अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा ..

उपनिषत् (खण्डः -२)

मधुनामकसङ्कर्षणोपासना

अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूंष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः॥ १ ॥

तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥

तद्व्यक्षरत् तदादित्यमभितोऽश्रयत् तदा एतद्यदेतदादित्यस्य शुक्लं रूपम् ॥ ३ ॥ २ ॥

भाष्यम्

इन्द्राद्या यजुरुद्दिष्टा रुद्रा इन्द्रसहायत: इन्द्रशब्दोदितो वायुः स याज्यः सोमभुक् पुरः || स हि शङ्करपूर्वाणां रुद्राणां मुख्य एव च ।

पदार्थकौमुदी  

इन्द्राद्याः रुद्रा यजुरुद्दिष्टा यजुः शब्दवाच्याः । तत्र निमित्तम्-यज्ञदेवता इति । अनेन याज्यत्वं यजुः शब्दप्रवृत्तिनिमित्तमुक्तं भवति । इन्द्रस्य रुद्रेषु प्रवेशः कुत इत्यत आह- इन्द्रसखा इति ॥ यतः कारणाद् रुद्राः इन्द्रसखायस्तत इन्द्रस्य रुद्रेषु प्रवेश इत्यर्थः ।इन्द्रसहायतःइति क्वाचित्कः पाठः । स चेन्द्रो न प्रसिद्ध इत्याह- इन्द्रशब्दोदित इति ॥ ननु वायोरिन्द्रत्वे न तस्य रुद्रान्तर्भावः । याज्यत्वाभावेन यजुःशब्देन ग्रहणानुपपत्तेरित्याशङ्कायामितररुद्रापेक्षया तस्मिन्नेव मुख्यं याज्यत्वमस्तीत्याह -- स याज्य इति । सः माध्यन्दिने सबने सोमभुजां रुद्राणां पुरः पूर्वं याज्यो यतोऽत उक्तमुपपन्नमित्यर्थः । अत्रेन्द्रशब्देन प्रसिद्धेन्द्र एव वाच्यः किं न स्यादित्यत आह- स हीति । अत्र रुद्रान्तर्गतो हीन्द्रः शङ्करादिरुद्रमुख्य एव वाच्यः । "इन्द्रेण मुखेन" इति वक्ष्यमाणत्वात् । शङ्करपूर्वाणां रुद्राणां मुख्यश्च स वायुरेव प्रसिद्धो न पुरन्दर इत्यर्थः ।। द्वितीयः खण्डः ।।

खण्डार्थः

‘‘अथ येऽस्य दक्षिणा रश्मयःइत्यादि व्याख्यातमेव । यजूष्व्येव यजुर्वेदाभिमानिनो याज्यत्वाद् यजुःशब्दबाच्याः वाय्वाद्याः रुद्राः । तानि वा एतानि यजूंषि पूर्वप्रकृतयजुर्वेदाभिमानिनो रुद्राः । यदेतदादित्यस्य शुक्लं रूपं तत्तत्र तद्वै यजुर्वेदाभिव्यक्तं शुक्लवर्णम् एतद् यशआदिरूपं सङ्कर्षणाख्यं मध्वभवत् । शिष्टं समानम् ॥

।। इति द्वितीयः खण्डः ।।