अथ खल्वात्मसंमितमतिमृत्यु सप्तविधं सामोपासीत हिङ्कार इति ..
उपनिषत् (खण्डः- १०)
सप्तविधसामप्रतिपाद्यभगवतो रूपाणि समानि
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधं सामोपासीत हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत्समम् ॥ १ ॥
आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं तत इहैकं तत्समम् ॥ २ ॥
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षर मतिशिष्यते त्र्यक्षरं तत्समम् ॥ ३ ॥
निधनमिति त्र्यक्षरं तत्सममेव भवति तानि ह वा एतानि द्वाविंशतिरक्षराणि ॥ ४ ॥
भाष्यम्
'यस्यान्यः सदृशो नास्ति स्वरूपाणि समानि च । स आत्मसम्मितो विष्णुरतिमृत्युरमृत्युतः ॥ प्रद्युम्नादिस्वरूपेण स विष्णुः सप्तधा स्थितः । समानि तानि सर्वाणि ज्ञानानन्दबलैस्तथा ॥ ज्ञानादित्रयवाचीनि त्र्यक्षराण्यपि सर्वशः । हिङ्कारादीनि नामानि सर्वेषामपि सर्वशः || आदिनाम्नः प्रकारस्तु योज्यः स्यात् प्रतिहारतः । तेन त्र्यक्षरमेव स्यानामद्वयमपि प्रभोः ॥ उपद्रवे तु वः कारो यद्यपि व्यतिरिच्यते । नाम नारायणस्यैव सोऽपि क्षीराब्धिशायिनः ॥ व्यञ्जनस्वरसर्गैस्तु सोऽपि ज्ञानादिवाचकः । त्रिवर्णत्वात् समः सोऽपि ज्ञानाद्यैः पुरुषोत्तमः ||
पदार्थकौमुदी
सप्तविधस्य सामनाम्नो भगवतो ज्ञानानन्दबलैर्ब्रह्माद्यसमत्वादात्म- रूपसमत्वनिष्ठामुपास्तिमाह अथ खल्वित्यादिना ।। अयं खण्ड: प्रसिद्धसामपर इत्यसत् । शब्दरूपस्य तस्य परमात्मसम्मितत्वाति- मृत्युत्वयोरसम्भवात् । ‘“तन्नाकं तद्विशोकम्’”इत्यस्यासम्भवाच्च । ननु भगवत्परत्वेऽपि कथमात्मसम्मितत्वं तस्य ? सादृश्यस्य भेदव्याप्तत्वात् ।नहि गौर्गोसदृशीत्यत आत्मसम्मितत्वं द्वेधा घटयन् खण्डं प्रमाणेन व्याचष्टे – यस्येति ।। यथा “गगनं गगनाकारम्" इत्यादौ एतत्सदृश- मन्यन्नास्तीत्यर्थ एवमत्रापीति भावः । यस्य स्वरूपाणीत्यपि सम्बन्धः । स्वरूपाणां परस्परं समत्वं नाम परस्परनिष्ठबहुधर्मयोगित्वमेव । नतु तद्भिन्नत्वविशेषितम् । तच परस्परमभेदेऽपि सम्भवतीति भावः । अतिमृत्युपदं व्याचष्टे – अतिमृत्युरिति || अमृत्युत्वतः । सप्तविधमित्य- स्यार्थमाह – प्रद्युम्नादीति ॥ प्रद्युम्नवासुदेववराहनारायणानिरुद्ध- नृसिंहसङ्कर्षणस्वरूपेणेत्यर्थः । " हिङ्कार इति त्र्यक्षरम् । प्रस्ताव इति त्र्यक्षरम् । तत्समम्” इत्यादौ हिङ्कारादिसामनाम्नामेव त्र्यक्षरत्वसाम्य- मुच्यत इति भ्रान्तिवारणाय " तत्समम्' इति वाक्यपञ्चकं व्याचष्टे - समानीति । तत्र हेतुपरं “हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरम् ' ' इत्यादिवाक्यं व्याचष्टे - ज्ञानादीति ॥ सर्वशोऽपि त्र्यक्षराणि हिङ्कारा- दीनि नामानि सर्वशः वर्णशः सर्वेषामपि रूपाणां ज्ञानादित्रयवाचीनि हि यस्मात् तस्मात् तानि ज्ञानानन्दबलैः समानीत्यर्थः । हिङ्कारादिनाम्नां वर्णशो ज्ञानादित्रयवाचकत्वप्रकारस्तु प्रमाणान्तरादवगन्तव्यः ।
" आदिरिति व्यक्षरम् । प्रतिहार इति चतुरक्षरम् । तत इहैकं तत्समम्" इत्यत्र प्रतिहारनाम्नः को वर्ण आदिनाम्नि योज्य इत्यतस्तं दर्शयन् व्याचष्टे – आदिनाम्न इति । प्रतिहारनाम्नः प्रशब्दः आदिनाम्ना योज्यः स्यात् । तेन प्र आदिरिति आदिप्र इति वैकं नाम तिहार इत्यन्यदिति प्रभोर्नामद्वयमपि त्र्यक्षरमेव स्यादित्यर्थः । “अक्षरमति - शिष्यते’” इत्युपद्रवनाम्न्येकमक्षरमतिरिच्यत इत्युक्तम् - किं तदक्षरं किं वा तद्वाच्यमित्यत आह – उपद्रवे त्विति । तथाऽपि स वःकारों नारायण- स्यैव नाम । उक्तब्यूहान्तर्गतोद्गीथाख्यनारायणव्यावृत्त्यर्थं " क्षीराब्धि –शायिनः” इत्युक्तम् । नन्वेवं वःकारस्य त्र्यक्षरत्वाभावात् तद्वाच्यस्य नारायणस्य ज्ञानादिगुणैः साम्याभावे प्रागुक्तविरोध इत्याशङ्का- निवर्तकतया “त्र्यक्षरं तत्समं भवति' इति वाक्यं व्याचष्टे – व्यञ्जनेति ॥ व्यञ्जनस्वरसर्गैस्त्रिवर्णत्वादित्यन्वयः । सोऽपि वः कारोऽपि । अपिशब्देन हिङ्कारादिसमुच्चयः । यतस्ततः सोऽपि नारायणोऽपि । प्रद्युम्नादि - समुच्चयार्थमपिशब्दः ।