यदा वै विजानात्यथ सत्यं वदति ..

उपनिषत् (खण्डः-१७)

भगवान् सत्यज्ञानादिगुणपरिपूर्णः

यदा वै विजानात्यथ सत्यं वदति नाविजानन्त्सत्यं वदति विजानन्नैव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ॥ १ ॥ १७ ॥

खण्डार्थः

एवं सत्याख्यभगवतो गुणजिज्ञासायां गुणत्वेन तदविनाभूतं विज्ञानं वक्तुं विज्ञानस्य सत्याविनाभावमाह - यदेति ॥ अन्वयमुक्त्वा व्यतिरेकमाह- नाविजानन्निति । विजानन्नेवेति निगमनम् ॥ तस्मात् सत्यं विजिज्ञासता तदविनाभूतं विज्ञानमेव विशेषेण विजिज्ञा- सितव्यमित्युक्ते तर्हि ‘“विज्ञानं भगवो विजिज्ञासे'' इत्याह नारदः || || ॥ इति सप्तदशः खण्डः ॥

एवमुत्तरखण्डपञ्चकमपि योज्यम् ||१८||१९||२०||२१||२२||