सङ्कल्पो वाव मनसो भूयान् यदा वै सङ्कल्पयतेऽथ ..

उपनिषत् (खण्डः-४)

मनोऽभिमानिपर्जन्यात् सङ्कल्पाभिमानिमित्रस्य श्रेष्ठ्यनिरूपणम्

सङ्कल्पो वाव मनसो भूयान् यदा वै सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नामि्न मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥

तानि ह वा एतानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि समक्लृपतां द्यावापृथिवी समकल्पेतां वायुश्चाकाशश्च समकल्पन्तामापश्च तेजश्च तेषां सङ्क्लृप्त्यै वर्षं सङ्कल्पते वर्षस्य सङ्क्लृप्त्या अन्नं सङ्कल्पतेऽन्नस्य सङ्ग्क्लृप्त्यै प्राणाः सङ्कल्पन्ते प्राणानां सङ्क्लृप्त्यै मन्त्राः सङ्कल्पन्ते मन्त्राणां सङ्क्लृप्त्यै कर्माणि सङ्कल्पन्ते कर्मणां सङ्क्लृप्त्यै लोकाः सङ्कल्पन्ते लोकानां सङ्क्लृप्त्यै सर्वं सङ्कल्पते स एष सङ्कल्पः सङ्कल्पमुपास्स्वेति ॥ २ ॥

स यः सङ्कल्पं ब्रह्मेत्युपास्ते क्लृप्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिद्ध्यति । यावत् सङ्कल्पस्य गतं तत्रास्य यथाकामचारो भवति यः सङ्कल्पं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति सङ्कल्पात् भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ ३ ॥ ४ ॥

भाष्यम्

तथा तस्माद् वरो मित्रो मुक्तौ सङ्कल्पदेवता । अह्नि सङ्कल्पयेद्यस्मात् स्वप्स्यन्ति निशि यत् ततः ।।

पदार्थकौमुदी

सङ्कल्पो वाव मनसो भूयान्" इत्येतद्व्याचष्टे - तथेति ॥ श्रौत - सङ्कल्पशब्दोपपत्तिःसङ्कल्पदेवतेति । यस्मादह्नि सङ्कल्पयेत् प्रजानां सङ्कल्पमुत्पादयेत् ततः सङ्कल्पनामक इत्यर्थः ।अह्निइति विशेषण- कृत्यमाहस्वप्स्यन्तीति ॥ निशि सङ्कल्पाभावादेवाह्णीत्युक्तमिति भावः । अह्नीति स्वापकालातिरिक्तकालपरम् ।। चतुर्थः खण्डः ॥

खण्डार्थः

सङ्कल्पाभिमानी मित्र एव मनसो भूयान् । तन्महिमानमाह- यदेति । यदा वै पुरुषः सङ्कल्पयते इदमहं करोमीति । अथ तदा मनस्यति मनः प्रेरयति । अथ मनो व्यापारानन्तरमेव वाचमीरयति । किंविषय इत्यत आह- तामिति ॥ यद्वा न केवलं लौकिकशब्दविषये बाचमीरयति । किन्तु तां नाम्नि ऋग्वेदादिरूपेऽपीरयति । नाम्नि सर्वविद्यायां मन्त्रा एकं भवन्ति अन्तर्भवन्ति । सामान्ये विशेषान्तर्भावात् मन्त्रेषु कर्माण्यन्तर्भवन्ति । तत्प्रकाश्यत्वात् । अतस्तान्येतानि मन- आदिकर्मान्तानि । सङ्कल्पैकाश्रयाण्यमुक्तौ । सङ्कल्पस्वामिकानि मुक्तौ सङ्कल्पे प्रतिष्ठितानि । द्यावापृथिव्याद्यचेतनकल्पकत्वरूपं महिमान्तरमाहसमक्ऌपतामित्यादिना ॥ द्यौश्च पृथिवी चेति द्यावापृथिव्यौ समक्ऌपतां सङ्कल्पोत्पन्ने इत्यर्थः । तेषां व्यादितेजोन्तानां सङ्क्रप्त्यै स्थित्यै वर्ष सङ्कल्पयते मित्रः । एवमन्यत् । लोकानां सङ्कृत्यै सर्वमचेतनं सङ्कल्पयते । निगमयतिस एष इति ।। १-२ ।।

ध्रुवान् नित्यान् । प्रतिष्ठितान् सदैकप्रकारेण स्थितान् अव्यथमानान् दुःखरहितान् लोकान् स्वयं तादृशोऽभिसिद्ध्यति प्राप्नोति

।। इति चतुर्थः खण्डः ॥। ४ ॥