यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं..

उपनिषत् (खण्डः-२३)

पूर्णसुखात्मकत्वं भगवतो लक्षणम्

यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ।। १ ।। २३ ।।

भाष्यम्

स च सर्वगुणैः पूर्णो भूमेत्युच्चार्यते ततः ॥   

पदार्थकौमुदी

सर्वगुणैः पूर्णो यतोऽतो भूमेत्युच्चार्यते ॥

खण्डार्थः

सत्यादिगुणा यस्या एव परदेवतायाः स्वरूपभूतास्तं भूमाख्यं नारायणं लक्षयतियो वा इति ॥ यो वै भूमा पूर्णो नारायणाख्य-स्तत्सुखमनन्याधीनसुखरूपम् । अस्यातिव्याप्तिं परिहरति- नाल्प इति ॥ भूमप्रसादं विना नाल्पे मुक्तजाते सुखमस्ति । एवमतिव्याप्तिं परिहृत्य निगमयति- भूमैवेति । नैतावतोपदेशसमाप्तिरिति भावेनाऽह- भूमा त्वेवेति । एवमुक्ते नारदः पृच्छति - भूमानमिति ॥ १ ॥ ॥ इति त्रयोविंशः खण्डः