवानित्युपास्ते ॥ ४ ॥ ८ ॥

उपनिषत् (खण्डः- ९)

प्राप हाचार्यकुलं तमाचार्योऽभ्युवाद सत्यकामा३ इति भगव इति ह प्रतिशुश्राव ॥ १ ॥

ब्रह्मविदिव वै सोम्य भासि को नु त्वाऽनुशशासेत्यन्ये मनुष्येभ्य इति ह प्रतिजज्ञे भगवांस्त्वेव मे कामे ब्रूयात् ॥ २ ॥

श्रुतं ह्येव मे भगवद्दृशेभ्य आचार्यद्ध्येव विद्या विदिता साधिष्ठं प्रापयतीति तस्मै हैतदेवोवाचात्र ह न किञ्चन वीयायेति वीयायेति द्ह्ये ॥ ३ ॥ ९ ॥

भाष्यम्

'वायुर्वृषभरूपः सन्नग्निर्हसचतुर्मुखः । मद्गुरूपश्च वरुणः सत्यकामाय होचिरे ॥ प्रकाशानन्ततेजोवत्स्थानवत्सञ्ज्ञिका (१) हरेः । वासुदेवादिका मूर्तीः प्रत्येकं चतुरात्मनः ॥ दिगादिषु स्थितास्तेषामधिपाश्च तदाख्यकाः । नाऽचार्यबुद्ध्या तैरुक्तमतोऽनुज्ञां गुरोरगात् ।। उत्तमाचार्य सम्प्राप्त्यै नावराचार्यतः क्वचित् । इच्छेदनुज्ञां श्रुत्वाऽपि नानुज्ञां प्रार्थयेत् ततः ॥ ऋषिभ्यस्तूत्तमा देवा देवेभ्यो वायुरुत्तमः । वायोश्च भगवान् विष्णुर्न तस्मादुत्तमो गुरुः ॥ '

इत्याचार्यसंहितायाम् । अत्र ह न किञ्चन वीयाय । देवेभ्यः श्रुत्वा न च ते (२) काचिद्धानिरभवदित्यर्थः ।। ५-९ ।।

पदार्थकौमुदी

ऋषभाग्निहंसमद्द्भूनां कथं सत्यकामोपदेष्टृत्वम् ? तेषां पश्वादित्वा- दित्यत आह- वायुरिति ॥ वरुणचेत्येते । हंस आदित्यो मद्गुः प्राण इत्यप्रामाणिकं व्याख्यानमित्यनेनोक्तं भवति । ऋषभाद्युपदिष्टाः ब्रह्मणः पादाः प्रकाशवदनन्तवज्योतिष्मदायतनवन्नामानः क इत्यत आह प्रकाशेति ॥ द्वन्द्वान्ते श्रुतो मतुप् सर्वत्रान्वेति । "मूर्तीः ऊचिरे " इति सम्बन्धः । कथं तर्हिप्राची दिक्कला" इत्यादिना प्रत्येकं प्राच्यादीनां कलात्वोक्तिरित्यत आह प्रत्येकमिति । प्रत्येकं चतुरात्मनो हरेस्तदाख्यकाः प्राचीदिगादिशब्दाभिधेयाः वासुदेवादिकाः मूर्तीरूचिर इत्यन्वयः । तदाख्यत्वे निमित्तद्वयम् - दिगादिष्वित्यादि ।

ननु यदि ऋषभाद्या देवता एव कथं तर्हि तदुपदिष्टेन सत्यकामेन गौतमो ‘“भगवांस्त्वेव मे कामे ब्रूयात्" इति प्रार्थ्यते ।पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि । गृह्णीयादविचारेण'' इत्युक्तेरित्यत आह- नेति । यदृच्छयोपदेष्टार एव ते, नत्वनेनाऽचार्यतया स्वीकृताः । अत एव समग्रानुग्रहपुरःसरं वयमेतस्याऽचार्या इति बुद्ध्या तैर्नोक्तमित्यर्थः ।पूर्वानुज्ञा तु मृग्यते" इत्युक्तेः सत्यकामस्तानाचार्यत्वेन स्वीकृत्यैव पश्चाद्गौतमादनुज्ञामवापेति किं न स्यादित्यतः शिक्षामुत्तरमाह- उत्तमेति ॥ उत्तमाचार्यतः श्रुत्वाऽपीत्याद्येव प्रकृतोपयोगि । समगुर्वन्तर- स्वीकारविषयं तदिति भावः । तर्हि वाय्वादिभ्यः श्रुतवताऽपि सत्यकामेन गौतमानुज्ञाप्रार्थनाद् गौतमो वाय्वादिसम इति किं न स्यादित्यत आह- ऋषिभ्य इति ॥ गौतमोऽपि कश्चिद् ऋषिरिति भावः ।अत्र ह न किञ्चन वीयाय’” इत्यनुज्ञाप्रदानवचनमप्रतीतेरनूद्य व्याचष्टेअत्रेति ॥ श्रुत्वा स्थितस्य ।। खं ४-९ ।।

खण्डार्थः

अथ गोसहस्रसम्पत्त्यनन्तरमेनं श्रद्धातपोभ्यां सिद्धं सत्यकामम् ऋषभः श्रेष्ठो वायुरेव वृषभरूपः सन् तस्मै तुष्टः स्वयमेवाऽगत्याभ्युवाद | सत्यकामा ३ इति । व्यासङ्गभर्त्सनार्था प्लुतिः ।भगव" इति ह प्रतिशुश्राव प्रत्युत्तरमदात् सत्यकामः । हे सोम्य! वयं सहस्रं प्राप्ताः स्मः ।पूर्णा तव प्रतिज्ञा । अतो नोऽस्मान् आचार्यकुलं प्रापय || ||

अहं ब्रह्मणः परब्रह्मणः पादमंशं वासुदेवाख्यं ते तव ब्रवाणी - त्येवमुक्तेन सत्यकामेन ब्रवीत्वित्युक्तः तस्मै होवाच । प्राची दिक् तदन्तर्गतस्तन्नामको वासुदेवः कला ब्रह्मपादस्य । प्रतीचीस्थः सङ्कर्षणः दक्षिणास्थः प्रद्युम्नः उदीचीस्थोऽनिरुद्ध इति ज्ञेयम् । उक्तमनुवदनु- पदिष्टमूर्ते रहस्यं नामाऽह · एष इति ।। हे सोम्यैष चतुष्कलः । एवं पुनर्वासुदेवादिचतुष्कलोपेतो ब्रह्मणः पादो वासुदेवाख्यः प्रकाशवान्नाम वै ॥२॥

एवमुपासकस्य फलमाहस य इति । योऽधिकारी एतं चतुष्कलं ब्रह्मणः पादमेवं प्रकाशवान्नामेति विद्वान् प्रकाशवानित्युपास्ते । सोऽस्मिन् लोके प्रकाशवान् भवति । न केवलमैहिकमेव । य एतं चतुष्कलं ब्रह्मणः पादमेवं प्रकाशवानित्युपास्ते । स प्रकाशवतो ह वैकुण्ठादीन् लोकान् जयति प्राप्नोति ।। ३ ।।

।। इति पञ्चमः खण्डः ॥ ५ ॥

स ऋषभः स्वयमेकं ब्रह्मणः पादमुपदिश्य ते तवाग्निर्देवतारूपो ब्रह्मणः एकं पादं वक्तेत्युक्त्वा जगाम । स सत्यकामो ह श्वोभूते परेद्युः नित्यकर्म कृत्वा गा अभिप्रस्थापयाञ्चकाराऽचार्यकुलं प्रति । ताः शनैश्वरन्त्यः आचार्यकुलाभिमुखाः प्रस्थिताः । यत्र यस्मिन् देशे सायं बभूवुः प्राप्तास्तत्र गा उपरुध्य अग्निमुपसमाधाय समिधमग्ग्रावाधायाग्नेः पश्चात् स्वयं प्राङ्मुखः सन् अग्निमुपोपविवेश ऋषभवचो ध्यायन् ॥ १ ॥

तमग्निः प्रत्यक्षः सन्नभ्युवाद सत्यकामा ३ इति । तमसौ सत्यकामो भगव इति प्रतिश्रावितवान् ॥ २ ॥

हे सोम्य ते तव ब्रह्मणः पादं सङ्कर्षणाख्यं पुनः चतुष्कलोपेतं ब्रवाणीति । ब्रवीत्वित्युक्तस्तस्मै होवाच । पृथिव्यन्तरिक्षघुसमुद्रस्था-स्तदाख्या वासुदेवाद्याः भगवतः सङ्कर्षणस्य कला इत्यर्थः । तस्य रहस्यं नामाऽहएष इति ।। अन्तवान्न भवतीत्यनन्तवानित्यर्थः । शेषं पूर्ववत् ।। ३ ।। ४ ।।

।। इति षष्ठः खण्डः ।। ६ ।।

सोऽग्निर्हंसो हंसरूपञ्चतुर्मुखस्ते ब्रह्मणः एकं पादं वक्तेत्युक्त्वा जगाम । स हेत्यादि पूर्ववत् ॥ १ ॥ २ ॥

ब्रह्मणः पादं प्रद्युम्नाख्यम् अग्निसूर्यचन्द्रविद्युत्सु स्थितास्तन्नामानो वासुदेवाद्याः प्रद्युम्नस्य कला इत्यर्थः ॥ ३ ॥। ४ इति सप्तमः खण्डः ॥ ७॥

(१) स हंसो मद्गुर्जलवायसरूपो वरुणस्ते पादं वक्तेत्युक्त्वा जगाम ॥। १॥२॥ ब्रह्मणः पादमनिरुद्धाख्यं प्राणचक्षुः श्रोत्रमनः स्थास्तन्नामानश्चत्वारो वासुदेवाद्याः कलाः अनिरुद्धस्य । अन्यत् पूर्ववत् || || ||

।। इति अष्टमः खण्डः ।। ८ ।।

स एवं विद्वान् सन् प्राप हाऽचार्यकुलम् । तं प्राप्तं सत्यकाममाचार्योऽभ्युवाद | सत्यकामा ३ इति । भगव इति प्रति- श्रावितवान् सत्यकामः || १ ॥ हे सोम्य त्वं ब्रह्मविदिव, वै स्पष्टं भासि । नु वितर्के । कोऽनु त्वाऽनुशशास ? देवो वा मनुष्यो वेत्युक्त इतरे मनुष्येभ्योऽन्ये देवा मामनुशशासुरिति ह प्रतिजज्ञे । कोऽन्यो भगवच्छिष्यं मां मनुष्यः सन्ननुशासितुमुत्सहेतेत्यभिप्रायः ॥ २ ॥ यद्यपि देवेभ्यः श्रुतं तथाऽपि भगवानेव मे मम कामे शुभार्थं ब्रूयाद् ब्रवीतु । कुतः ? हि यस्मादाचार्यादेव विदिता विद्या साधिष्ठं साधुतमत्वं प्रापयति प्राप्नोतीति भगवद्दृशेभ्यो भगवत्समेभ्यः श्रुतम् । मया त्वाचार्यतया भगवानेव स्वीकृतो न ते देवाः । किन्तु कृपया स्वयमेवाऽगत्योपदिदिशुः । एवमुक्ते तस्मै सत्यकामायैतदेव वक्ष्यमाणमेवोवाच । अत्र देवेभ्यः श्रवणेन किञ्चन वीयाय नापगतं न काचिद्धानिरभूदित्यर्थः ॥ ३ ॥

।। इति नवमः खण्डः ।।