ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातःसवनं रुद्राणां ..
उपनिषत् (खण्डः २४)
स्वर्गमोक्षमार्गे प्राप्तविघ्नपरिहारोपायनिरूपणम्
ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातःसवनं रुद्राणां माध्यन्दिनं सवनमादित्यानां विश्वेषां देवानां च तृतीयसवनं क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात् कथं कुर्यादथ विद्वान् कुर्यात् ॥ १ ॥
वसुस्थभगवदुपप्रार्थना
पुरा प्रातरनुवाकस्योपकरणाज्जघनेन गार्हपत्यस्योदङ्मुख उपविश्य स वासवं सामाभिगायति लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं रा ३३३३३ हु३म् आ३३ज्या३ यो३ आ३२१११ इत्यथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानास्य लोक एताऽस्म्यत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनं सम्प्रयच्छन्ति ॥ २ ॥
रुद्रस्थभगवद्रूपप्रार्थना
पुरा माध्यन्दिनस्य सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योददङ्मुख उपविश्य स रौद्रं सामाभिगायति लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं विरा ३३३३३ हु३म् आ३३ज्या३ यो३ आ३२१११ इत्यथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक एताऽस्मत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा माध्यन्दिनं सवनं सम्प्रयच्छन्ति ॥ ३ ॥
आदित्यविश्वेदेवस्थभगवद्रूपप्रार्थना
पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं ं स्वारा ३३३३३ हु३म् आ३३ज्या३ यो३ आ३२१११ इत्यादित्यमथ वैश्वदेवं लो३कद्वारमपा३वा३वार्णू३३ पश्येम त्वा वयं साम्ना ३३३३ हू आ ३म् ३३ ज्या ३यो ३ आ३२१११ इत्यथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय विन्दतैष वै यजमानस्य लोक एताऽस्म्यत्र यजमानः परस्तादायुषः स्वाहाऽपजहि परिघमित्युक्त्वोत्तिष्ठति तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं सम्प्रयच्छन्ति एष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ ४ ॥ २४ ॥
॥ इति श्रीमच्छान्दोग्योपनिषदि द्वितीयोऽध्यायः ॥ २ ॥
भाष्यम्
'वसुरुद्रादितेयेषु विश्वेषु स्थितमीश्वरम् । तनामानं हरिं मन्त्रैर्लोकद्वारादिभिः प्रभुम् ॥ प्रार्थयित्वा दिवं त्वज्ञो ज्ञो मोक्षं प्राप्नुयात् तथा । यजमानो नान्यथा तु लोकोऽस्य प्राप्यते वरः ।। राजनं पृथिवीलोके राज्यमित्युच्यते बुधैः । विराज्यमन्तरिक्षे तु स्वाराज्यं स्वर्गगं भवेत् ।। एतेषु मोक्षोऽपि भवेन्मानुषाणां विशेषिणाम् । श्वेतद्वीपं तथा गत्वा दृष्ट्वा विष्णुं च ते ततः । अनुज्ञाताः प्रमोदन्ते निर्दुःखास्तु धरादिषु ।। ' इति च ( २ ) ।
पदार्थकौमुदी
पूर्वं स्वर्गमोक्षफलकसामनामकभगवदुपास्तिरुक्ता । साम्प्रतं विघ्न- परिहारद्वारा पृथिव्यादिप्राप्तिमोक्षहेतुभूतसामैकदेशप्रतिपाद्यवस्वादिनिष्ठ- भगवदुपास्तिं शिष्यगुर्वाक्षेपसमाधानरूपाख्यायिकयाऽऽह ब्रह्म- वादिनइत्यादिना ॥ अत्र प्रसिद्धवस्वादीनामेव अनिवाय्वादिपरलोक- द्वाराऽऽदिमन्त्रप्रतिपाद्यानां " प्रातः सवनं प्रयच्छन्ति । ” “ माध्यन्दिन- सवनं प्रयच्छति’” ‘‘तृतीयसवनं प्रयच्छति" इत्यादिना प्रातः सवनादि - कर्तव्यसम्पादकत्वमेवोच्यत इत्यन्यथाप्रतीतिपरिहाराय खण्डतात्पर्यं प्रमाणेनैवाऽह – वसुरुद्रेत्यादिना ।। आदितेयेषु आदित्येषु विश्वेषु देवेषु भगवति वस्वादिशब्दनां प्रवृत्तिनिमित्तस्वातन्त्र्येण मुख्यत्वं वक्तुम् ‘“ईश्वरम्’” इत्युक्तम् । प्रसिद्धवस्वादौ च तच्छब्दवृत्तिरव्यक्ताधि- करणन्यायेनेति सूचयितुं तेषु स्थितमित्युक्तम् । मन्त्राणां भगवत्परत्वमुपपादयितुं ‘‘प्रभुम्" इत्युक्तम् । हरिरेवैतैर्मन्त्रैः प्रार्थितो विघ्न परिहारादीष्टदाने समर्थो नेतर इति भावः । दिवमन्तरिक्षं भुवं च । अनेन “प्रातःसवनं सम्प्रयच्छन्ति" इत्यादौ प्रातःसवनादिकर्तव्यसम्पा- दकत्वमेव नोच्यते । किन्तु वस्वादयः स्वस्वामिकं प्रातः सवनादिकं तत्काले कर्तव्यं निर्विघ्नं सम्पाद्य स्वस्वामिकपृथिव्यादिकमपि प्रयच्छन्ती- ति विवक्षितम् । ‘“राज्याय विराज्याय स्वाराज्याय ' ' इति मन्त्रेषु पृथिव्यादिलोकप्राप्तेः प्रार्थितत्वात् । प्रार्थितादाने च तेषामप्रेक्षावत्त्वप्राप्ते- रित्युक्तं भवति । नास्याब्रह्मविद्यायाः पृथिव्यादिलोकप्राप्तिरेव फलम्, अपि तु मोक्षोऽपीति पूर्ववद् व्यवस्थायाऽऽह - त्वज्ञ इति ॥ तुशब्दस्य पूर्वेणोत्तरेण च सम्बन्धः | ब्रह्मपरोक्षज्ञानी सन् यजमानो दिवं प्राप्नुयाद- परोक्षज्ञानी सन् यजमानो मोक्षं तत्रत्यं सुखविशेषं प्राप्नुयादिति । तथा च वस्वादिस्थितहर्यनुसन्धानेन यजमानो यज्ञाधिकारी, अन्यथा यजमानस्य हर्यनुसन्धानाभावे, वरो लोको भूरादिर्मोक्षश्च ।
ननु ‘“राज्याय’” इत्यादौ पृथिव्यादिलोकप्राप्तिः प्रार्थितेत्ययुक्तम्। तद्वाचकपदाभावादित्यतो राज्यादिपदमेव तद्वाचकमिति प्रमाणेनाऽह- राजनं पृथिवी लोक इति ॥ नन्वेवं ज्ञो मोक्षमित्ययुक्तम् । मोक्षिलोक- वाचकवैकुण्ठादिपदाभावादित्यतः पृथिव्यादीनामेव कतिपयमोक्षि- लोकत्वमपीत्याह - एतेष्विति । एतेषु पृथिव्यादिषु लोकेषु मोक्षो मुक्तानां सुखं भोगविशेषः " प्रमोदन्ते" इति वक्ष्यमाणत्वात् । विशेषिणामात्मत्वमात्रोपासनयोग्यानाम् ।
'आत्मन्येव परं देवमुपास्य हरिमव्ययम् । केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ।अत्रैव च स्थितिस्तेषाम् ||" इत्यादेः ।
ननु ‘“यावच्छ्छ्रेतं न गच्छति । योगी तावन्न मुक्तः स्यात्” इत्युक्तेः कथमेतेषु मोक्ष इत्यत उक्तं विशदमाह – श्वेतद्वीपमिति । तथेति प्रमाणे प्रकृतसमुच्चयः । ततस्तेन विष्णुना । तुना धरादिगतत्वेऽपि निर्दुःखत्वं नास्मदादिसाधारणमित्याह ।