सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ..
उपनिषत् ( खण्ड: - ४)
जाबालसत्यकामोपाख्यानम्
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयाञ्चक्रे ब्रह्मचर्यं भवति विवत्स्यामि किङ्गोत्रो न्वहमस्मीति ॥ १ ॥
सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साऽहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो ब्रुवीथा इति ॥ २ ॥
स ह हारिद्रुमन्तं गौतममेत्योवाच ब्रह्मचर्यं भगवति वत्स्याम्युपेयां भगवन्तमिति ॥ ३ ॥
तं होवाच किं गोत्रो नु सोम्यासीति स होवाच नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरं सा मा प्रत्यब्रवीद् बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे साऽहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि सत्यकामो नाम त्वमसीति सोहं सत्यकामो जाबालोऽस्मि भो इति ॥ ४ ॥
तं होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याऽऽहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय कृशानामबलानां चतुःशतं गा निराकृत्योवाचेमाः सोम्यानु संव्रजेति ता अभिप्रस्थापयन्नुवाच नासहस्रेणावर्तयेति स ह वर्षगणं प्रोवाच ता यदा सहस्रं सम्पेदुः ॥ ५ ॥ ४ ॥
भाष्यम्
'आर्जवं ब्राह्मणे साक्षाच्छूद्रोऽनार्जवलक्षणः । गौतमस्त्विति विज्ञाय सत्यकाममुपानयत् ॥' इति साम- संहितायाम् ।
पदार्थकौमुदी
एवं परापरब्रह्मविषया संवर्गविद्या निरूपिता । इदानीं परब्रह्मविषया- मेव वासुदेवादिचतुर्मूर्तिविद्याम् आख्यायिकापुरःसरमाह – सत्याकाम इत्यादिखण्डषट्केन ॥ ननु गोत्रानिर्णये ब्राह्मण्यानिर्णयात् कथं गौतमः सत्यकामोपनयने प्रवृत्तः ? शूद्रसंस्कारस्य निषिद्धत्वादिति चेन्न । " नाहमेतद्वेद भो यगोत्रोऽहमस्मि " इति वचनेन सत्यकामस्यार्जवं ज्ञात्वा " नैतदब्राह्मणो विवक्तुमर्हति' इति शूद्रत्वाभावनिर्धारण एव तदुपनयने प्रवृत्तत्वात् । तथा च सूत्रम् - " तदभावनिर्धारणे च प्रवृत्तेः " इति । आर्जवज्ञानेऽपि शूद्रत्वाभावनिर्धारणं कथमित्यत आह- आर्जवमिति । ब्राह्मणे ब्रह्माणनयोग्ये त्रैवर्णिके साक्षान्मुख्यतः आर्जवं लक्षणमिति शेषः ।
खण्डार्थः
सत्यकामो नामतो जाबालो जबालापुत्रो जबालाख्यां स्वमातरमामन्त्रयाञ्चक्रे आकारितवान् उवाच च । हे भवति अहं ब्रह्मचर्यं वेदाध्ययनमुद्दिश्य विदेशं गत्वा वत्स्याम्याचार्यकुले । किं ततः ? ममाधुनापि नोपनयनम् । ते च गोत्रानिर्णये नोपनयनं कुर्युरतोऽहं किंगोत्रोऽस्मीति । नु वितर्के ॥ १ ॥
एवं पृष्टा सा ह एनं स्वपुत्रमुवाच । हे तात त्वं यगोत्रोऽसि एतन्नाहं वेद । कस्मान्न वेत्थेत्यत आह - बह्विति ॥ यतोऽहं बहु यथेष्टं चरन्ती परिचारिणी दासी । यौवने त्वामलभे । अतः साऽहमेतन्न वेद यद्गोत्रस्त्वमसीति । जबाला तु नामाहमस्मि । सत्यकामो नाम त्वमसि । त्वं सत्यकाम जाबालोऽस्मीत्येवाऽचार्याय ब्रवीथा इति ॥ २ ॥
स सत्यकामो हारिद्रुमतं हरिद्रुमतोऽपत्यं गौतमं गोत्रतः एत्योवाच । भगवति पूजार्हे त्वयि ब्रह्मचर्यमुद्दिश्य वत्स्यामीति भावेन भगवन्त- मुपेयामिति ॥ ३ ॥
तं होवाच गौतमः । हे सोम्य त्वं किंगोत्रोऽसि ? नु वितर्के । नाधुनापि तवोपनयनसंस्कारः । तदभावे च नाध्ययनम् । गोत्रानिर्णये च ब्राह्मण्यानिर्णयान्नोपनयनसंस्कार इति भावः । एवमुक्तः स सत्यकाम उवाच । अहं यगोत्रोऽस्मि नाहमेतद्वेद । पिता नु नास्त्येव । अपृच्छं मातरम् । सा मा मां प्रत्यब्रवीत् । मात्रोक्तमेवाऽह - नेति । उक्तार्थमेतत्
॥ ४ ॥
एवं सत्यवचनेन सत्यकामस्याऽर्जवं ज्ञात्वा गौतमस्तं होवाच । एतदार्जवसंयुक्तं वचनमब्राह्मणस्त्रैवर्णिकेतरः वि सर्वथा वक्तुं नार्हति । आर्जवस्य ब्राह्मणलक्षणत्वात् । त्वं तु सत्याद् ब्राह्मणधर्मभूतात् नागाः नापेतवानसि अतस्त्वं ब्राह्मण एव । अतोऽनुपनीतं त्वामुपनेष्ये । तदर्थं समिधमाहरेति योजना । तमुपनीय कृशानामबलानां केषाञ्चिद् ब्राह्मणानां चतुःशतं गा निराकृत्य गोष्ठानिष्काल्योवाच । षष्ठी द्वितीयार्थे वा । कृशा अबलाः चतुश्शतं स्वकीया गा इत्यर्थः । हे सोम्येमा अनुसंब्रजेति तागा अरण्यं प्रत्यभिप्रस्थापयन्नुवाच गौतमः । असहस्रेणा सम्पूर्णसहस्रेण गोयूथेन सह नावर्तय न प्रत्यागच्छ । किन्तु सम्पूर्णसहस्रेण सह प्रत्यागच्छेति । स ( १ ) एवमुक्तस्ता गास्तृणोदकबहुलं द्वन्द्वरहितमरण्यं प्रवेश्यं ताश्चतुश्शतसङ्ख्याका गा यदा यावता वर्षगणेन सहस्रं सम्पेदुः तावन्तं वर्षगणं तत्रैव प्रोवास ।। ५ ।।
॥ चतुर्थः खण्डः ॥ ४ ॥