यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं ..

उपनिषत् (खण्डः - ४)

सृष्टेः लक्ष्मीप्राणरुद्रद्वारा भगवदधीनत्वनिरूपणम्

यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापगादग्नेरग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ १ ॥

यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापगादादित्यादादित्यत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ २ ॥

यच्चन्द्रमसो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापगाच्चन्द्रात् चन्द्रत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ३ ॥

यद्विद्युतो रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्यापागाद् विद्युतो विद्युत्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ४ ॥

एतद्ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रिया न नोऽद्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतीति ह्येभ्यो विदञ्चक्रुः ॥ ५ ॥

यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विद्वाञ्चक्रुर्यदु शुक्लमिवाभूदित्यपां रूपमिति तद्विदाञ्चक्रुर्यदु कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदाञ्चक्रुः ॥ ६ ॥

यद्वविज्ञातमिवाभूदित्येतासामेव देवानां समास इति तद्विदाञ्चक्रुर्यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ७ ॥ ४ ॥

भाष्यम्

अतो यल्लोहितं रूपं श्रियस्तद्रूपसम्भवम् । यच्छुक्लं वायुजं विद्यात् कृष्णं चैव शिवोद्भवम् ॥

तस्मादग्नेर्यदत्तृत्वमग्निनामप्रवर्तकम् । लक्ष्म्यादिदेवतानां तंनैवाग्रेरग्निता ततः ॥ मुख्यैवमाददानत्वमादित्यस्य तदुद्भवम् । अत आदित्यनामैषां नैवाऽदित्यस्य मुख्यतः ॥ यच्चन्द्राह्लादकत्वं च तत्तेषां चन्द्रता तथा । विद्युद्विद्योतनं चैषां (१) ततस्ते सर्वनामिनः ॥ तथैव सर्वरूपं च तद्रूपप्रतिबिम्बितम् । सर्वरूपाश्च ते तस्माल्लोहितादिक्रमेण तु ॥

पदार्थकौमुदी

इदानींयदने रोहितं रूपम्" इत्यादि व्याचष्टे-अत इति ॥ लक्ष्म्यादीनामग्र्यादिषु प्रविष्टत्वादित्यर्थः ।अग्निसोमसूर्यादिषुइत्येतदनुवर्तते । वायुजं वायुरूपजं शिवोद्भवं शिवरूपोद्भवम् । श्रौतसामानाधिकरण्यव्यपदेशस्तु "ब्राह्मणोऽस्य मुखमासीत्" इत्यादिवज्जन्यजनकभावाभिप्रायेणेति भावः ।अपागादग्नेरग्नित्वम्इत्यसङ्गतं किमुच्यत इत्यतो मध्ये वक्तव्यमाह - तस्मादिति ॥ श्रीवायुशिवरूपजन्यरूपवत्त्वेन तदधीनत्वादग्नेरग्निनामप्रवर्तकं यदत्तृत्वं तल्लक्ष्म्यादिदेवतानामेव मुख्यमित्यर्थः । अतोऽग्निनाम तासामेव मुख्यमिति भावः । इदानीं " अपागादग्नेरग्नित्वम्" इत्येतद्व्याचष्टे- नैवेति ॥ ततोऽग्निनामप्रवर्तकस्यात्तृत्वस्य तदाविष्टलक्ष्म्यादिष्वेव मुख्यत्वादग्नेरग्निताऽत्तृत्वलक्षणा मुख्या नैवेत्यर्थः । ततो लक्ष्म्यादे- रित्यवधिनिरूपणं वा । अतोऽग्निनाम नाग्नौ मुख्यमिति भावः । अपागादादित्यस्याऽदित्यम्" इत्येतदप्येवं व्याख्येयमिति भावेनाऽह- एवमिति । यथाऽग्नित्वमेवमादित्यस्याऽदित्यनामप्रवर्तकमाददानत्वं- मपि लक्ष्म्यादिदेवतानामेव मुख्यं नाऽदित्यस्येति योजना । कुत इत्यत आह- आदित्यस्येति ॥ यस्मादादित्यस्य तद् रूपं तदुद्भवं लक्ष्म्यादिदेवतारूपोद्भवं तत् तस्मादित्यर्थः । अस्त्वाददानत्वं लक्ष्म्या- दीनामेव मुख्यं नाऽदित्यस्य किं तत इत्यत आह- अत इति ॥ एषामेव मुख्यतो वर्तत इति सम्बन्धः । " अपागाच्चन्दाच्चन्द्रत्वम्'' इत्येतत्तात्पर्यमाह- यदिति । यथाऽऽददानत्वं तथा यच्चन्द्रस्याऽह्लाद- कत्वं चन्द्रता चन्द्रशब्दप्रवृत्तिनिमित्तं तत्तेषामेव मुख्यं न चन्द्रस्य । तद्रूपोद्भूतरूपत्वेन तस्य तदधीनत्वात् । अतश्चन्द्रनामैषामेव । नैव चन्द्रस्य मुख्यत इत्यर्थः ।

" अपागाद् विद्युतो विद्युत्वम्" इत्येतत्तात्पर्यमाह - विद्युदिति ॥ विद्युतो विद्योतनं विद्योतकत्वमपि तेषामेव मुख्यं, न विद्युतः उक्तादेव हेतोः । अतो विद्युन्नामैषामेव । नैव विद्युतो मुख्यत इत्यर्थः । एतेनवाचाऽऽरम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम्इति वाक्यचतुष्टयमपि तात्पर्यतो व्याख्यातम् । नन्वेतावताऽग्र्यादिनाम- चतुष्टयमुख्यार्थत्वं लक्ष्म्यादीनां प्राप्तम् । तावता कोऽतिशयस्तेषा- मित्यत आह- तत इति । तत्तद्देवताशब्दप्रवृत्तिनिमित्तस्य तेष्वेव मुख्यत्वात् ते सर्वदेवनाममुख्यवाच्या इत्यर्थः । तत्तद्देवताशब्द-प्रवृत्तिनिमित्तस्य तत्रैव मुख्यत्वं कुत इत्यत आह- तथै । यथाऽग्र्यादिरूपं तथैव सर्वदेवतारूपं च रोहितादिकं तद्रूपोत्पन्नं तस्मात् तत्तच्छब्दप्रवृत्तिनिमित्तं तेषामेवेत्यर्थः । एवं च श्रुतौ "यद्विद्युतो रोहितं रूपम्’” इत्यादिकमुपलक्षणम् । " यन्मित्रस्य रोहितं रूपम्" इत्याद्यपि ग्राह्यम् । अत एवाग्न्यादिदेवताचतुष्टयोपादानम् । ततश्च यदु रोहित- मिवाभूदिति तेजसस्तद्रूपमिति सामान्यतो विद्वत्सम्मतिकथनमपि नासङ्गतमिति भावः । स्यादेतत् । यद्यग्र्यादिसर्वदेवतारूपं तद्रूपोत्पन्न- मित्येतदेव स्यात् । तदेव कुत इत्यत आह- सर्वरूपा इति ॥ चो यस्मादित्यर्थे । यस्मादग्र्यादिसर्वदेवतारूपं तद्रूपप्रतिबिम्बितं तस्मादेव ते अग्न्याद्याः सर्वे देवाः लोहितादिक्रमेण सर्वरूपवन्तः । अन्यथा तन्न स्यात् । स्वतो रूपशून्यत्वात् तेषामित्यर्थः ।

Load More