प्राचीनशाल औपमन्यवः सत्ययज्ञः..
उपनिषत् (खण्डः- ११)
वैश्वानरविद्याज्ञातारो दुर्लभाः
प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला य इमे महाश्रोत्रियाः समेत्य मीमांसाञ्चक्रुः को न आत्मा किं ब्रह्मेति ॥ १ ॥
ते ह सम्पादयाञ्चक्रुरुद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ २ ॥
स ह सम्पादयाञ्चकार प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियास्तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति ॥ ३ ॥
तान् होवाचाश्वपतिर्वै भगवन्तोऽयं कैकेयः सम्प्रतीममात्मानं वैश्वानरमध्येति तं हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः ॥ ४ ॥
तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार स ह प्रातः संिजहान उवाच न मे स्तेनो जनपदे न कदर्यो न मद्यपो नानाहिताग्निर्नाविद्वान् न स्वैरी स्वैरिणी कुतो यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि वसन्तु भगवन्त इति ॥ ५ ॥
ते होचुर्येन हैवार्थेन पुरुषश्चरेत् तंहैव वदेदात्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि तमेव नो ब्रूहीति ॥ ६ ॥
तान् होवाच प्रातर्वः प्रतिवक्तास्मीति ते ह समित्पाणयः पूर्वाह्ने प्रतिचक्रमिरे तान् हानुपनीयैवैतदुवाच ॥ ७ ॥ ११ ॥
भाष्यम्
‘प्रत्यब्दयज्ञकृत् सम्यङ् महाशालः प्रकीर्तितः ।वेदवेदार्थवित् सम्यङ् महाश्रोत्रिय उच्यते ॥
पदार्थकौमुदी
एवं परब्रह्मविषया पञ्चाग्निविद्योक्ता । इदानीं तद्विषयामेव वैश्वानरविद्यामाख्यायिकयाऽऽह - प्राचीनशाल इत्यादिखण्डचतुर्दश- केन । महाशालो विस्तीर्णगृहवान् । महाश्रोत्रियः छन्दःपाठमात्र- वानिति प्रतीतिनिरासाय प्रमाणेनैव तद् व्याचष्टे - प्रत्यब्देति ॥
खण्डार्थः
प्राचीनशालो नामतः, उपमन्योरपत्यमौपमन्यव इत्येकः । सत्ययज्ञो नामतः, पुलुषस्यापत्यं पौलुषिरित्यपरः । इन्द्रद्युम्नो नामतः, भल्लवेरपत्यं भाल्लवेय इत्यपरः(१) । जनो नामतः, शर्कराक्षस्यापत्यं शार्कराक्ष्य इत्येकः । बुडिलो नामतः, अश्वतराश्वस्यापत्यमाश्वतराश्विरित्यपरः । ते हैते पञ्च महाशालाः सम्यक् प्रत्यब्दयज्ञकृतो महाश्रोत्रियाः सम्यग्वेदवेदार्थविदः समेत्य मिलित्वा मीमांसां विचारं चक्रुः । नोऽस्माकमुपास्यः आत्मा वैश्वानराख्यः किंलक्षणकः ? ब्रह्म च तदाख्यं किमिति ॥ १ ॥
एवमात्मसु परस्परं विचारेणापि विशेषनिर्णयमलभमानास्ते विशेष- निर्णयार्थमुद्दालकं सम्पादयाञ्चक्रुः । सम्पादनप्रकारमेवाऽह - उद्दालक इति ॥ हे भगवन्तः उद्दालको नामतः, अरुणस्यापत्यमारुणिः सम्प्रतीदानीमस्मदभिमतमात्मानं वैश्वानरम् अध्येत्यधिकं जानाति । तं हाभ्यागच्छामेत्युक्त्वा तमुद्दालकं प्रत्याजग्मुः ॥ २ ॥
तदा सः उद्दालकस्तदागमनप्रयोजनं बुध्वा सम्पादयाञ्चकारै- तेषामन्यमुपदेष्टारम् । स्वयमेव कुतो नोक्तमित्यत आह- प्रक्ष्यन्तीति ।।महाशालत्वादिगुणाः मां प्रक्ष्यन्ति । तेभ्यो वक्तुं सर्वमेव तत्पृष्टं न प्रतिपत्स्ये हन्ताहमन्यमेषामनुशासकमनुशासानीति विचिन्त्य ।। ३ ।।
तान् होवाच ।। हे भगवन्तोऽश्वपतिर्नामतः कैकेयः केकयदेशाधिपतिः सम्प्रतीममात्मानं वैश्वानरमध्येति । तं हाभ्यागच्छामेति । एवमुक्तास्ते तमश्वपतिं प्रत्याजग्मुर्ह ॥ ४ ॥
तेभ्यो ह प्राप्तेभ्यो ब्राह्मणेभ्यः पृथक् पृथग् अर्हाणि अर्हणानि कारयाञ्चकार । स राजा परेद्युः प्रातः सञ्जिहानः शयनीयादुत्तिष्ठन्नुवाच । युष्मदागमने किं कारणम् ? न तावत् स्तेनादिभयम् । तेषां मद्राष्ट्रेऽ- । भावादित्याह - नेति ॥ कदर्योऽदाता सति विभवे यथाकालमाचारहीनो वा । स्वैर्यभावे स्वैरिणी कुतः ? धनार्थिनश्चेद् दास्यामीत्याह- यक्ष्यमाण इति ॥ हे भगवन्तोऽहं यक्ष्यमाणोऽस्मि वै । तत्र यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद् भगवद्भयो दास्यामि । वसन्तु भगवन्तः । इत्युवाचेति सम्बन्धः ।। ५ ।
एवमुक्तास्ते होचुः । येनैवेहार्थेन ज्ञानादिरूपेण साधितेनेति शेषः । पुरुषश्चरेद् गच्छेन्मोक्षादिकं तमेव वदेद् भवदादिः । यद्वा, येनैवेहार्थेन प्रयोजनेन साधितेनाऽगतः पुरुषश्चरेत् परावृत्त्य स्वग्रामादिकं गच्छेत् तदेव वदेदित्यर्थः । तर्हि किं भवदागमने प्रयोजनमित्यत आह- आत्मानमिति ॥६॥
तान् होवाच राजा प्रातर्वः प्रतिवक्ताऽस्मीति । ते षड् ब्राह्मणाः समित्पाणयः परेद्युः पूर्वाह्णे राजानं प्रतिचक्रमिरे । तानू हाऽनुपनीय शिष्यतयोपगमनमकारयित्वैवैतद्वक्ष्यमाणमुवाच । ब्राह्मणानां क्षत्रियादुत्त-मत्वात् ॥ ७ ॥
।। इति एकादशः खण्डः ।।