असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोऽन्तरिक्षमपूपो मरीचयः पुत्राः
अथ श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते तृतीयाध्याये
प्रथमः खण्डः
( मधुविद्यानिरूपणम् )
उपनिषत्
॥ हरिः ॐ ॥ असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
वस्वादिदेवा उपासिता उपासकस्य निर्विघ्नं स्वर्गादि प्रयच्छन्तीत्युक्तम् । ते तु नानादितः स्वमहिम्नैव वसुपदादिमन्तः । 'वसुनावको भूत्वा' इत्यादेः । अतः कस्यचिदुपास्त्येति वाच्यम् । कोऽसौ तदुपास्य इत्यतस्तदुपास्यं पञ्चविधं प्रपञ्चेनाऽह - असौ वा इत्यादिना ॥ असौ आदित्वततत्वज्ञानरूपत्वहेतुभिरादित्यनामाऽऽ- दित्यस्थो विष्णुः देवमधु | मदः सुखानुभवोऽस्मिन् धीयते निधीयते इति मधु । सुखानुभवपूर्णी मधुशब्दार्थः । देवोपजीव्यत्वाद् देवमधु । प्रसिद्धमधुवदयमादित्यस्थो विष्णुर्देवोपजीव्यमध्वित्यर्थः । एतद्विद्यायाः हृद्यारोहाय प्रसिद्धमधुसादृश्यं सर्वमप्याह - तस्येति ।। आदित्याख्य- मधुनो हरेः द्यौः प्रकाशादिगुणैर्युनानी घुस्था श्रीः, तिरश्चीनवंशः तिर्यक् स्थित्वा प्रणतिं कृत्वा वशे करोति हरिमिति तिरश्चीनवंश इत्युक्ता मध्वाश्रयापूपस्थानीयमारुताश्रयत्वात् तिर्यक् स्थितवंशस्थानीया । स्वान्तः सम्यग् हरीक्षणहेतुनाऽन्तरिक्षनामाऽन्तरिक्षस्थो वायुर्तियवंशलग्न- मध्वाश्रयापूपः । आप्यो हरिरुपतिष्ठत्यत्रेति भगवत्सन्निधिविशेषयुक्त- त्वादपूप इत्युक्तः प्रसिद्धमधुपटलस्थानीयः । आदित्यनाम्न हरेर्मधुशब्दित- स्यान्तरिक्षे स्थितेरिति भावः । मरीचयः रश्मयः मरीचिषु स्थिताः । वसु- रुद्राद्याः मधुकारिणस्तत्पुत्राः मरीच्याद्याः मरीचिस्था इत्यर्थः ।। १ ।।
( मधुनामकवासुदेवोपासना )
उपनिषत्
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्य ऋच एव मधुकृत ऋग्वेद एवं पुष्पं ता अमृता आपस्ता वा एता ऋचः ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तस्यादित्यस्य ये प्राञ्चः पूर्वदिगवस्थिता रश्मयो रश्मिषु स्थिताः रतिशंमानरूपत्वहेतुना रश्मिनामा वासुदेवः, ता एव विधेयापेक्षया स्त्रीत्वम् । बहुवचनमधिष्ठानबहुत्वाद् रूपबाहुल्याद् वा । रश्मिषु स्थित- स्तन्नामा, वासुदेव एवेति यावत् । अस्य मध्वपूपस्य प्राच्यो मधुनाड्यः पूर्वदिगवस्थितमधुनाडीषु स्थितोंऽशिनं मूलरूपमाप्तुमंशैर्वासुदेवादि- भिर्विना नालं न समर्थः पुमानिति व्युत्पत्त्या नाडीनामा | लडयोरभेदात् । स्त्रीत्वं शब्दस्वाभाव्यात् । बहुवचनं प्राग्वत् । एवमग्रेऽपि । ऋचः ऋग्वेदमानिनः । प्रातः सवनेऽर्च्यत्वहेतुना ऋनामानो वहयाद्या वसवो मधुकृतो मधुनामकविष्णुव्यक्तिकृत्त्वात् मधुमक्षिकानिभाः । ऋग्वेद एव पुष्पं ज्ञानपोषकत्वात् पुष्पमित्युक्तः प्रसिद्धपुष्पनिभः । ता आपः, आ
समन्तात् पीयन्ते विचार्यन्ते देवैरित्यपूशब्दिता ऋच एवामृताः नित्यत्वादमृता इत्युक्ताः । प्रसिद्धामृतनिभाः ता वा एता ऋचो ऋमानिनो ऋङ्नामानो वसवः ॥ २ ॥
उपनिषत्
एतमृग्वेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
एतमृग्वेदमभ्यतपन् श्रवणमननादिभिर्व्यचारयन् । अभितप्तस्य विचारितस्य तस्य वेदस्य सकाशाद् यशः ज्ञानानन्दात्मकः, तेजः प्रकाशरूपः, इन्द्रियं परमैश्वर्यरूपः, वीर्यं सर्वानुग्रहशक्तः, अन्नाद्यं बल- रूपः, रसः श्रेष्ठः, अन्नाद्यं सर्वानुग्रहशक्तः, रसो बलरूप इति वाऽर्थः । वासुदेवाख्यो हरिरजायत अभिव्यक्तोऽभूत् ।। ३ ।।
उपनिषत्
तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद् यदेतदादित्यस्य रोहितं रूपम् ॥ ४ ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
तद् यशःप्रभृतिगुणयुक्तं रसशब्दितं वासुदेवाख्यं ब्रह्म धर्ममोक्षादीन् देवानां व्यक्षरत् प्रादात् । तद् वासुदेवाख्यं ब्रह्म, आदित्यमभितः आदित्यप्राग्रश्मीन्, अश्रयत् तत्रातिष्ठत् । तद्वै ऋग्वेदोक्तं वासुदेवाख्यं ब्रह्म । एतद्वै यदादित्यस्य लोहितं रूपं लोहिताकारं सत् प्राग्रश्मिगत- लोहितरूपगमिति ॥ ४ ॥ इति प्रथमः खण्डः ।।
॥ अथ द्वितीयः खण्डः ॥
( मधुनामक सङ्घर्षणोपासना )
उपनिषत्
अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यो यजूंष्येव मधुकृतो यजुर्वेद एव पुष्पं ता अमृता आपः॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथ सङ्कर्षणाख्यरूपोपासनोक्तिरारभ्यत इत्यर्थः । य एवास्याऽ-दित्यस्य दक्षिणाः दक्षिणदिगवस्थिताः, रश्मयो रश्मिगताः रतिशंमान- रूपतया रश्मिनामकः सङ्कर्षणः । बहुवचनं प्राग्वत् । ता एव तत्रत्य-सङ्कर्षण एव अस्य मध्यपूपस्य दक्षिणा नाड्यो दक्षिणमधुनाडीस्थः । प्रागुक्तव्युत्पत्त्या नाडीनामकः । बहुवचनं प्राग्वत् । यजूंष्येव यजुर्मानिनो वायुमुखा रुद्राः मध्वाख्यहरिव्यञ्जकत्वान्मधुमक्षिकानिभाः । यजुर्वेद एव पुष्पं, ज्ञानपोषकत्वात् पुष्पमित्युक्तः । प्रसिद्धपुष्पकल्पं तस्यापि भ्रमर- पोषकत्वात् । आपः प्रागुक्तनिरुक्त्या यजूंषि ता आपः ॥ १ ॥
उपनिषत्
तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तानि यजूंषि यजुर्वेद इति यावत् । अमृता नित्यत्वादमृतशब्दिताः प्रसिद्धपुष्पामृततुल्याः । तानि वा एतानि यजूंषि यजुर्मानिनो वायुमुखा रुद्राः एतं यजुर्वेदमभ्यतपन् व्यचारयन् । तस्य विचारितस्य सकाशात् । यश इत्यादि प्राग्वत् । रसः सङ्कर्षणः ॥ २ ॥
उपनिषत्
तद्व्यक्षरत् तदादित्यमभितोऽश्रयत् तदा एतद्यदेतदादित्यस्य शुक्लं रूपम् ॥ ३ ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तत् सङ्कर्षणाख्यं ब्रह्म । आदित्यमभितो दक्षिणरश्मीनश्रयत् तत्रातिष्ठत् । तत् सङ्कर्षणरूपमेतद्वै । यदादित्यस्य शुक्लं रूपं शुक्लवर्णं सत् शुक्लरूपगमेतदित्यर्थः ।। ३ ।। इति द्वितीयः खण्डः ।।
॥ अथ तृतीयः खण्डः ॥
( मधुनामकप्रद्युम्नोपासना)
उपनिषत्
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः
॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
॥ अथेति | प्रद्युम्नस्योपास्तिप्रकार उच्यत इत्यर्थः । अस्यादित्यस्य ये प्रत्यञ्चो रश्मयः प्रत्यग्रश्मिस्थो रश्मिनामा प्रद्युम्नः स एवास्य मध्वपूपस्य प्रतीच्यो मधुनाड्यः प्रत्यङ्मधुनाडीस्थो मधुनाडीनामकः । सामान्येव सामाभिमानिनः मासेषु समभोगतया सामनामान: विष्णुवर्जिता इन्द्रमुखाः सर्वे आदित्याः। मधुकृत इत्यादि सर्वं प्राग्वत् ॥ १ ॥
उपनिषत्
तानि वा एतानि सामान्येतं सामवेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
सामानि सामाभिमानिनः प्रागुक्ताः ॥ २ ॥
उपनिषत्
तद्व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद्यदेतदादित्यस्य परं कृष्णं रूपम् ॥ ३ ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
तत् सामवेदोदितं प्रद्युम्नरूपं एतद्वै यदेतदादित्यस्य कृष्णं रूपं श्यामवर्णं सत् कृष्णरूपगम् ।। ३ ।।
।। इति तृतीयः खण्डः ।।
॥ अथ चतुर्थः खण्डः ॥
( मधुनामकानिरुद्धोपासना )
उपनिषत्
अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथेति प्राग्वत् । अस्यादित्यस्य ये उदो रश्मयाँ रश्मिस्थो रश्मिनामकोऽनिरुद्धः । ता वै सोऽनिरुद्ध एवं अस्य मध्वपूप- स्यादग्दिगवस्थितमधुनाडिगतो नाडीनामकः । अथर्वाङ्गिरस एव अधरं वर्तयन्ति वृष्टिं मनः प्राणाभिमानितयाऽङ्गानां रसश्चेति अङ्गिरोनामकाः इतिहासपुराणाथर्ववेदमानिनः सोममुखा मरुतो मधुकृतः । इतिहास- पुराणं द्वन्द्वैकवद्भावः । ता एवाऽपः आपीयन्त इत्यब्शब्दिते-तिहासादिवाक्यान्येवामृताः प्रसिद्धामृतनिभानि
।। १ ।।
उपनिषत्
ते वा एतेऽथर्वाङ्गिरस एतदितिहासपुराणमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीयमन्नाद्यं रसोऽजायत ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
ते वा इत्यादि प्राग्वत् परः ॥ २ ॥
उपनिषत्
तद्व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद्यदेतदादित्यस्य परं कृष्णं रूपम् ॥ ३ ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
आदित्यमभितः उदग्रश्मीनश्रयत् । तद् इतिहासपुराणाथर्ववेदोक्त-मनिरुद्धाख्यं रूपमेतद्वै । यदादित्यस्य परः कृष्णम् अत्यन्तनीलं रूपं सुनीलवर्णं सदत्यन्तनीलरूपगतं एतद्वै इति ॥ ३ ॥ इति खण्डः ४ ॥
|| अथ पञ्चमः खण्डः ||
( मधुनामकनारायणोपासना )
उपनिषत्
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवाsदेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
॥ अथेति ।। ऊर्ध्वा रश्मयो रश्मिनामको नारायणः । गुह्यादेशाः, सर्वगुह्योपदेष्टृतया गुह्यादेशा इत्युक्ताः ब्रह्ममुखाः सर्वे ऋजवो ब्रह्मैव वेदराशिंरव । ता एवाऽपो वेदवाचो अमृताः ॥ १ ॥
उपनिषत्
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ २ ॥
तद्व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
तत् सर्ववेदोक्तं नारायणाख्यं रूपं प्रोद्यदादित्यवर्णं सद् आदित्यस्य(१) मध्ये महामरीचिपुञ्जेन क्षोभत इवाचलोऽपि चलतीवाऽस्ते ।। २ ।। ३ ॥
उपनिषत्
ते वा एते रसानांरसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ ४ ॥५॥
छान्दोग्योपनिषत्खण्डार्थः
ते वा एते वासुदेवाद्याः पञ्चभगवद्रूपविशेषा रसानां रसाः । तद् व्यनक्ति-वेदा हि रसा इति । तानि वा एतानि वासुदेवादिरूपाणि तेषाममृतानां नित्यानां वेदानाममृतानि नित्यताप्रदानि ||४|| खण्डः-५ ।।
।। अथ षष्ठः खण्डः ॥
( मधुनामकवासुदेवोपासना )
उपनिषत्
तद् यत् प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति
॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवं पञ्चरूपिणं भगवन्तं मधुतयोक्त्वा अधुना के कस्य सेवकाः किं च तेषां तत्फलमित्यतः तत्सर्वं पञ्चभिः पर्वभिराह - तद्यदिति । तत् प्रागुक्तं यत् प्रथमममृतं वासुदेवाख्यं तद्वसव उपजीवन्ति पश्यन्ति अग्निना मुखेन । देवा वसवः तद्दर्शनपर्यन्तं नवै नेवाइनन्ति । न पिवन्त्यन्य-भोगहीना वर्तन्ते । एतदेवामृतं वासुदेवं दृष्ट्वा तृप्यन्ति ।। १ ।।
उपनिषत्
त एतदेव रूपमभिसंविशत्येतस्माद् रूपादुद्यन्ति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
ते वह्न्याद्या वसवः एतदेव वासुदेवरूपम् अभि स्वेच्छया संविशन्ति मुक्ताः सन्तः प्रविशन्ति । एतस्माद् रूपात् स्वेच्छयोद्यन्ति निर्गच्छन्ति ॥ २ ॥
उपनिषत्
स य एतदेवममृतं वेद वसूनामेवैको भूत्वाऽग्निनैव मुखेनैत- देवामृतं दृष्ट्वा तृप्यति स य एतदेव रूपमभिसंविशत्येतस्माद् रूपादुदेति || 3 ||
छान्दोग्योपनिषत्खण्डार्थः
एवं प्राप्तपदानां वसूनां मुक्तिरूपफलमुक्त्वाऽधुना प्राप्स्यमान-पदानां तत्पदयोग्यानां मधूपास्त्या तत्पदप्राप्त्यादिकं फलमाह - स इति ॥ योऽधिकारी एतदेवामृतं वासुदेवाख्यं वेद । स ज्ञानी वसूनामेव मध्ये एको भूत्वा वसुपदवीं प्राप्याग्निंनैव मुखेनैतदेवामृतं वासुदेवं दृष्ट्वा तृप्यति । स पश्चान्मुक्तावेतदेव रूपं वासुदेवं संविशति । स्वेच्छयैवैतस्माद् रूपादुदेति, बहिर्गच्छति || 3 ||
उपनिषत्
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
'वसूनामेवैको भूत्वा' इति मधूपासकस्य वसुपदप्राप्तिरुक्ता । तत् किं रूपमिति जिज्ञासायामाह स यावदिति । स वसुपदयोग्यो वासुदेवज्ञानी आदित्यः पुरस्ताद् उदयाद्रौ उदेता दृष्टिविषयो भवन् यावत्कालं यावद्देशं वा सञ्चरन् पश्चादस्ताद्रावस्तमदर्शनम् एता गन्ता भवति, वसूनां तावद्देशतावत्कालाधिपत्यं स्वाराज्यं भोगं च पर्येता प्राप्ता भवतीत्यर्थः । अत्रात्रान्तरविशेष: ' पुनर्विशेषतो दत्तम्' इत्यादिभाष्याद् ज्ञेयः || ४ || इति षष्ठः खण्डः ।।
॥ अथ सप्तमः खण्डः ॥
( मधुनामक सङ्कर्षणोपासनाफलम् )
उपनिषत्
अथ यद् द्वितीयममृतं तद् रुद्रा उपजीवन्तीन्द्रेण मुखेन । न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशन्त्येतस्माद् रूपादुद्यन्ति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथ यद् द्वितीयमित्यादिखण्डचतुष्टयेऽप्येवमेवार्थो ध्येयः । द्वितीय-ममृतं सङ्कर्षणाख्यम् उपजीवन्ति पश्यन्ति इन्द्रेण मुखेन वायुना मुखेन ।। १ ।। २ ।।
उपनिषत्
स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद् रूपादुदेति ||३||
छान्दोग्योपनिषत्खण्डार्थः
‘स य एतदेवामृतं वेद' इत्यादेः पूर्वत्रेव गमनिका तद्वदेवार्थश्च ज्ञेयः । इन्द्रेणैव वायुनैव ।। ३ ।।
उपनिषत्
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद् दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
रुद्राणां कियद्देशमियत्कालाधिपत्यमित्यत आह- स इत्यादिना ।। स द्वितीयामृताख्यसङ्कर्षणज्ञानी रुद्राणां तावदाधिपत्यं स्वाराज्यं पर्येतेत्य-न्वयः । कियद्देशकालमाधिपत्यं रुद्राणामित्यतो वसुभोज्य- देशकालयो- रर्धदेशकालमित्याह दक्षिणत इत्यादिना || आदित्यस्य मेरुं प्रदक्षिणीकृत्य सञ्चरतोऽस्तगिरावेतद्देशीयानामदर्शनं प्राप्तस्य मेरो: पश्चिमभागे दक्षिणदेशादुत्तरदेशं गच्छतां दक्षिणोत्तरदेशयोर्यथाक्रमं उदयास्तमयौ मेरुपश्चिमभागस्थजनानां भवतः । तत्र तत्र मानसगिरौ निम्नोन्नतस्थलसत्त्वादुदायास्तमयौ ध्येयौ । तथा चादित्यो याव- दक्षिणत उदेतोत्तरतोऽस्तमेता । मेरुपश्चिमदेशगतजनानां दक्षिणतो दृष्टिविषयो भूत्वा यावद्देशकालं गच्छन् तत उत्तरदेशे किञ्चिद् दिशि गत अदर्शनं प्राप्नोति तावद्देशकालं रुद्राणामाधिपत्यम् । कियद्देशकालं मेरुपश्चिमभागे दक्षिणतः उत्तरदिग्गमनमित्यतस्तद्देशकालपरिमाण- माह— यावदिति ।। उदयाद्रौ उदेत्य पश्चिममस्तं यावद्देशकालं याति, तावद्देशकालं द्विर्द्विगुणितं भवेदिति रुद्रभोज्यदेशकालाद् द्विगुणितो भवेत् । रौद्रदेशकालद्विगुणितो वसुकालो यावान् तावान् भवतीति तदर्धदेशः अर्धरात्रकालश्च रुद्रभोज्याविति फलितोऽर्थः ॥ ४ ॥ ७ ॥
॥ अथ अष्टमः खण्डः ॥
( मधुनामकप्रद्युम्नोपासनाफलवर्णनम् )
उपनिषत्
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति
॥ १ ॥
त एतदेव रूपमभिसंविशन्त्येतस्माद् रूपादुद्यन्ति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तृतीयममृतं प्रद्युम्नाख्यं वरुणेन वरणीयत्वहेतुना इन्द्रेण ॥ १ ॥ २ ॥
उपनिषत्
स य एतदेवममृतं वेदाऽदित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद् रूपादुदेति || ३ ||
छान्दोग्योपनिषत्खण्डार्थः
वरुणेनैव इन्द्रेणैव ।। ३ ।।
उपनिषत्
स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत् पश्चादुदेता पुरस्तादस्तमेताऽऽदित्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ ८ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवं दक्षिणत उदेत्योत्तरतोऽस्तङ्गतो रविर्यदा मेरुपश्चिमदेशीयाना-मस्तङ्गतो यदाऽस्तङ्गतदेशात् मेरुवायव्यभागात् पश्चिमात् पूर्वं देशं मेर्वीशान्यभागं प्रत्यायाति, तदा मेरूत्तरभागस्थानां जनानां पश्चिम- पूर्वावुदयास्तमयदेशौ, तावद्देशकालावादित्यभोग्यौ रौद्रदेशकाला- देशकालावित्याह-स यावदित्यादिना । पश्चादिति वाक्येऽपि यावदिति ग्राह्यम् । पश्चादुदेत्य पुरस्तादस्तं यावद्देशकालं याति तावद्देश- कालमादित्यानामाधिपत्यम् । तदेव कियदित्यत उक्तं यावदिति । दक्षिणोत्तरयोरुदयास्तमयदेशकालौ आदित्यदेशकालाद द्विगुणिती सन्ती यावन्तौ भवतः तावदिति । रुद्रोपभोग्यदेशकालार्धदेशकालाविति यावत् ॥ ४ ॥ इति अष्टमः खण्डः ।।
॥ अथ नवमः खण्डः ।।
( मधुनामकानिरुद्धोपासनाफलम् )
उपनिषत्
अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन नवै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति
॥ १ ॥
त एतदेव रूपमभिसंविशन्त्येतस्माद् रूपादुद्यन्ति ॥२॥
स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैत-देवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्
रूपादुदेति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
चतुर्थममृतमनिरुद्धाख्यं ।। १ ।। २ ।। ३ ॥
उपनिषत्
स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ४ ॥ ९ ॥
छान्दोग्योपनिषत्खण्डार्थः
मरुतामादित्योपभोग्यदेशकालार्धदेशकालाधिपत्यमित्याह-स यावदादित्य इत्यादिना । पूर्ववद् योजना । उत्तरतो मेरोरीशान्य- भागादुत्तरदेशीयानामस्तमयदेशाद् दक्षिणतो मेरोः किञ्चिदाग्नेय- भागेऽस्तमेता | मेरोः पूर्वदेशीयानाम् उत्तरदक्षिणयोरुदयास्तमयौ भवतः || ४ || इति नवमः खण्डः ||
॥ अथ दशमः खण्डः ॥
( मधुनामकनारायणोपासनाफलम् )
उपनिषत्
अथ यत्पञ्चमममृतं तत् साध्या उपजीवन्ति ब्रह्मणा मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ १ ॥
त एतदेव रूपमभिसंविशन्त्येतस्माद् रूपादुद्यन्ति ॥ २ ॥
स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद् रूपादुदेति || ३ ||
छान्दोग्योपनिषत्खण्डार्थः
पञ्चमममृतं नारायणाख्यम् । साध्याः साध्यनामकाः ब्रह्मपदयोग्याः ऋजवः । सुपर्णशेषसरस्वतीसुपर्णावारुण्यश्च । ब्रह्मणा विरिञ्चेन ।। १ ।। २ ।। ३ ॥
उपनिषत्
स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्व उदेताऽर्वाङस्तमेता साध्यानामेव तावदाधिपत्यं स्वाराज्यं
पर्येता ॥ ४ ॥ १० ॥
छान्दोग्योपनिषत्खण्डार्थः
मरुतामुपभोग्यदेशकालार्धदेशकालौ साध्यनामकानामित्याह – स यावदित्यादिना ॥ मेरोः किञ्चिदाग्नेययुक्तपूर्वभागेन्द्रपुरम् । तत्रोदयगिरौ निम्नोन्नतभागोऽस्ति । तत्राऽदित्य उदयाद्रेरूर्ध्वभागा- दधांभागं यदा याति तद्देशस्थानामूर्ध्वमुदयोऽधोऽस्तमयः । तद्देशकालौ मरुद्देशकालार्धदेशकालौ साध्योपभोग्यौ || ४ || इति दशमः खण्डः ||
॥ अथ एकादश: खण्ड: ।।
( प्रलये भगवत उदयास्ताभावसमर्थनम् )
उपनिषत्
अथ तत ऊर्ध्वं उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता तदेष श्लोकः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
प्रलये तु भगवान् कथं तिष्ठतीत्यत आह- अथेति । स्थित्यनन्तरम् । ततः सूर्यमण्डलादूर्ध्वं उदेत्योद्गत्योर्ध्वं गतः
सन् वैकुण्ठलोकं प्राप्य नैवोदाता नास्तमेता एकल एव एकप्रकार एव अद्वितीय एवेति वा । मध्ये प्रलये स्थाता । तत्र उक्तेऽर्थे एप वक्ष्यमाणः श्लोकः संवादी भवति ॥ १ ॥
उपनिषत्
न वै तत्र न निम्लोचो नोदियाय कदाचन । देवास्तेनाहं सत्येन मा विराधिषि ब्रह्मणा ॥ इति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
न वै नैव तत्र वैकुण्ठलोके । तत्र किं नैवेत्यत उदयास्तमयौ नैवेति । तद् व्यनक्ति-न निम्लोचो नास्तमयः, कदाचन नोदियाय उदयहीनः । हे देवाः ! तेन सत्येन ब्रह्मणा हरिणा तत्प्रसादेनेति यावत् । अहं मा विराधिषि, देवतात्वसिद्धिराहित्यं न प्राप्नुयामित्यर्थः । इतिशब्द: श्लोक- समाप्तौ ।। २ ।।
उपनिषत्
न हवा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद || ३ ||
छान्दोग्योपनिषत्खण्डार्थः
एतद्विद्यावेदिनः महत्त्वं प्रकाशयन् मोक्षफलमाह - न हवा इति ॥ योऽधिकारी एतां ब्रह्मोपनिषदं ब्रह्मप्रतिपादिकां मधुविद्यां वेद अस्मै ज्ञानिने न हवा उदेति न निम्लोचति । तस्य तात्पर्योक्तिः सकृद् दिवा हैवास्मै भवतीति । मुक्तस्य वैकुण्ठं प्राप्तस्य नित्यं दिवैव भवतीत्यर्थः ॥ ३ ॥
उपनिषत्
तद्वैतद् ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यस्तद्वैतदुद्दालकायाऽरुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
महदुपदेशपरम्परागता चैषेति विद्यां प्रशंसति तद्वैतदिति ॥ तदेतदादित्याख्यं पञ्चविधदेवमध्वाख्यं ब्रह्मरूपं ब्रह्मा भगवान् विष्णुः प्रजापतये विरिञ्चये उवाच । प्रजापतिर्मनवे | मनुः प्रजाभ्यः । उवाचेति सर्वत्रानुषङ्गः । तद्वैतद् ब्रह्म उद्दालक आरुणये ज्येष्ठाय पुत्राय प्रोवाच (स्म) ॥ ४ ॥
उपनिषत्
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् प्रणाय्याय वाऽन्तेवासिने ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
तत् तस्मात् सम्प्रदायागतत्वाद् अद्यतनोऽपि पिता प्रणाय्याय प्रणयवते ज्येष्ठपुत्राय अन्तेवासिने वा इदं ब्रह्म प्रब्रूयात् ॥ ५ ॥
उपनिषत्
नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव ततो भूय इति ।। ६ ।। ११ ॥
छान्दोग्योपनिषत्खण्डार्थः
नान्यस्मै कस्मैचनेति । एतद्विद्योपदेष्टुः सदृशगुरुदक्षिणाभावाच्चैषा महतीत्याह – यदीति ॥ अस्मै एतद्विद्योपदेष्ट्रे धनस्य धनेन पूर्णां, अद्भिः सप्तसमुद्रः परिगृहीतां परिवृतामपीमां पृथिवीं यदि दद्यात् । एतदेव मधुविद्यादानमेव । ततस्तादृशगुरुदक्षिणातः भूयः अधिकं तद्विद्यादानाय दक्षिणा नैव पूर्यत इत्यर्थः । इतिशब्दः समाप्तौ । द्विरुक्तिस्तात्पर्यज्ञप्त्यर्था
।। ६ ।। इति एकादशः खण्डः ।।
।। अथ द्वादशः खण्डः ।
( हयग्रीवमत्स्यादिरूपवाग्रूपानामुपासनम् )
( गायत्रीप्रतिपाद्यसूर्यान्तर्गतभगवदुपास्तिः )
उपनिषत्
गायत्री वा इदं सर्वं भूतं यदिदं किञ्च वाग्वै गायत्री वाग्वा इदं सर्वं भूतं गायति च त्रायते च ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
सूर्यान्तर्गतस्य हरेः सर्ववेदप्रतिपाद्यत्वेन प्रकृतस्य वेदमातृगायत्री- नामार्थत्वेनोपास्तिमाह गायत्रीत्यादिना ॥ यदिदं किञ्च सर्वं सर्वान्तर्गतं भूतं प्रभूतं परिपूर्णं मत्स्याद्यवतारजातम् इदं सर्वं गायत्री वै गायत्र्यां संस्थितः सन् गायत्रीनामकः स्त्रीरूपः सूर्यसप्रभो भगवान् वै प्रसिद्धम् । गायत्र्यनुपक्तवागादिनिष्ठानि भगवदुपास्त्यन्तराण्याह - बागू वै गायत्रीति ।। गायत्रीनामा हरिः वागू वै । वक्तीति व्युत्पत्त्या वाङ्नामा स्त्रीरूपो वाचि स्थितो हयशीर्षो वै । कुतः? इदं सर्वं भूतं देशकालगुणपरिपूर्ण मत्स्याद्यवतारजातं वाग् वै? हयशीर्षाख्यं तदभिन्नं वै यतोऽतस्तदभिन्नं गायत्रीरूपात्मकमित्यर्थः । केन निमित्तेन गायत्रीनामा हरिरित्यत आह - गायति च त्रायते चेति । निखिल- वेदानुच्चारयति त्रायते च जगदितिं गायत्रीत्यर्थः । एतेन वर्णसमावेशे रूढगायत्रीपदस्य कथं योगेनापहार इति निरस्तम् । वाचनिक- योगस्याज्ञरूढितो बलवत्त्वस्य 'कम्पनात्' (ब्र.सू. १-३-३९) इत्यत्र सिद्धत्वात् । तदुक्तं सूत्रे ‘छन्दोभिधानात् ' (ब्र.सू. १-१-२५) इत्यादौ ।। १ ।।
उपनिषत्
( पृथिव्याख्यतुरीयभगवद्रूपोपासना )
या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्यां हीदं सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयन्ते ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
या वै सा प्रसिद्धा गायत्री गायत्रीनामा हरिः, इयमेव सा । या इयं पृथिवी पृथुत्वहेतुना पृथिवीनामा पृथिव्यां स्थितः स्त्रीरूपः पीतवर्णो हरिः सा पृथिवी इमेज । गायत्रीनामको भगवानेव । न मात्रयाऽपि तद्रूपयोर्भेदोऽस्तीत्येत्रकारार्थः । कुतोऽस्य पृथिवीपदनिर्दिष्टस्य ब्रह्मतेत्य- तस्तल्लिङ्गद्वयादिति भावेन लिङ्गद्वयमाह - अस्यामिति ॥ पृथिव्यां पृथिवीनाम्नि हरौ इदं प्रमाणप्रमितं सर्वं भूतं जगत् प्रतिष्ठितं तदधीनसत्ताप्रवृत्तिप्रतीत्यादिमत् । एतेन पूर्वत्र भूतपदस्य मत्स्याद्य- वतारार्थकत्वादिह जगदर्थत्वस्वीकारे प्रकृतत्यागाप्रकृतस्वीकारौ स्याता- मिति निरस्तम् । उपजीवकत्वश्रवणरूपबाधकेन प्रकृतत्याग- स्यादोपत्वात् । एतामेव पृथिवीमेव पृथिवीनामकं हरिं नातिशीयन्ते केऽपि नातिशेरते । अयमेव सर्वातिशयी, सर्वोत्तम इति यावत् । सर्वाश्रयत्व- सर्वोत्तमत्वलिङ्गद्वयात् पृथिवीनामा हरिरेवेति भावः ॥ २ ॥
उपनिषत्
( शरीराख्यपञ्चमभगवद्रूपोपासना )
या वै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरमस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीर्यन्ते|| 3 ||
छान्दोग्योपनिषत्खण्डार्थः
या वै सा प्रसिद्धा पृथिवी पृथिवीनामा हरिः सा इयमेव । यदिदमस्मिन् पुरुषे जीवे अन्तश्शरीरं शंरूपत्वरतिरूपत्व- जगत्प्रेरणहेतुभिः शरीरनामा देहान्तः पुरुषशब्दितं जीवमभिव्याप्य स्थितो योऽयं बर्तते इयमेव सा अयमेव सः पृथिवीशब्दित इत्यर्थः ।शरीरशब्दितस्य विष्णुत्वे पूर्ववदेव लिङ्गद्वयमाह अस्मिन्निति || शरीरशब्दिते । प्राणा इन्द्रियाणि प्राणादिवायवश्व ।। ३ ।।
उपनिषत्
( हृदयाख्यषष्ठभगवद्रूपोपासना )
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयमस्मिन् हीमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
हरेर्जीवहृदयाधिष्ठितत्वं तन्नामकत्वं चाऽह यद्वै तदिति ।। पुरुषे जीवे । जीवं व्याप्य स्थितं शरीरनामकं भगवद्रूपमन्तः पुरुषे जीवान्तर्हृदयं हृद्यते तिष्ठतीति व्युत्पत्त्या हृदयस्थं हरे रूपं तदिदमेवेति योजना । हृदयनाम्नो विष्णुत्वेऽपि लिङ्गद्वयमाह - अस्मिन्निति || ४ ||
उपनिषत्
सैषा चतुष्पदा षडूविधा गायत्री तदेतदृचाऽभ्यनूक्तम् ॥ ५॥
छान्दोग्योपनिषत्खण्डार्थः
एवं गायत्रीभूतवाक्पृथिवीशरीरहृदयलक्षणषड्विधत्वमुक्त्वा तदनु- वदंश्चतुर्विधत्वमाह सैषेति । सैषा षड्विधा गायत्री चतुष्पदा || आत्मना सह षड्विधगायत्रीशव्दितहरिश्चतुष्पदा पादचतुष्टयोपेतेति योजना । छान्दसत्वात् 'टावृचि' इति सूत्रे ऋचीत्युक्तमनादृत्य चतुष्पदेति टावेव कृतः । प्रतिज्ञातं चतुष्पात्त्वं व्यनक्ति - तदेतदिति ॥ गायत्रीनाम्नो हरेश्वतुष्पात्त्वं ऋचा अभि सम्यगुक्तम् ॥ ५॥
उपनिषत्
(भगवतो पादचतुष्टयविवृतिः)
तावानस्य महिमा ततो ज्यायाश्च पूरुषः | पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
तदाह – तावानिति ।। अस्य पुरुषस्य सहस्रशीर्षत्वादिना पूर्वोक्तो महिमा तावान् । काकुस्वरत्वादेतावानेव न भवतीत्यर्थः । किन्तु ततो ज्यायांश्च पूरुषः । ज्यास्त्वमेवाह - पाद इति । अस्य पुरुषनाम्नो हरेः सर्वा सर्वाणि भूतानि जीवचेतनानि एकः पादः । अस्य त्रिपात् अमृतम् । पादत्रयं नारायणवासुदेववैकुण्ठनामकम् । दिवि द्योतमान- तया चित्प्रकृत्यात्मकत्वेन वा लक्षयोजनान्तरिक्षलोकादुपरिस्थिततया वा घुशब्दिते श्वेतद्विपानन्तासनवैकुण्ठनामके दिवि क्रमात् तिष्ठतीत्यर्थः । तदाह सूत्रे - 'भूतादिपादव्यपदेशोपपत्तेश्चैवम्' इति ( ब्र. सू. १-१- २६) । एतेन पुरुषसूक्तोक्तो गायत्रीपदोक्तश्चैक इति दर्शितम् । अन्यथाऽसङ्गतेः ॥ ६ ॥
उपनिषत्
( प्रकारान्तरेण भगवतः पादचतुष्टयविवृतिः )
यद्वैतद् ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ७ ॥
छान्दोग्योपनिषत्खण्डार्थः
प्रकारान्तरेण गायत्रीनाम्नो हरेश्वतुष्पात्त्वमाह - यद्वैतदिति ॥ यद्वेति पक्षान्तरे । एतद् गायत्र्याख्यं रूपं ब्रह्म, सर्वगतरूपात्मकमित्यर्थः । स एकः पादो गायत्रीनाम्न इत्यर्थः । इदं सर्वगतं ब्रह्म वाव सर्वगतं ब्रह्मैव पुरुषात् स्वयं जीवाद् बहिर्धा बहिः शरीरहृदयाकाशगत आकाशनामा योऽयं वर्तते अयं तत् स इत्यर्थः । स द्वितीयपाद इति ज्ञेयम् । एतस्य जीवान्तर्व्यापिरूपाभेदमाह-योऽयं बहिर्धेति ॥ योऽयं बहिर्धा पुरुषात् शरीरहृदयाकाशगत आकाशनामा अयं वाव सः ॥ ७ ॥
उपनिषत्
अयं वाव स योऽयमन्तःपुरुष आकाशो यो वै सोऽन्तः पुरुष आकाशः ॥ ८ ॥
छान्दोग्योपनिषत्खण्डार्थः
स कः ? योऽयमन्तःपुरुषे जीवान्तः स्थिताकाशगत आकाशनामा जीवान्तर्व्याप्तोऽस्ति स इत्यर्थः । स तृतीयपादो गायत्रीनाम्नः । तस्य चतुर्थपादस्थानीयजीवचैतन्यहृदयाकाशगतेनाभेदमाह - य इति ।। यो वै सोऽन्तःपुरुष आकाशनामा हरियो वर्तते अयं वाव सः । स कः ? सोऽयमन्तर्हृदय आकाशो जीवहृदयान्तर्वर्त्याकाशगतः आकाशनामा यो वर्तते अयं स इत्यर्थः । एवं वा चतुष्पात्त्वमिति यद्वेत्यस्यार्थः । मन्त्रोक्तचतुष्पात्त्वपक्षे जीवः भिन्नपादः । पादत्रयं तु स्वरूपात्मकमिति वैरूप्यम् । अस्मिन् पक्षे तु सर्वगतजीवशरीरहृदयाकाशगतजीवान्त- र्व्याप्यस्थितजीवचैतन्यहृदयाकाशगतरूपचतुष्टयस्यापि स्वरूपात्मक-पादत्वमिति सारूप्यम् ॥ ८ ॥
उपनिषत्
अयं वाव स योऽयमन्तर्हृदय आकाशो यो वै सोऽन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति पूर्णामप्रवर्तिनी श्रियं लभते य एवं
वेद ।। ९ ।। १२ ।।
छान्दोग्योपनिषत्खण्डार्थः
एवं षड्विधत्वादिना निरूपितस्य हरेः स्वरूपमाह - तदेतदिति ॥ तदेतत् षड्विधत्वादिनोक्तं भगवद्रूपं पूर्णम् अप्रवर्ति अन्यैर्न प्रवर्त्यत इत्यप्रवर्ति, स्वतन्त्रमिति यावत् । ज्ञानिनः फलमाह - पूर्णामिति । पूर्णां भगवदन्याप्रवर्तिनीं श्रियं लभते योऽधिकारी ब्रह्मा एवमुक्तरूपेण गायत्र्याख्यं रूपं वेदेति || ९ || इति द्वादश: खण्ड: ।।
॥ अथ त्रयोदशः खण्डः ।।
उपनिषत्
(हृदयनामकपरमात्मन: द्वारपालका:)
( पूर्वद्वारपालक: सूर्य: )
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः स योऽस्य प्राङ्ग्सुषिः स प्राणस्तच्चक्षुः स आदित्यस्तदेतत् तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति य एवं वेद ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
यदिदमस्मिन्नन्तःपुरुषे हृदयमिति योऽयमन्तर्हृदय आकाश इति च हृत्पुरगतत्वेन प्रकृतस्य हरेरुपास्तिं तत्पुरद्वारपम हिमोपास्तिफलाना- मुक्त्याह – तस्येति । तस्यैतस्य भगवदधिष्ठितहृदयस्य पञ्चदेवसुषयो देवनिर्गमद्वाराणि । क्रमेण पञ्चद्वाराणि द्वारपांश्चाऽह - स य इति । स प्रसिद्धो योऽस्य हृदयस्य प्राङ्सुषिः पूर्वद्वारं सः तद्द्वारपः प्राणः
श्वासवायुमानी । सोऽपि कः ? इत्यत आह तच्चक्षुरिति ॥ विधेयापेक्षया तदिति नपुंसकम् । एवमग्रेऽपि । तत् स प्राणमानी चक्षुश्चक्षुरभिमानी सोsपि कः ? आह स चक्षुर्मानी आदित्य इति ॥ तदेतत् तमेतं प्राणचक्षुर्मान्यादित्यं पूर्वद्वारपं तेजोन्नाद्यं तेजोन्नाद्यभिमानीत्युपासीत । तदुपास्तेः फलमाह – तेजस्वीति ।। व्यक्तोऽर्थः ॥ १ ।।
उपनिषत्
( दक्षिणद्वारपालकश्चन्द्रः )
अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रं स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान् यशस्वी भवति य एवं वेद ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथेत्यर्थान्तरे । अस्य हृदयस्य यो दक्षिणः सुषि: दक्षिणद्वारं स तद्द्द्वारपः व्यानः व्यानाख्यवाय्वभिमानी । श्रोत्रमानी च । स चन्द्रमाः तदेतत् तमेतं व्यानश्रोत्रमानिनं दक्षिणद्वारपं, श्रीः लावण्यरूपः, दिगन्तव्याप्तकीर्तिमानित्युपासीत । तत्फलोक्तिः श्रीमानित्यादि ॥ २ ॥
उपनिषत्
( पश्चिमद्वारपालको वह्निः )
अथ योsस्य प्रत्यङ् सुषिः सोऽपानः सा वाक् सोऽग्निस्तदेतद् ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्व्यन्नादो भवति य एवं वेद || ३ ||
छान्दोग्योपनिषत्खण्डार्थः
अथेत्यादिवाक्यत्रयस्यैवं योजना । प्रत्यङ्सुषिः पश्चिमद्वारम् । सोऽपानः तद्वाराधिपोऽपानवाय्वभिमानी । वागू वागिन्द्रियमानी तदेतत् तमेतं अपानवागभिमानिनं पश्चिमद्वारपमग्निम् | ब्रह्मवर्चसं वेदलभ्य-तेजोमानी (१) अन्नाद्यमानीत्युपासीत । तत्फलोक्तिर्ब्रह्मवर्चस्वीति छान्दसः समासान्ताभावः || ३ ||
उपनिषत्
( उत्तरद्वारपालक: इन्द्रः )
अथ योऽस्योदङ्ग् सुषिः स समानस्तन्मनः स पर्जन्यस्तदेत् कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान् व्युष्टिमान् भवति य एवं वेद ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
उदङ्सुषिः उत्तरदिगवस्थितद्वारम् । तत्समानः तदधिपः समानवायुमानी मनोऽभिमानी च । पर्जन्यः पर्जन्यनामेन्द्रः । तदेतत् तमेतम् । समानमनोमानिनं उत्तरद्वारपमिन्द्रम् । कीर्तिः पुरस्तुत्य-कीर्तिमान्, व्युष्टिरैश्वर्यवानित्युपासीत । कीर्तिमानित्यादिः फलोक्तिः ॥४॥
उपनिषत्
( ऊर्ध्वद्वारपालकः प्रधानवायुः )
अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी महस्वान् भवति य एवं
वेद ॥ ५॥
छान्दोग्योपनिषत्खण्डार्थः
ऊर्ध्वः सुषिः उपरितनं द्वारम् । स ऊर्ध्वद्वारपः उदानः उदानवायुमानी उन्नतेरुदाननामा यः स वायुर्मुख्यवायुः । आकाशः सर्वज्ञत्वादाकाश-नामा । तदेतत् तमेतमूर्ध्वद्वारपम् उदानमानिनं मुख्यवायुं ओजः ऊर्जितः महश्च पूर्णश्चेत्युपासीत, ओजस्वी ऊर्जितः महस्वान् पूर्तिमान् ॥ ५॥
उपनिषत्
( द्वारपालकोपासनायाः फलम् )
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
ते वा एते सूर्यचन्द्राग्नीन्द्रमुख्यवायवः । अध्यात्माधिदेवगताः पञ्च ब्रह्मपुरुषाः हृदयस्थब्रह्मणो द्वारपाः स्वर्गलोकस्य विष्णुलोकस्य च द्वारपाः । जयविजयादयो बहिर्द्वारपाः सूर्यादयोऽन्तर्द्वारपा इति ज्ञेयम् । स्वर्गद्वारपज्ञानिनः फलमाह - स इति । स प्रसिद्धो योऽधिकारी । अस्य ज्ञानिनः । वीरः सुसन्ततिर्जायते । पुनर्य एतानित्युक्तिः स्वर्गलोकं प्रतिपद्यत इति विष्णुलोकप्राप्तिरूपफलोक्त्यर्था ॥ ६ ॥
उपनिषत्
अस्य कुले वीरो जायते प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद । अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद् यदिदमस्मिन्नन्तः पुरुषे ज्योतिस्तस्यैषा दृष्टिः ॥ ७ ॥
छान्दोग्योपनिषत्खण्डार्थः
'त्रिपादस्यामृतं दिवि' इति घुस्थस्य ' योऽयमन्तर्हृदय आकाशः ' इत्युक्तहृदयगतस्य च भेदधीनिरासाय ' इदं वाव तत्' इत्यादिना ऐक्यं वक्तुं द्युस्थतया प्रागुक्तमनुवदति - अथेति । अर्थान्तरे (१) । यद् यद्रूपत्रयं नारायणवासुदेववैकुण्ठनामकं श्वेतद्वीपानन्तासनवैकुण्ठाख्यद्युस्थित- त्वेनोक्तं तदिति शेषः । तद् रूपत्रयम् । अतो दिवः । 'पृथिव्यां द्यौः ’ इत्यादिप्रमाणेन शब्दार्थत्वेन प्रसिद्धात् मेरुसूर्यमण्डलेन्द्र- सदनाख्यलोकत्रयात् क्रमात् परः उपरितनस्थं सद् ज्योतिश्शब्दितं नारायणादिरूपत्रयं दीप्यते प्रकाशमानमास्ते । कुत्रेत्यत आह- सर्वत इति । सर्वतः सर्वलोकेभ्यः । पृष्ठेषु उन्नतेषु । विश्वतः विश्वेभ्यः, मेरुवैजयन्तसत्यलोकाख्यब्रह्मसदनेभ्यः पृष्ठेषूच्चेषु अनुत्तमेषूत्तमान्तर- रहितेषु उत्तमेषु श्वेतद्वीपानन्तासनवैकुण्ठेषु दीप्यत इति पूर्वेणान्वयः । एवं द्युस्थमेव रूपत्र्यं कयाचिद् विवक्षया द्युपरत्वेनानूद्याधुना तद्रूप यस्य हृद्गतरूपेणाभेदमाह - इदमिति ॥ इदं प्रागुक्तं ज्योति शब्दितं रूपत्रयं तद् वाव तदेव । तत् किम् ? यदिदमस्मिन्नन्तः पुरुषे जीवहृदयान्तर्वर्तमानं ज्योतिस्तदेवेत्यर्थः । तदेव ज्योतिर्हृद्रतमित्यत्र स्पर्शनश्रवणे प्रमाणयति – तस्येति । तस्य पुरुषान्तः प्राणानौ स्थितस्य ज्योतिराख्यहरेरेषा दृष्टिः तद्विषयकमेतत् प्रत्यक्षदर्शनम् ॥ ७ ॥
उपनिषत्
यत्रैतदस्मिंच्छरीरे संस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥। ८ ।। १३ ।।
छान्दोग्योपनिषत्खण्डार्थः
किं तद् दर्शनमित्यत आह- यत्रेति । यस्मिन्नस्मिन् शरीरे हस्तसंस्पर्शेनोष्णिमानमौष्ण्यं विजानातीत्येतदेव दृष्टिशब्दितं तस्य दर्शनमित्यर्थः । तस्येति कर्मणि षष्ठी । हृद्गतस्य ज्योतिराख्यहरि- विषयिणी प्राणेन क्रियमाणा एषा श्रुतिरूपा श्रुतिः घोषः । सा केत्यत आह— यत्रेति ।। यत्र यदा । एतद् एतां श्रुतिं कर्णावपि गृह्य हस्ताभ्यां पिधाय वर्तमान इति शेषः । उपशृणोति । कथमिव निनदमिव समुद्रघोषमिव नदधुरिव मेघघोषमिव प्रज्वलतोऽग्रेः शब्दमिवेति । तदेतद् हृदयाकाशगतं ज्योतीरूपं ब्रह्म दृष्टं च श्रुतं चेत्युपासीत । कुत: ? य एवं वेद दृष्टत्वादिरूपेण वेद, उपास्ते जानाति चापरोक्षतः, स चक्षुष्यः दिव्यचक्षुष्मान् चक्षुषि ब्रह्मण्येव यातीति चक्षुष्य इत्यर्थः । श्रुतः कीर्तिमांश्च भवति मुक्तो भवतीति यावत् । अतः उपासीतेति । द्विरुक्तिर्विद्यासमाप्त्यर्था तात्पर्यज्ञप्त्यर्था वेति || ८ || इति खण्डः-१३ ॥
॥ अथ चतुर्दशः खण्डः ।।
उपनिषत्
( हर्युपासना )
सर्वं खल्विदं ब्रह्म । तज्जलानिति शान्त उपासीत अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके पुरुषो भवति तथेतः प्रेत्य भवति स क्रतुं कुर्वीत ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
हृद्रतोपास्तिप्रकारपूर्वं 'इदं वाव तद्यदिदमस्मिन् पुरुषे ज्योति:' इति हद्गतेन बहिष्ठस्यैक्यमुक्तम् । तदयुक्तम् । हृद्गतस्याणुत्वाद् बाह्यस्य महत्त्वादणुमहतोरैक्यायोगादित्यतो हृद्रते महत्त्वस्यापि सत्त्वादैक्य- मुक्तमिति भावेनाऽह- सर्वमिति सर्वान्तःस्थितत्वेनाति- सामीप्यादिदमित्युक्तं विष्ण्वाख्यं ब्रह्म सर्वं गुणपूर्णं, खलु प्रसिद्धम् । तद् ब्रह्म जलान् जले प्रलयोदके अनिति चेष्टमानम् आस्त इति शान्तोऽधिकारी उपासीत विद्यात् । कुत एवं ज्ञेयम् ? इत्यतो ज्ञानाधीनशुभप्राप्तिमत्त्वाद् जीवस्य तज्ज्ञानमावश्यकमित्याह-- अथेति ।। पुरुषो जीवः । क्रतुमय: ज्ञानप्रधानः । तद् व्यनक्ति - यथेति ॥ यथाक्रतुर्यादृशभगवद्विषयकनिश्चयवान् अस्मिन् लोके पुरुषो भवति मृतिकाले तथा तदनुरूपः इतो लोकाद् देहात् प्रेत्य निर्गत्य भवति यतो अथ तस्मात् क्रतुं भगवद्विषयज्ञानम् । सोऽधिकारी कुर्वीत सम्पादयेदित्यर्थः ।। १ ।
उपनिषत्
मनोमयः प्राणशरीरो भारूपः सत्यकामः सत्यसङ्कल्प आकाश आत्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदम- भ्यात्तोऽवाक्यनादरः ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
प्रकारान्तरेण हरेर्ज्ञानसम्पादनमाह - मनोमय इति ।। मनोमयः पूर्णज्ञानः । प्राणशरीरः (१) भारूपः प्रकाशरूपः । सत्यसङ्कल्पोऽ- बाधितसङ्कल्पः । आ समन्तात् काशते दीप्यत इत्याकाशः । सर्वकर्मा सर्वकरणशक्तिरूपः, सर्वकामः सर्वविषयेच्छावान्, सर्वगन्धः सर्वशुभ- गन्धरूपः, सर्वरसः सर्वशुभरसरूपः, सर्वमिदं जगद् अभ्यात्तः प्राप्तः, अवाक्यः लौकिक इव निरर्थकवाक्यरहितः, अनादरः आत्म- सम्भावनारहितः, अवाक्यनादर इति पाठे अवाक्यश्चासौ नादर इति विग्रहः । उक्त एवार्थः ॥ २ ॥
उपनिषत्
( भगवान् अणोरणीयान् महतो महीयांश्च )
एष म आत्माऽन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामकतण्डुलाद्वा एष मे आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः ॥३॥
छान्दोग्योपनिषत्खण्डार्थः
महता वाह्यरूपेणैक्यघटनायाणुत्वमनुवदन् मह्त्त्वमाह-एष म इत्यादिना लोकेभ्य इत्यन्तेन । ज्यायान् वृद्धतमः पृथिव्यादितोऽ-प्यधिकपरिमाणवानित्यर्थः ।। ३ ।।
उपनिषत्
( भगवत्तत्वज्ञानिनो लभ्यफलम् )
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोs - वाक्यनादर एष म आत्माऽन्तर्हृदय एतद् ब्रह्मैतमितः प्रेत्याभि-सम्भविताऽस्मीति यस्य स्यादद्धा न विचिकित्साऽस्तीति ह स्माऽह शाण्डिल्यः शाण्डिल्यः
।। ४ ।। १४ ।।
छान्दोग्योपनिषत्खण्डार्थः
पूर्वं सर्वगन्ध इति चिदानन्दाद्यत्मकसर्वगन्धादिमत्त्वमुक्तम् । पुनरत्र सर्वकर्मेत्याद्युक्तिस्तद्भोक्तृत्वमप्यस्तीति वक्तुमिति । 'सर्वमभ्यात्तः’ इत्युक्तिरादरार्था । मे अन्तर्हृदये स्थित आत्मा एष उक्त- ज्यायस्त्वादिकः, एतद् ब्रह्म वहिर्व्याप्तभगवद्रूपमित्यर्थः । उक्तरूपेण भगवज्ज्ञानमापादितवतो भगवत्प्राप्तिरूपफलमाह एतमिति ॥ इतः प्रेत्य एतं भगवन्तमभिसम्भविताऽस्मि प्राप्ताऽस्मीत्यद्धा निश्रयो यस्य स्यात् तत्र विचिकित्सा संशयो यस्य नास्ति स याति पुरुषोत्तममिति शेषः । इति ह स्माऽह शाण्डिल्यः । द्विरुक्तिरुक्तार्था । एतेन म इति शाण्डिल्यस्य वचनमिति ज्ञायते || ४ || इति चतुर्दशः खण्डः ।।
|| अथ पञ्चदश: खण्ड: ।।
उपनिषत्
( विश्वाश्रयस्य हरेः शरीरम् )
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलं स एष कोशो वसुधानस्तस्मिन् विश्वमिदं श्रितम् ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
" एतेभ्यो (१) लोकेभ्यो ज्यादान्' इति भगवान् महानित्युक्तं तर्ह्याकाशवदशरीर इति धीनिरासाय विग्रहेण महानित्याह- अन्तरिक्षोदर इति ।। कोशः, कं सुखम्, उश इच्छा, आनन्देच्छा- रूपत्वात् कोश इत्युक्तो भगवानन्तरिक्षोदरः बहुव्रीहिः । भूमिबुध्नः भूमिः पृथिवी पादत्रुघ्नयोः पादोपरिभागयो: यस्य स भूमिबुध्नः । न जीर्यति नित्यमजरः । अस्य कोशस्य स्रक्तयो बाहवो दिशो धर्मज्ञानादिदेशनाद् दिङ्नामानो दिगाश्रया इत्यर्थः । अस्य कोशस्य द्यौरुत्तरं बिलं शिरो विवरम् । वसवो देवा धीयन्तेऽत्रेति वसुधानः । स एष कोशो हरिर्देवानां निधानम् । तस्मिन् हरौ सर्वमिदं जगत् श्रितम् ।।१ ।।
उपनिषत्
( दिशामाश्रयस्य भगवतो बाहव: )
तस्य प्राची दिक् जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदं रुदम् ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
सर्क्तयो दिश इत्युक्तम् । तत्र को भुजः किंदिक्प्रवर्तकः किन्नामकश्चेत्यत आह - तस्येति ॥ तस्य कोशाख्यस्य हरेः प्राची दिक् पूर्वदिगाश्रयः प्राचीनामा प्राग्दिस्थितः दक्षिणोर्ध्वबाहुः जुहोति हु दानादनयो:(१)। अनेन भुङ्क्त इति वा चक्रेण शत्रून् जुहोति संहरतीति वा चक्रधरो जुहूरित्युच्यते । नाम प्रसिद्धम् । दक्षिणा दक्षिणदिस्थिता दक्षिणाधरस्रक्तिः सहमाना । मानं वेदरूपं प्रमाणं तदात्मकशङ्खो मानशब्दार्थः । मानेन शङ्खेन सहिता सहमानेत्युच्यते । प्रतीची प्रतीच्यां स्थिता वामोर्ध्वस्रक्तिः राज्ञी (), राजीयुक्तगदायुक्तत्वाद्राज्ञीत्युक्ता । नाम प्रसिद्धम् । उदीची उत्तरादिगवस्थिता वामाधरस्रक्तिः सुभूता (१)भूतशब्दितलक्ष्म्याश्रितपद्मोपेतत्वात् सुभूतेत्युच्यते ।
नाम प्रसिद्धम् । तासां दिङ्नामिकानां दिगाश्रयत्रक्तीनां वायुः मुख्यप्राणो वत्सः पुत्रः । तज्ज्ञानिनः फलमाह - स य इति । योऽधिकारी एतमेवं मुख्यवायुं दिशां वत्सं बेद, स न पुत्ररोदं रोदिति पुत्रो भूत्वा रोदनं न करोति, मुक्तो भवतीत्यर्थः । एवं ज्ञात्वा तादृशफलभाक् कश्चिदस्ति किम् ? इत्यतोऽस्तीत्याह - सोऽहमिति । सोऽहमेतमेवं वायुं दिशां वत्सं वेद जानामि । अतः पुत्ररोदं मा रुदं पुत्रो भूत्वा रोदनं नाकरवम् । अनादिकालतो मुक्त एवाभूवम् ॥ २ ॥
उपनिषत्
( हरेर्बाहूपासनया रमया लब्धफलनिरूपणम् )
अरिष्टं कोशं प्रपद्येऽमुनाऽमुनाऽमुना प्राणं प्रपद्येऽमुनाऽमुनाऽमुना भूः प्रपद्येऽमुनाऽमुनाऽमुना भुवः प्रपद्येऽमुनाऽमुनाऽमुना स्वः प्रपद्येऽमुनाऽमुनाऽमुना || 3 ||
छान्दोग्योपनिषत्खण्डार्थः
अरिष्टम् अविनष्टं कोशं आनन्देच्छारूपं हरिं प्रपद्ये प्राप्तवान- भूवम् । किं स्वसामर्थ्येन ? नेत्याह - अमुना भगवता तत्प्रसादेनेति यावत् । त्रिरुक्तिः केवलं तत्प्रसादेनैव, न तु मत्प्रयत्नेनेति सूचयितुम् । एवमग्रेऽ-पि । प्राणं सर्वप्रणेतारं वासुदेवम् ||| 3 ||
उपनिषत्
स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदं सर्वं भूतं यदिदं किञ्च तमेव तत्प्रापत्सि ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
‘प्राणं प्रपद्ये' इत्यादिवाक्यचतुष्टयं स्वयमेव विवृणोति-स इति ।। सोऽहमित्यनुषङ्गः । प्राणं प्रपद्य इति यदवोचं यदिदं कि भूतं प्रभूतं मत्स्याद्यवतारजातम् इदं सर्वं प्राणो वै प्राणशब्दितवासुदेवो वै । तत् तस्मात् तमेव मत्स्याद्यवतारात्मकं प्राणमेव प्राप्स्यथ । हे जना इत्युवाच लक्ष्मीरिति शेषः । साऽहमिति वक्तव्ये सोऽहमिति पुल्लिङ्गोक्तिः पुंशक्तियुक्तत्वादिति ज्ञेयम् ॥ ४ ॥
उपनिषत्
अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरीक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथेति वाक्यान्तरव्याख्यानारम्भे । एवमग्रेऽपि । ज्ञानेन भूषयतीति व्युत्पत्त्या भूर्नामकं सङ्कर्षणं प्रपद्य इति यदवोचं तत् पृथिवीं स्वात्मप्रथनहेतुना पृथिवीनामकं पृथिवीस्थितम् अन्तरीक्ष्यत इत्यन्तरिक्ष- नामकम् अन्तरिक्षगतं क्रीडाकरत्वेन नामकं प्रपद्य इत्येवावोचत् ।। ५ ।।
उपनिषत्
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
भावयत्युत्पादयति जगदिति भुवर्नामकं प्रद्युम्नं प्रपद्य इति यदवोचं तद् वह्नौ हुतमत्तीत्यग्निनामानमग्निगतं, वात्यायुश्चेति वायुनामकं वायुगतम्, आददात्यायुरित्यादित्यनामकम् आदित्यस्थं प्रपद्य इत्येवावोचमित्यर्थः ॥ ६ ॥
उपनिषत्
अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ।। ७ ।। १५ ।।
छान्दोग्योपनिषत्खण्डार्थः
परानन्दस्वरूपत्वहेतुना स्वर्नामकमनिरुद्धं प्रपद्य इति यदवीचं तद् ऋचं ज्ञानं वेदयत इति ऋग्वेदनामकम् ऋग्वेदगतं यज्ञं वेदयत इति यजुर्वेदाख्यं यजुर्वेदगतं, साम्यं वेदयत इति सामवेदाख्यं सामवेदगतं प्रपद्य इत्येवावोचमित्युवाच लक्ष्मीरिति || ७ || इति पञ्चदशः खण्डः ।।
॥ अथ षोडशः खण्डः ।।
उपनिषत्
( जीवनं यज्ञात्मकम् - तत्र प्रातः सवनम् )
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि तत् प्रातः सवनं चतुर्विंशत्यक्षरा गायत्री गायत्रं प्रातः सवनं तदस्य वसवोऽ-न्वायत्ताः प्राणा वाव वसव एते हीदं सर्वं वासयन्ति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
अनेका उपास्तय उक्ता वक्ष्यन्ते च । तासामनुष्ठानमायुषः क्षणिक-त्वात्, स्थायि चेदपि तस्य रोगोपहतत्वादशक्यमित्यतः आयुर्वृद्ध्यर्थं रोगपरिहारार्थं च पुरुषयज्ञरूपामुपास्तिमाह - पुरुषो वाव यज्ञ इत्यादिना ॥ पुरुषो जीवः यज्ञः भगवत्पूजार्थयज्ञः । विष्णुपूजार्थयज्ञोऽ- हमित्युपासीत पुरुष इत्यर्थः । पुरुषस्य यज्ञत्वे कानि सवनानीत्यत आह- तस्य यानीत्यादिना ॥ पुरुषस्याऽयुर्बार्हस्पत्यादिमानभेदेन वा द्वापरादियुगभेदेन वा षोडशोत्तरशतसङ्ख्याकं भवति । तत्र यानि तस्य पुरुषयज्ञस्य पूर्वचतुर्विंशतिवर्षाणि तत् तानि प्रातस्सवनम् । कथं पूर्ववयसः प्रातस्सवनतेत्यतः सवने जप्यऋगक्षरसाम्यादित्याह - चतुर्विंशत्य- क्षरेति ॥ ततः किमित्यत आह- गायत्रमिति ॥ प्रातस्सवनं गायत्रीच्छन्दस्कमन्त्रोपेतम् । तद्देवता आह- तदस्येति ॥ तस्यास्य चतुर्विंशतिवर्षरूपप्रातस्सवनस्य वसवोऽन्वायत्ताः अधिष्ठातारः, देवता इति यावत् । तथा च तैत्तिरीयश्रुतिः - 'वसुमद्गुणस्य सोमदेवतेति मतिविदः प्रातःसवनस्य गायत्रच्छन्दसः' इत्यादि । के वसव इत्यत आह- प्राणा वाव वसव इति । कथं वसुत्वमित्यत आह- एते हीति ।। प्राणा हीदं प्राणिजातं ( १ ) तस्मिन् वयसि प्रातस्सवनाख्ये वासयन्तीति वासनहेतुतया पुरुषयज्ञे प्राणा वसव इत्यर्थः ॥ १ ॥
उपनिषत्
तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत् स ब्रूयात् प्राणा वसव इदं मे प्रातःसवनं माध्यन्दिनं सवनमनुसन्तनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तं चेद् विष्णुपूजार्थयज्ञरूपं पुरुषं एतस्मिन् प्रातस्सवनरूप-चतुर्विंशतिवर्षमध्ये वयसि किञ्चिज्ज्वरादिकं उपतपेद् बाधेत तदा स पुरुष ब्रूयात् प्रार्थयीत | हे प्राणा बसव इदं मे प्रातस्सवनं प्रातस्सवनरूपं प्रथमं वयः माध्यन्दिनं सवनम् अनुसन्तनुत तावत्पर्यन्तं नयत । अहं प्राणानां वसूनां मध्ये यज्ञो भगवद्यज्ञरूपोऽहं मा विलोप्सीय लुप्तो मा भूवमिति ब्रूयादित्यन्वयः । एवं प्रार्थने किं भवतीत्यत आह- उद्धैवेति ।। ततो ज्वरादितः एति उद्गतो भवति, उद्वैव सत्यमेव । तद् व्यनक्ति-अगदः अरोगो भवति ॥ २ ॥
उपनिषत्
( माध्यन्दिनसवनम् )
अथ यानि चतुश्चत्वारिद्वर्षाणि तन्माध्यन्दिनंसवनं चतुश्चत्वारिंशदक्षरा त्रिष्टुप् त्रैष्टुभं मान्धन्दिनं सवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदं सर्वं रोदयन्ति ॥ ३ ॥
तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत् स ब्रूयात् प्राणा रुद्रा इदं मे माध्यन्दिनं सवनं तृतीयं सवनमनुसन्तनुतेति माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥४॥
छान्दोग्योपनिषत्खण्डार्थः
अथानन्तरं यानि चतुश्चत्वारिंशद्वर्षाणि तस्येत्यनुषङ्गः । पूर्ववद् योजना । त्रैष्टुभं त्रिष्टुप्छन्दस्कक्रग्युक्तम् ।।३।।४।।
उपनिषत्
( सायंसवनम् )
अथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयं सवनमष्टाचत्वारिंशदक्षरा जगती जागतं तृतीयं सवनं तदस्यादित्या अन्वायत्ताः प्राणा वाव आदित्या एते हीदं सर्वमाददते ॥५॥
छान्दोग्योपनिषत्खण्डार्थः
अथ यान्यष्टाचत्वारिंशदित्याद्यपि पूर्ववद् ध्येयम् । इदं सर्वं शब्दादिविषयजातम् आददते गृह्णन्ति ॥ ५॥
उपनिषत्
तं चेदेतस्मिन् वयसि किञ्चदुपतपेत् स ब्रूयात् प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसन्तनुतेति माऽहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो हैव भवति ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
आयुरनुसन्तनुत यावदायुस्तावन्नयत ॥ ६ ॥
उपनिषत्
(पुरुषयज्ञोपासनायाः फलम् )
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति स ह षोडशं वर्षशतमजीवत् प्राह षोडशं वर्षशतं जीवति य एवं वेद ।। ७ ।। १६ ।।
छान्दोग्योपनिषत्खण्डार्थः
यज्ञत्वेनाऽयुरुपास्त्या निर्विघ्नमायुः प्राप्तवानस्ति किमित्यतोऽस्ती-त्याह -एतद्ध स्मेति ॥ महिदासनामक इतरातनयः कश्चिद् ऋषिः एतत्पुरुषयज्ञप्रकारं वस्त्रादिप्रार्थनया तत्तद्वयसि प्राप्तरोगनिवर्तनं च विद्वान् जानन् एतद्वक्ष्यमाणमाह-- हे गद ! स त्वं मे मम एतत् शरीरं किं किमर्थम् उपतपसि क्लेशयसि ? योऽहमनेन तापेन न प्रेष्यामि मृतो न भविष्यामीत्याहेत्यन्वयः । स ऋषिः षोडशशतवर्षमजीवत् । एतज्ज्ञानिनः फलमाह - स हेति ॥ योऽधिकारी एवमुक्तरीत्या पुरुषयज्ञादि वेद सः षोडशोत्तरवर्षशतं जीवति ॥ ७ ॥ इति षोडशः खण्डः ।।
।। अथ सप्तदश: खण्ड: ।।
उपनिषत्
( पुरुषयज्ञस्य दीक्षोपसदादीनां विचारः )
स यदशिशिषति यत् पिपासति यन्न रमते ता अस्य दीक्षाः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
प्रसिद्धयज्ञे दीक्षा उपसदः स्तुतशस्त्राणि दक्षिणा चास्ति, तान्यपि पुरुषयज्ञे सन्तीत्याह - स यदिति । स: भगवत्पूजार्थयज्ञरूपः पुमान् अशिशिषति भोक्तुमिच्छति (?) पिपासति पातुमिच्छतीति यत्, न रमत इति यत्, ताः विधेयापेक्षया स्त्रीत्वं, अस्य दीक्षाः ।। १ ।।
उपनिषत्
अथ यदश्नाति यत् पिबति यद् रमते तदुपसदैरेति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तदुपसदैः तैरशनपानरमणरूपैरुपसदैरुपसदाख्ययजमानव्यापार-रेति ॥ २ ॥
उपनिषत्
अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथ हसतीति यत्, जक्षति खादतीति यत्, मैथुनं चरतीति यत्, यदन्यत् कृत्यं तत् करोतीति यत्, तत् तैः तदात्मकैरेव स्तुतशस्त्रैः स्तोत्रशस्त्रैरेति वर्तते । स्तोत्रम् ऋगक्षरोपेतसामगानम् । शस्त्रं केवलं मन्त्रपठनम् ॥ ३ ॥
उपनिषत्
अथ यत् तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथ तपः कृच्छ्रचान्द्रायणादि परापरतत्त्वचिन्तनं वा । आर्जवं मनोवाक्कर्मस्वैकरूप्यं इति यत् ता अस्य पुरुषयज्ञस्य दक्षिणाः ॥ ४ ॥
उपनिषत्
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवा-वभृथः ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
यत् सत्रं सत्राख्यं कर्म यत् एतद् आत्मदक्षिणं वै बहुव्रीहिः । तस्मादायुषो यज्ञसादृश्यात् प्रसिद्धयज्ञे सोष्यति सवनं करिष्यति असोष्ट सवनमकरोदिति यदाहुस्तद् अस्य यजमानस्य पितृत उत्पादनं प्रथमं मातुः सकाशात् पुनरुत्पादनमेवाऽहुः । अस्य पुरुषयज्ञस्य मरणमेवावभृथः ॥ ५ ॥
उपनिषत्
( भगवदुपासनया अपरोक्षज्ञानम्, भगवत्प्राप्तिश्च )
तद्वैतद्धोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणस शितमसीति । तत्रैते द्वे ऋचौ भवतः ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
तद्वैतत् तदेतदायुर्यज्ञप्रकारं घोरनामा आङ्गिरसो अङ्गिरः पुत्रः । देवक्याख्यस्त्रीपुत्राय कृष्णनाम्ने कस्मैचिद् विष्ण्ववतार भिन्नाय मुनये उक्त्वा वक्ष्यमाणविष्णूपासनप्रकारं चोवाच ऋषिः । अपिपासः, उप-लक्षणमेतत् । अशिशिषतीत्यादिनोक्तदीक्षादिमान् बभूवेत्यर्थः । स एव- मायुर्यज्ञतयाऽत्मानं ध्यायन् पुरुषोऽन्तवेलायां प्राणात्ययसमये एतत् त्रयं वक्ष्यमाणं प्रतिपद्येत जपेत । तन्मन्त्रत्रयमाह- अक्षितमसीति ॥ भगवन् त्वमक्षितमसि अक्षयोऽसि । अच्युतमसि गुणैरच्युतोऽसि । प्राणात् शंसितम् अधिकसुखोपेतोऽसि इति प्रतिपद्येतेत्यर्थः । उक्तप्रकारेण भगवदुपास्त्या तस्य किं भवतीत्यतस्तदपरोक्षज्ञानं, तेन तत्प्राप्तिश्च भवतीत्यभिप्रेत्याभिप्रेतार्थे द्वे ऋचौ प्रमाणत्वेनाऽहं तत्रेति ॥ भगवदुपास्त्या तदपरोक्षज्ञानं, तेन च तत्प्राप्तिरित्यर्थद्वये क्रमादृचौ प्रमाणत्वेन भवत इत्यर्थः ॥ ६ ॥
उपनिषत्
आदित्प्रत्नस्य रेतसो ज्योतिः पश्यन्ति वासरम् । परो यदिध्यते दिवा । उद् वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् । स्वः पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥ इत्यगन्म ज्योतिरुत्तममिति ।। ७ ।। १७ ।।
छान्दोग्योपनिषत्खण्डार्थः
तावाह-आदिदिति ॥ ' आदित् प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् । परो यदिध्यते दिवा' आदित् अस्मादेव भगवत्प्रसादादेव, प्रत्नस्य पुरातनस्यानादेः, रेतसो रतिरूपस्य हरेर्ज्योतिः वासरं, वासेन रमयतीति हेतुना वासरशब्दितं पश्यन्ति । यज्ज्योतिर्दिवा दिवः परः परतो वैकुण्ठे इध्यते ऋद्धतममेव सद्दीप्यमानमास्ते इति प्रथममन्त्रार्थः । उद्वयमिति द्वितीयमन्त्रस्य तु उत्तरमुत्तमं ज्योतिः पश्यन्तः तदेवोत्तरं ज्योतिः स्वः आनन्दरूपं च परिपश्यन्तः वयम् । पश्यन्त उत्तरमिति द्विरुक्तिस्तात्पर्यार्था । तमसः उदगन्म उद्गताः स्मः । यद्वा, उदिति भगवन्नाम । उद् उदाख्यम् उत्तमं देवत्रादेवं देवानां देवं सूरिप्राप्यत्वेन सूर्यशब्दितं ज्योतिरगन्म प्राप्ताः स्मेत्यर्थः । उत्तरमुत्तममुत्तममिति (१)पदत्रयस्योत्तमोत्तमोत्तममित्यर्थः ॥ ७॥
।। इति सप्तदशः खण्डः ||
।। अथ अष्टादशः खण्डः ॥
उपनिषत्
( अध्यात्माधिदैवतयोः भगवदुपासना )
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
लब्धायुषः पुरुषस्याऽयुषः सार्थक्यायाध्यात्ममधिदैवतं च भगवदु-पास्तिं तत्फलं चाऽह – मनो ब्रह्मेति । मनुत इति मनोनाम मनः स्थ नारायणः ब्रह्मेत्युपासीतेत्यध्यात्ममुपास्तिरुक्तेत्यर्थः । अथेत्यर्थान्तरे । अधिदैवतमुपास्तिरुच्यत इत्यर्थः । आ समन्तात् काशत इत्याकाश- नामाऽऽकाशगतो नारायणः ब्रह्मेत्युपासीतेत्यनुषङ्गः । उपसंहरति- अध्यात्ममधिदैवतं चोभयमुपासनमादिष्टमुपदिष्टं भवतीति ।। १ ।।
उपनिषत्
( अध्यात्माधिदैवतयोः हरे: रूपचतुष्टयम् )
तदेतच्चतुष्पाद् ब्रह्म वाक्पादः प्राणः पादचक्षुः पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तदेतद् ब्रह्म चतुष्पात् । नारायणाख्यम् अध्यात्माधिदैवगतं ब्रह्म वासुदेवादिरूपचतुष्टयोपेतमित्यर्थः । तद् विवृणोति - वागिति ।। वक्तीति वाङ्नामा वागिन्द्रियस्थो वासुदेवः एकः पादः । प्राणः प्राणनहेतुतया प्राणनामा घ्राणेन्द्रियस्थः सङ्कर्षणः पादः । चष्ट इति चक्षुर्नामा चक्षुस्थः प्रद्युम्नः पादः । शृणोतीति श्रोत्रनामा श्रोत्रस्थोऽनिरुद्धः पादः, इत्यध्यात्मं पादचतुष्टयमुक्तमित्यर्थः । अथाधिदैवतं तदुच्यत इत्यर्थः । अत्तीत्यग्नि-नामा Sग्निस्थो वासुदेवः एकः पादः, वायुनामा वायुस्थः सङ्कर्षण पादः, आदित्यनामाऽऽदित्यस्थः प्रद्युम्नः पादः, दिङ्नामा दिक्षु स्थितोऽ- निरुद्धः पादः । रूपबाहुल्याद् बहुवचनम् । उपसंहरति इत्युभय-मिति || अध्यात्ममधिदैवतं' चेत्युभयमेवाऽदिष्टमुपदिष्टं भवति ॥ २ ॥
उपनिषत्
( वागिन्द्रिये वासुदेवः )
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद || ३ ||
छान्दोग्योपनिषत्खण्डार्थः
अध्यात्माधिदैवगतरूपाणां भेदशङ्कायां नेत्याह वागेवेति ॥ वाङ्नामा वाचि स्थितो ब्रह्मणश्वतुर्थः पादो वासुदेव एव अग्निनाऽग्नि- नाम्नाऽग्निस्थन ज्योतिषा स्वात्मरूपेण भाति च । दुष्टान् तपति च । फलमाह- भाति चेति ॥ योऽधिकारी एवमध्यात्माधिदैवगतमन- आकाशगतस्य तन्नाम्नो नारायणस्य वाचि स्थितो वाङ्नामा वासुदेवाख्य इतरपादत्रयापेक्षया चतुर्थपादत्वेनोक्तः अग्निस्थात्मरूपज्योतिषा भाति दुष्टान् तपतीत्येवंप्रकारेण वेद स ज्ञानी ब्रह्म प्राप्य मुक्तौ कीर्त्या यशसा ज्ञानसुखात्मना ब्रह्मवर्चसेन वेदाभ्यासजन्यतेजोविशेषेण भाति च अज्ञानादि तपति चेत्यर्थः || ३ ||
उपनिषत्
(घ्राणेन्द्रिये सङ्कर्षण:)
प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
प्राण एवं प्राणनामा प्राणेन्द्रियस्थः सङ्कर्षणो वायुना वायुगतन वायुनाम्ना सङ्कर्षणाख्य स्वात्मरूपज्योतिषा, भातीत्यादि प्राग्वत् । एवं नारायणाख्यब्रह्मणः सङ्कर्षणाख्यप्राणगतश्चतुर्थः पादः वायुगतज्योतिषा भाति, तपति चेत्येवं वेदेत्यर्थः ॥ ४ ॥
उपनिषत्
( चक्षुरिन्द्रिये प्रद्युम्नः )
चक्षुरेव ब्रह्मणचतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
चक्षुरेव चक्षुर्गतश्चक्षुर्नामा प्रद्युम्नः आदित्येन ज्योतिषा आदित्यस्थप्रद्युम्नाख्यस्वात्मज्योतिषा । शिष्टं प्राग्वत् ॥५॥
उपनिषत्
(श्रोत्रेऽनिरुद्धः )
श्रोत्रमेव ब्रह्मणचतुर्थः पादः स दिग्भिर्ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ।। ६ ।। १८ ।।
छान्दोग्योपनिषत्खण्डार्थः
श्रोत्रमेव श्रोत्रस्थः श्रोत्रनामाऽनिरुद्धः ।। ६ ।। १८ ।।
।। इति अष्टादशः खण्डः ।।
॥ अथ एकोनविंश: खण्ड: ।।
उपनिषत्
(आदित्ये भगवदुपासना )
आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् तत् सदासीत् तत् समभवत् तदाण्डं निरवर्तत तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
यत्प्राप्त्या कीर्त्यादिफलभाग् भवति तत्प्राप्तिसम्पादिकामादित्यनिष्ठां काञ्चन विद्यामाह - आदित्य ब्रह्मेति || आदित्यस्थः आदित्यनामा हरिर्ब्रह्मेत्युपासीतेति शेषः । इत्यादेश उपदेशः । कथमादित्यस्य जीवस्य ब्रह्मत्वेनोपास्तिरित्यतः तद्भटनाय प्रलयप्रकारं वदन्नादित्यस्योत्पत्ति-प्रकारोक्त्या तत्र हरेः प्रादुर्भावमाह – तस्येति ॥ तस्य आदित्ये ब्रह्मत्वोपासनस्योपपत्त्यर्थं व्याख्यानं सृष्टिनिरूपणं क्रियत इत्यर्थः । इदमग्रे अस्य प्रपञ्चस्याग्रे पूर्वं प्रलय इति यावत् । केनाप्यगम्यत्व हेतुना असन्नामकं नारायणाख्यं ब्रह्माऽसीत्, तत् ततः असन्नाम्नो नारायणात् । ज्ञानिगम्यतया सन्नामकं वासुदेवाख्यं रूपम् आसीत् प्रादुरभूत् । तत् नारायणाख्यं चित्प्रकृत्या समभवत् सम्भोगमकरोत् । तत् ततः आण्डं निरवर्तत अजायत तद् आण्डं संवत्सरस्य मात्रां संवत्सरपर्यन्तं अशयत अशेत । पश्चात्तदण्डं निरभिद्यत ऊर्ध्वाधोभेदेन भिन्नमभवत् । ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ १ ॥
उपनिषत्
तद्यद्रजतं सेयं पृथिवी यत्सुवर्णं सा द्यौर्यज्जरायु ते पर्वता यदुल्बं स मेधो नीहारो या धमनयस्ता नद्यो यद्वास्तेयमुदकं स समुद्रः ॥ २॥
छान्दोग्योपनिषत्खण्डार्थः
तद् यद् रजतं सेयं पृथिवी । रजताण्डकपाले पृथिव्यादिसप्त- लोकास्तिष्ठन्तीत्यर्थः । यत् सुवर्णं सा द्यौः । सुवर्णकपाले द्यौरुपरितन-लोकास्तिष्ठन्तीत्यर्थः । यज्जरायु स्थूलं गर्भपरिवेष्टनं ते पर्वताः । उ सूक्ष्मं गर्भपरिवेष्टनं स मेघो नीहारश्च । या धमनयो नाड्यः ता नद्यः । यद् वास्तेयमुदकं वस्तिसम्बन्धि नाभेरधी विद्यमानं स समुद्रः ॥ २ ॥
उपनिषत्
अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा उलूलवोऽ-नूदतिष्ठन् सर्वाणि च भूतानि च सर्वे च कामास्तस्मात् तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथानन्तरं यद् वस्तु तत् तत्राऽण्डे अजायत सोऽसावादित्यः आदित्यजीवनियन्ता आदित्यमण्डलस्थः आदित्यनामा भगवान्। अथ तस्मादादित्यो ब्रह्मेत्युपासीतेति अथशब्दों हेत्वर्थे वा । तं जायमानम् आदित्यमण्डलगतं हरिमुलूलवः उरूरवः रलयोरभेदात्, अतिमहान्तो गायत्र्यादिवेदघोषाः अनूदतिष्ठन् । तथा सर्वाणि च भूतानि ब्रह्मादीनि सर्वे च कामाः सर्वमङ्गलद्रव्याणि चानूदतिष्ठन्नित्यन्वयः । ब्रह्मादयः सर्वे देवाः मङ्गलद्रव्यैर्गन्धाक्षतपुष्पादिभिर्गायत्र्यादिवेदघोषैः उपातिष्ठन्त अस्तुवन्नित्यर्थः । तस्माद् ब्रह्मादिभिरेवं कृतत्वादद्यतनान्यपि भूतानि प्राणिजातानि तस्याऽदित्यनाम्नो हरेरुदयं प्रति प्रत्यायनम् अस्तं च प्रति उलूलवो गायत्र्यादिघोषाः गन्धाक्षतादिमङ्गलद्रव्यरूपकामाश्चानूत्तिष्ठन्ति ॥ ३ ॥
उपनिषत्
स य एतदेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह यदेनं साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन् निम्रेडेरन् ॥ ४ ॥ १९ ॥ ॥ इति श्रीमच्छान्दोग्योपनिषदि तृतीयोऽध्यायः ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
ज्ञानिनः फलमाह – स य इति । स प्रसिद्धो योऽधिकारी एतद् आदित्यस्य ब्रह्मत्वम् एवम् 'असदेवेदमग्रे' इत्याद्युक्तप्रकारेण विद्वानादित्यं ब्रह्मेत्युपास्ते एनमुपासकं साधवो घोषाः समीचीन-वेदघोषाः यद् एते आ च गच्छेयुः उप समीपे निम्रेडेरंश्च मुक्तौ वेदानां नित्यावासभूतो भवतीत्यर्थः ।। ४ ।। १९ ।।
।। इति श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते तृतीयोऽध्यायः समाप्तः ।। ३ ।।