पशुषु पञ्चविधं सामोपासीताजा हिङ्कारोऽवयः..

उपनिषत् (खण्डः )

पशुषु भगवदुपासना
पशुषु पञ्चविधं सामोपासीताजा हिङ्कारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनं भवन्ति हास्य पशवः पशुमान् भवति य एतदेवंविद्वान् पशुषु पञ्चविधं सामोपास्ते ॥ ६ ॥

भाष्यम्

पालनात् सुखरूपत्वात्( २ ) पशुनामा जनार्दनः । मुक्तस्तद्वान् भवत्येव पशुषूपासको हरेः ।। ' इति च ।
३) 'यज्ञेनाञ्चनहेतुत्वादजस्थो भगवानजः । अविस्थस्त्वविरेवोक्त ऊर्णया शीततोऽवनात् ॥ गौश्व सद्गतिहेतुत्वाद् गोस्थः स पुरुषोत्तमः । अश्वश्चैवाऽशुगन्तृत्वात् पुरुषः पूर्तिहेतुतः ।।' इति च ।

भवन्ति हास्य पशव इति प्रसिद्धपशव एव । अजा इत्यादिबहुवचनं बहुरूपत्वाद् भगवतः ।। ६ ।।

पदार्थकौमुदी

ऋतुषु सम्यग्वृत्तेषु पशवोऽपि सम्यगवस्थिता इति पशुषु भगवदुपास्तिः कर्तव्येत्याह - पशुष्विति ।। अयमपि खण्डो भगवत्पर इति ज्ञापनाय " भवन्ति हास्य पशवः पशुमान् भवति' इति फलवाक्ये पुनरुक्तिपरिहाराय पशुमानित्येतत्तावत् प्रमाणेनैव व्याचष्टे - पालना- दिति ॥ पालनात् पः सुखरूपत्वाच्छुः उकारस्ताच्छील्यार्थः । अतिप्रसङ्गवारणाय तद्वानित्यस्य व्याख्यानम् - मुक्त इति ॥ हिङ्कारा- दिनामक प्रद्युम्नादीनामजादिपश्वभेद उच्यत इति भ्रान्तिनिरासायाजादि- शब्दनिर्वचनपरं प्रमाणमेवोदाहरतियज्ञेनेति || अजस्थो भगवानज इत्युक्तः । यज्ञेन यज्ञद्वारा सद्गतिहेतुत्वादित्यर्थः । अज गतौ क्षेपणे चेति धातुः । गतिपूजार्थस्याश्चुधातोश्वकारस्य स्ववर्गतृतीयजकारादेशेऽनु- स्वारस्य च लोपे च यति प्रवर्तत इति यज्ञेन पूजनेनेति यज्ञेनाञ्चन- हेतुत्वादजस्थो भगवानज इत्यर्थः । यजधातोर्यकारलोपेऽज इति भवति । तथा च यजत्यनेनेति यज्ञेनाञ्चनहेतुत्वादज इति वाऽर्थ इत्याहुः | अविस्थ | एवेति सम्बन्धः । अवनात् सर्वरक्षणाद् अविरुक्तः । अविस्थस्य कथं रक्षकत्वमित्यत उक्तम् - ऊर्णयेति ॥ कम्बलादिना शीततो रक्षणादि- त्यर्थः । आशुगन्तृत्वादेवेति सम्बन्ध: ।। पुरुष इति । नचपशुषु''इत्युपक्रम्य ‘‘पुरुषो निधनम्' ' इति कथमुच्यते ? पुरुषस्यापशुत्वादिति वाच्यम् । यज्ञविशेषे तस्यापि पशुत्वमभिप्रेत्य तथोक्तेः ।

ननु पशुमानित्यस्य पशुनामकभगवद्वानित्यर्थत्वेऽपि भवन्ति हास्य पशवःइत्यनेन पुनरुक्तिः स्यादेव । तस्यापि तदर्थकत्वप्रतीतेरित्यत आह्भवन्तीति ।। एवं च भिन्नार्थकत्वान्न पुनरुक्तिरिति भावः । नन्वजादिशब्दानां भगवद्वाचकत्वेऽजा इत्यादिबहुवचनानुपपत्तिः ।एकमेवाद्वितीयम्इति श्रुत्या भगवत एकत्वावगमादित्यत आह- अजा इत्यादीति ॥ उपपद्यत इति शेषः ।। इति षष्ठः खण्डः ।। ६ ।।