मनो वाव वाचो भूयो यथा वै द्वे वाऽऽमलके ..

उपनिषत् (खण्डः - ३)

वागभिमानिस्वाहादेव्याः सकाशान्मनोऽभिमानि-पर्जन्यस्योत्तमत्वकथनम्

मनो वाव वाचो भूयो यथा वै द्वे वाऽऽमलके द्वे वा कोले द्वौ वाऽक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्रांश्च पशूंश्चेच्छेयेत्यथेच्छत इमं च लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ॥ १ ॥

स यो मनो ब्रह्मेत्युपास्ते स यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति भगवो मनसो भूय इति मनसो भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ३ ॥

भाष्यम्

एवं तस्या विमुक्तौ च पर्जन्यः सर्वतो वरः । मनोऽभिमानी सम्प्रोक्तो वृष्ट्या निर्माणतो मनः ।। २-३ ॥

पदार्थकौमुदी

मनःशब्दस्य प्रसिद्धार्थत्वप्रतीतिमपाकुर्वन्मनो वाव वाचो भूयः " इति खण्डतात्पर्यमाहएवमिति । चशब्दाद् बन्धे च । पर्जन्यः कश्चिदादित्यः । सर्वतः सर्वैर्गुणैः । कथं तर्हि श्रुतौ मनः शब्दप्रयोग इत्यतः पर्जन्ये श्रौतमनःशब्दप्रयोगं द्वेधा घटयति - मनोभिमानीति ।। वृष्ट्याऽ- ह्रुक्रादेर्निर्माणतश्च मनः ।मा निर्माणेइति धातोः ।। तृतीयः खण्डः

खण्डार्थः

।। मन इति ।। मनो मनोनामकस्तदभिमानी पर्जन्य एव वाचो भूयः ।तत्सामर्थ्यं सदृष्टान्तमाह-- यथेति । यथा वा द्वे वाऽऽमलके आमलकफले द्वे वा कोले पूगफले द्वौ वाऽक्षौ द्यूतसाधने फलविशेषौ वा मुष्टिरनुभवति । आर्मलकादिकं यथा मुष्टावन्तर्भवत्येवं वाचं च नाम च मनोऽनुभवति । तदेव विशदयति - स इति । स पुरुषो यदा मनसा मन्त्रानधीयेयेति मनस्यति अथ तदा अधीते । कर्माणि कुर्वीयेति यदा मनस्यतीत्यन्वयः । एवमुत्तरत्रापि । मनो ह्यात्मा स्वामी मनो हि लोकः सर्वाश्रयो मनो हि ब्रह्म । प्रथमा सप्तम्यर्थे । मनसि ब्रह्म । अतो मनसि ब्रह्मेत्युपास्व || || ||

|| इति तृतीयः खण्डः ॥