अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ..

उपनिषत्(खण्डः - ९)

उद्गीथनामकभगवानेव सर्वोत्तमः

अस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथः स एषोऽनन्तः ॥ १ ॥

हरिसर्वोत्तमत्वज्ञानफलम्

परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतमेवं विद्वान् परोवरीयांसमुद्गीथमुपास्ते । तं हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच यावत्त एनं प्रयाजमुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिंल्लोके जीवनं भविष्यति तथामुष्मिंल्लोक इति स य एतमेवं विद्वानुपास्ते परोवरीय एव हास्यास्मिंल्लोके जीवनं भवति तथामुष्मिंल्लोके लोक इति लोके लोक इति ॥ २ ॥ नवमः खण्डः ९ ॥

भाष्यम्

. ...................विष्णुराकाशनामकः ।

आदीप्तत्वाद वरीयांश्च परमो हरिरेव हि ।।' इति सत्तत्त्वे । 'शुभाशुभानां दाहादौ साम्यात् सामाग्निरीरितः । स्वो विष्णुः सागरे रन्ता वरुणोऽतः स्वरः स्मृतः ।। उदयाज्जगत्प्रणेतृत्वात् सूर्यः प्राण उदाहृतः । अत्ता रुद्रस्तद्विरोधाद् दक्षः स्यादन्ननामकः ।। स्वो विष्णुस्तद्रतिर्वायुस्तद्गो मुक्तौ सदाशिवः । अतः स्वर्गोऽसुसंस्थत्वादसाविति च कीर्तितः ।। सर्वदेवान्तरत्वात् तु ब्रह्माऽयं समुदाहृतः । लोकी ज्ञानस्वरूपत्वादेतेषां परमो हरिः ।।' इति ब्रह्मतर्के ।

आपालनादाप इन्द्रः अधिकं वरीयान् परोवरीयान् । तत् परोवरीयोऽस्य रक्षकं भवति । यावत्तः द्वापरादिपर्यन्तम् ॥ ८ ॥ ॥ नवमः खण्डः ९ ॥

पदार्थकौमुदी

आकाशशब्दं विष्णौ निर्वक्तिआदीप्तत्वादिति ॥ नन्वाकाशो भूताकाशमेव किं न स्यात् । आकाशशब्दस्य तत्र रूढत्वाद् विष्णौ तु यौगिकत्वात् । नहि रूढिपरित्यागेन योगाङ्गीकारो विना बाधकं युक्त इति चेत् । न । स एष परोवरीयानुद्गीथः स एषोऽनन्तःइत्याकाशस्य परोवरीयस्त्वानन्तत्वाद्युक्तेः । तस्य विष्णावेव सम्भवादन्यत्रासम्भवादिति भावेनाऽह्वरीयांश्चेति ॥परमो वरीयान्" इत्यनेन परोवरीय- इशब्दार्थ उक्तः । चशब्दोऽनन्तत्वादिसमुच्चायकः । तथाच सूत्रम्- ‘“आकाशस्तल्लिङ्गात्’(ब्र. सू. १-१-१२ ) इति । पूर्वमन्याद्याः सामाद्यभिमानित्वात् सामादिशब्दवाच्या इत्युक्तम् । इदानीं योगेनापि सामादिशब्दवाच्यास्त इत्याह - शुभेति । दाहादावित्यन्तस्य योग्यतया लाभः । स्वो विष्णुः रमत्यस्मिन् सागर इति वरुणः स्वरः स्मृत इत्यर्थः ।

उदयेन जगत्प्रवृत्तिहेतुत्वादित्यर्थः । दक्ष अद्यत इत्यन्ननामकः स्यात् । को दक्षोऽत्तेत्यत उक्तम्अत्ता रुद्र इति । तथाऽपि दक्षस्य तदद्यत्वं कुत इत्यत उक्तम्तद्विरोधादिति । रुद्रविरोधादित्यर्थः ।

" स्वर्गं वयं लोकम् " इति " असौ लोकः" इति च रुद्रे स्वर्गासौलोकशब्दाः प्रयुक्ताः । तत्र स्वर्गशब्दं निर्वक्ति- स्व इति ॥ यतः स्वतन्त्रत्वात् स्वे विष्णौ रमत इति स्वरिति वायुरुच्यते । यतश्च मुक्तौ सदाशिवस्तस्मिन् गतोऽन्तः सः स्वर्ग इत्युच्यत इत्यर्थः । असावित्य- स्यापेक्षितपूरणेनार्थमाह -- असुसंस्थत्वादिति ॥ " अयं लोकः" इति ब्रह्मणि प्रयुक्तस्यायमित्यस्यार्थमाह - सर्वेति ॥ लोकशब्दं निर्वक्ति- लोक इति ।। रुद्रे प्रयुक्तलोकशब्दस्याप्ययमेवार्थः ।अस्य लोकस्य का गतिरित्याकाश इति होवाच ' ' इत्यत्र ब्रह्मोत्तमत्वोक्तावपि सर्वोत्तमत्वं लब्धमेवेति भावेनाऽह - एतेषामिति ॥ अकाशशब्दस्तु प्रागेव निरुक्तः । इन्द्रे प्रमाणेनाप्शब्दस्यानिरुक्तेः स्वयं निर्वक्ति आ पालनादिति ॥ आ समन्तादित्यर्थः ।

परव्याख्यानिरासः

वरीयसः परः परोवरीयानिति व्याख्यानमसत् । तथा सति परवरीया- नित्येव प्रयोगापातात् । एतेन परश्च वरीयांश्च परोवरीयानित्यप्यपास्तम् | परत्वस्य पृथग्विशेषणत्वे पुनरुक्त्यापाताचेति भावेन तत्तात्पर्यमाह - अधिकमिति ।। अक्षरार्थं तूत्तरत्र वक्ष्यति ।

ननुपरोवरीयो हास्य भवति' इति कथम् ? भगवतः सर्वान् प्रत्यविशिष्टत्वादित्यतस्तद् व्याचष्टे तत्परोवरीय इति ॥ पूर्वं " परोवरीयान् " इति पुल्लिङ्गान्तशब्दश्रवणादत्र नपुंसकलिङ्गान्तशब्द-श्रवणादन्यदेवैतदिति शङ्कापरिहाराय " तत्परोवरीय'' इत्युक्तम्। ‘“यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते" इत्यत्र यावत्ते तव प्रजायामुद्गीथं वेदिष्यन्त इति व्याख्यानमसत् 1 प्रजाशब्दस्यैवाधिकारिप्रजामात्र- परत्वसम्भवे ते तवेति विशिष्योक्त्ययोगात् । अतो यावत्त इति तसिलप्रत्ययान्तोऽयं शब्द: प्रमाणप्रमितयावत्कालपर्यन्तमित्यर्थमाह । तत्र कोऽसौ प्रमाणप्रमितः कालः ? इत्यत आह - यावत्त इति ।। नवमः खण्डः ।।

खण्डार्थः

अस्य लोकस्य पृथिव्यभिमानिब्रह्मणः का गतिरिति पृष्टे आकाशः आदीप्तत्वादाकाशनामको विष्णुरिति होवाच प्रवाहणः । कथमेतस्य पृथिव्यभिमानिब्रह्मगतित्वमित्यतस्तस्य माहात्म्यमाह - सर्वाणीति ॥ सर्वाणीमानि प्रमाणप्रसिद्धानि भूतानि ब्रह्मरुद्रादीनि आकाशादेव समुत्पद्यन्ते । हवा इति अस्यार्थस्य वैदिकीं सुप्रसिद्धिमाह । आकाशं प्रत्यस्तमदर्शनं यन्ति। तत्रैव प्रलये मुक्तौ च लीनानि भवन्ति । कुत: ? हि यस्मादाकाश एवैभ्यो ब्रह्मरुद्रादिभूतेभ्यो ज्यायान् । तदपि कुत: ? आकाशः परायणमुत्तमाश्रयः । नैतस्मादप्युत्तमं वस्त्वाशङ्कयमिति स इति ।। स एष आकाशनामा भगवान् परोवरीयान् । अधिकं वरीयान् । उद्गीथ उच्चैर्गेयत्वात् । स एषोऽनन्तो देशतः कालतो गुणतश्च परिच्छेदशून्यत्वादनन्तनामकः ।। १ ।।

उक्तरीत्या भगवदुपासकस्य फलमाह परोवरीय इति ॥ योऽधिकारी एतमाकाशनामकं परोवरीयांसमुद्गीथमेवमुक्तरीत्या ब्रह्म- गतित्वेन विद्वानुपास्ते । अस्योपासकस्य परोवरीयः परोवरीयोनामकं ब्रह्म रक्षकं भवति । स उपासकः परोवरीयसोऽधिकं वरीयसो लोकान् वैकुण्ठानन्तासनश्वेतद्वीपाख्यान् जयति प्राप्नोति ह ।

" परोवरीयो हास्य रक्षकं भवति" इत्युक्तं विवरितुं विश्वास- जननायाऽख्यायिकामाह - तमिति ॥ अतिधन्वा नामतः शुनकस्यापत्यं शौनकः तम् उद्गीथं भगवन्तम् उदरशाण्डिल्याय स्वशिष्यायोक्त्वोवाच । किमिति ? ये प्रजायामधिकारिजीवसमूहे एनमुद्गीथं त्रेतायां वेदिष्यन्ते एभ्य उद्गीथवेत्तृभ्यः परोवरीयो ब्रह्मास्मिँल्लोके यावत्तः प्रमाणेन यावत्कालपर्यन्तमुक्तं द्वापरादिपर्यन्तं तावज्जीवनं भविष्यति । न केवलमेतावत् तथाऽमुष्मिँल्लोके जीवनं भविष्यति । पुनर्लोक इत्युक्तिरादरार्था । इदानींपरोवरीयो हास्य भवति" इत्युक्तं विवृणोति स इति ॥ स प्रसिद्धो योऽधिकारी एतमेवं विद्वानुपास्तेऽस्योपासकस्य परोवरीय एवास्मिंल्लोके जीवनं भविष्यति । तथाऽमुष्मिँल्लोके जीवनं भविष्यतीति द्विरुक्तिर्विद्यासमाप्त्यर्था ॥ २ ॥ ।। इति नवमः खण्डः ।।