तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति ..

उपनिषत् (खण्डः - ११)

अबभिमान्याहङ्कारिकप्राणात् तेजोभिमानी पुरन्दर उत्तमः

तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाऽथापः सृजते तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युदि्भराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तेज उपास्स्वेति ॥ १ ॥

स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो लोकान् भास्वतोऽपहततमस्कानभिसिद्ध्यति यावत् तेजसो गतं तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवो तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ११ ॥

भाष्यम्

...............................तथा तस्मात् पुरन्दरः ॥ तेजोभिमानी तन्नामा तेजो ह्योज इतीर्यते (१)

पदार्थकौमुदी

"तेजो वावाद्भयो भूयः" इत्येतद् व्याचष्टे - तथेति ॥ इत्यनुवर्तते । तेजः शब्दं योजयति - तेजोभिमानीति ।। तेजआत्मकश्चेति शेषः । प्रकाशरूपस्य तेजसः सूर्यादिधर्मत्वादाह - तेज इति ॥ ओजः पराभिभवशक्तिः ।। एकादशः खण्डः ।।

खण्डार्थः

तेजः द्विविधतेजोऽभिमानी इन्द्र एवाद्भयो भूयः । तत् तस्मादेतस्मिन् काले यदा वायुमागृह्यावष्टभ्याऽकाशमभितपत्यादित्यस्तदाहुलौकिकाः आदित्यो निशोचति नतपति । नितरां प्राणिनः शोचयति । यतोऽयं नितरां तपति । अतो वर्षयिष्यति वा इति । अतोऽप्सृष्टेः पूर्वं तेज एव दर्शयित्वाऽथाऽपः सृजते । किञ्च तस्माद् एवैतस्मिन् काले ऊर्ध्वाभिश्च तिरश्चीभिश्च विद्युद्भिः सहाऽह्लादाः स्तनयित्नुशब्दाचरन्ति प्रवर्तन्ते । तस्मादाहुर्लौकिकाः । द्योतते स्तनयति वर्षयिष्यति वा इति । शिष्टं पूर्ववत् ॥ १ ॥ २ ॥

।। इति एकादश: खण्ड: ।।