अथ यद्वितीयममृतं तद्रुद्राः उपजीवन्तीन्द्रेण मुखेन
उपनिषत् (खण्डः -७)
मधु नामक सङ्कर्षणोपासनाफलम्
अथ यद्वितीयममृतं तद्रुद्राः उपजीवन्तीन्द्रेण मुखेन । न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति॥१ ॥
त एतदेव रूपमभिसंविशत्येतस्माद्रूपादुद्यन्ति ॥ २ ॥
स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥३॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ ७ ॥
भाष्यम्
एवं द्वितीयरूपं तु शिवाद्या वायुसंश्रिता: (१) वायोर्हिरण्यगर्भत्वात् पदद्वयमुदाहृतम् ।।रुद्राणामाश्रयत्वं च साध्यानामपि सर्वशः । अतो यजुर्विचारश्च सर्ववेदात्मनस्तथा ॥ वायोरेव विचारः स्याद् ब्रह्मणोऽपि विशेषतः । उभयाश्रयः स मोक्षेsपि वायुरेव हि सर्वदा ॥
पदार्थकौमुदी
द्वितीयखण्डस्थं “एतदेव रूपम्' इति वाक्यं व्याचष्टे - एवमिति । यथा वसव एवं शिवाद्या द्वितीयं रूपं विशन्ति । ततो बहिः समुद्यन्ति चेत्यर्थः । “इन्द्रेण मुखेन” इत्यस्य व्याख्यानम् - वायुसंस्थिता इति । वाय्वाश्रया इत्यर्थः । अनेन मुखशब्दस्य प्राधान्यवाचित्वमुपपादितं भवति ।
ननु वायोर्न रुद्रान्तर्भावः सम्भवति । तस्य ब्रह्मपदयोग्यत्वेन साध्या- न्तर्भावात् । द्वितीयामृतद्रष्टृरुद्रान्तर्भावे च “रुद्राणामेवैको भूत्वा " इति वक्ष्यमाणरुद्रपदप्राप्तिप्रसङ्गात् । नचैकस्य पदद्वयं दृष्टमित्यत आह - वायोरिति । हिरण्यगर्भत्वाद् भाविहिरण्यगर्भत्वात् । उदाहृतं प्रमाणेषु रुद्रपदं साध्यपदं चेति पदद्वयं नेतररुद्रसाध्यसाधारण्येनेत्याह रुद्राणामिति ॥ ‘“सर्वशः” इति “रुद्राणाम्" इत्यत्रापि सम्बध्यते । साध्यानामाश्रयत्वमप्युदाहृतमिति सम्बन्धः । अनेन " इन्द्रेण मुखेन ब्रह्मणा मुखेन'' इत्युक्तमुभयत्र प्राधान्यमुपपादितं भवति । तदुभयाश्रयत्वं वायोरुपपादयति अत इति । चोऽवधारणे । अत एव रुद्रसाध्या- श्रयत्वादेव । वायोरेव यजुर्विचारः । तथा सर्ववेदात्मनः सर्ववेदरूपस्य ब्रह्मणोऽपि विचार: विशेषतः रुद्राद्यपेक्षया विशेषेण स्यादिति योजना । "ब्रह्मणः" इत्यनेन वेदराशेरिति विवक्षितम् । “ब्रह्मैव पुष्पम् " इत्युक्तत्वादित्याशयेन तत् “सर्ववेदात्मनः " इति विवृतम् । न केवलं संसारे वायुरुभयाश्रय इत्याह- उभयाश्रय इति ॥ हि यस्मान्मोक्षेऽप्युभयाश्रयस्तस्मात् सर्वदोभयाश्रय इत्यर्थः । अनेन "इन्द्रेण मुखेन ब्रह्मणा मुखेन'' इत्येतत् “एतदेव रूपमभिसंविशन्ति” इत्यत्रापि सम्बध्यत इत्युक्तं भवति ।। सप्तमः खण्डः ।।
खण्डार्थः
अथ यद् दितीयममृतं सङ्कर्षणाख्यं शिष्टं पूर्ववत् । ननु कौ तौ रुद्रभोग्यौ देशकालौ ? यदधिपोऽयं भवतीत्युक्तमित्यपेक्षायामाह - स यावदादित्य इत्यादिना ।। आदित्यः यावत् । यावता देशेन कालेन च दक्षिणत उदेता तद्देशगतान् प्रति स्वसामीप्येन उदयं प्राप्त इवोत्तरतोऽस्तमेता तान् प्रत्येव दूरगमनेनोत्तरदेशविशेषेऽस्तं प्राप्त इव तावतः कालस्य देशस्य च रुद्राणामाधिपत्यं सोऽधिकारी तत्पर्येता । तत्र स्वाराज्यं भोगं च पर्येता । ननु रुद्रभोग्यौ देशकालौ वसुभोग्य- देशकालापेक्षया कियन्तावित्यपेक्षायां तदर्धभूतावित्याह- पुरस्तादि- त्यादिना || आदित्यः यावद यावता कालेन सकाष्ठार्धनाड्युत्तरपञ्च- दशघटिकात्मकपूर्वरात्ररूपेण तद्गन्तव्यदेशेन च दक्षिणतः उदेतो- ततोऽस्तमेता तावत् तावतः कालादेः द्विर्द्विगुणं कालं पुरस्तादुदेता पश्चादस्तमेता रुद्रभोग्यदक्षिणोदयकालाद्यपेक्षया वसुभोग्यः पूर्वोदय - कालादिर्द्विगुण इत्यर्थः । तथाच रुद्रभोग्यकालादेर्वसुभोग्यकालाद्यर्धता पर्यवस्यतीति भावः ।। १-४ ॥
।। इति सप्तमः खण्डः ॥