यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय ..
उपनिषत् (खण्डः १४)
गुरूपदेशादेव भगवत्प्राप्तिः
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत् स यथा तत्र प्राङ्ग्वोदङ्ग्वाऽधराङ्ग्वा प्रध्मायीताऽभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ॥ १ ॥
तस्य यथाऽभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति स ग्रामाद्ग्रामं पृच्छन् पण्डितो मेधावी गन्धारानेवोपसम्पद्येतैमेवेहाचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्यत इति ॥ २ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्माऽ तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ॥ ३ ॥ १४ ॥
भाष्यम्
कथं स ज्ञायते विष्णुर्भिन्न इत्यत्र चाब्रवीत् । यथैवान्योपदेशेन बद्धाक्षः स्वगृहं (९) व्रजेत् । तथाssचार्योपदेशेन भिन्नमीशं व्रजेत् पुमान् ॥ १४ ॥
पदार्थकौमुदी
जगन्मूलसदुपलब्धौ क उपाय इति विज्ञापयत्विति परकीयप्रश्नाभि- प्रायवर्णनमयुक्तम् । विवर्ताधिष्ठानस्य सतः सर्वप्रत्ययवेद्यत्वाङ्गीकारेणा- ऽचार्योपदेशानपेक्षणात् । किञ्चाऽचार्योपदेशस्य विशिष्टज्ञापकत्वे त्वप्रामाण्यम् । स्वरूपमात्रज्ञापकत्वे सिद्धार्थत्वम् । स्वरूपमात्रस्य पूर्वमेव सिद्धत्वादिति भावेन स्वयं प्रश्नाभिप्रायमाह- कथमिति ॥ कथं केनोपायेन सः जीवगो भिन्नो विष्णुरविद्यापटलपिहितनयनेन कथं केनोपायेन दृश्यते प्राप्यते चेत्यर्थः । तदुत्तरत्वेन “यथा सोम्य पुरुषम्'' इति खण्डतात्पर्यमाह- यथेति ॥ पूर्वं बद्धाक्षः अनन्तरं मुक्ताक्षबन्ध इत्यपि ग्राह्यम् । व्रजेत् जानीयाद् गच्छेच्च ।। चतुर्दशः खण्डः ।।
खण्डार्थः
"हे सोम्य यथा पुरुषं धनिकं गन्धारेभ्यो गन्धारसञ्ज्ञिकेभ्यो जनपदेभ्योऽभिनद्धाक्षम् अक्षिणी बद्ध्वेति यावत् । आनीय तं ततोऽनन्तरम् अतिजने जनरहितेऽरण्ये विसृजेच्चोरः । सः विसृष्टो यथा तत्रारण्ये प्राङ्वोदङ्वाऽधराङ् वा सर्वदिगभिमुखः प्राध्मायीत उच्चैः शब्दं कुर्यात् । किमिति ? अभिनद्धाक्षः आनीतोऽस्मि अभिनद्धाक्षो विसृष्टोऽस्मीति ॥ १ ॥
यथा सम्यक् तद्वाक्यं श्रुत्वा कश्चित् कृपावांस्तस्याभिहननं बन्धनं प्रमुच्य मुक्त्वा ब्रूयात् । एतां दिशमस्यां दिशि गन्धाराः सन्ति । अत एतां दिशं व्रजेति । सः तेनोपदिष्टाद् ग्रामान्निर्गत्यापरं ग्रामं पृच्छन् पण्डितः प्राज्ञो मेधावी स्मृतिमान् गन्धारानेवोपसम्पद्यते पश्यति प्राप्नोति च । एवमेव अनाद्यविद्यादिभिराच्छादितनिजज्ञानः पुरुषो जीवः संसारे पतितः परमेश्वरानुग्रहाज्जातजिज्ञासः आचार्यवान् गुरूपदेशं लब्ध्वेति यावत् । क्रमापन्नानि श्रवणादीनि साधनान्यनुष्ठाय स्वजन्मभूमिं भगवन्तं वेद पश्यति प्राप्नोतीति चेत्यर्थः । ननु यथाऽन्योपदेशेन बद्धाक्षः स्वगृहं पश्यति व्रजति च तथा पुमानाचार्योपदेशेन भिन्नमीशं पश्यति व्रजति चेत्य- नुपपन्नम् । दर्शनाव्यवहितोत्तरकालं भगवत्प्राप्तेरभावादित्यत आह - तस्येति ॥ तस्यापरोक्षज्ञानिनः । तावदेव मोक्षाय चिरं क्षेपो यावन्न विमोक्ष्ये विमोक्ष्येत प्रतिबन्धेन प्रारब्धकर्मणा । यथा ज्ञानानन्तरमपि न मोक्षस्तथा कर्मक्षयानन्तरमपीति शङ्का मा भूदिति भावेनाऽह - अथेति ।। अथाऽरब्धपुण्यपापस्य भोगेन क्षपणादनु । ब्रह्म सम्पत्स्यत एव । अथशब्दो नियमसूचकश्च । इत्युवाचेति पूर्वखण्डस्थेनान्वयः ॥ २॥
इति पित्रोपदिष्टेनावगतं वृक्षशरीरे भगवदधीनत्वं जीवस्य मानुषशरीर एव तज्ज्ञापयेत्याशयवता ‘" भूय एव मा भगवान् विज्ञापयतु' 'इत्युक्तः पिता " तथा सोम्येति होवाच " ॥ ३ ॥
।। इति चतुर्दशः खण्डः ॥