चित्तं वाव सङ्कल्पाद् भूयो यदा चेतयतेऽथ ..

उपनिषत् (खण्डः - ५ )

सङ्कल्पाभिमानिमित्रात् चित्ताभिमान्यनेरुत्तमत्वनिरूपणम्

चित्तं वाव सङ्कल्पाद् भूयो यदा चेतयतेऽथ सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नामि्न मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥

तानि ह वा एतानि चित्तैकायनानि चित्तात्मकानि चित्ते प्रतिष्ठितानि तस्माद् यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पवित् चित्तवान् भवति तस्मा एवोत शुश्रूषन्ते चित्तं ह्येवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ २ ॥

स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिद्ध्यति यावत् चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ ३ ॥ ५ ॥

भाष्यम्

तथा मित्राद् वरस्त्वग्निर्मुक्तौ चित्तस्य देवता । चितत्वाच्चित्तनामा च .... ।।

पदार्थकौमुदी

"चित्तं वाव सङ्कल्पाद् भूयः" इत्येतद् व्याचष्टे - तथेति । श्रीतचित्तशब्दं द्वेधा घटयति चित्तस्येति ॥ चितत्वाद् यज्ञकुण्डे चितत्वाच्च ।। पञ्चमः खण्डः ॥

खण्डार्थः

चित्तमस्थिरस्मरणाख्यचित्ताभिमान्यग्निः सङ्कल्पाद् भूयः । यदा वै चेतयते स्मरति अथ सङ्कल्पयत इत्यादि पूर्ववत् ॥ १ ॥

अन्वयव्यतिरेकाभ्यां चित्तस्यैव प्रेक्षावत्त्वप्रयोजकत्वमाह-- तस्मा- दिति ॥ तस्मात् चित्तस्योत्तमत्वादेव हि यदि बहुविदप्यचित्तो भवति नायमस्तीत्येवैनमाहुः । नायं विद्वानित्येवैनमाहुः । तदेव विशदमाह- यदयमिति । यद् यदि अयं वेद सामान्येन जानीयात् । यद्वाऽयं विद्वान् विशेषतो जानीयात् तर्हि नेत्थमचित्तः स्यादतोऽज्ञानीत्यर्थः । यतोऽ- यमचित्तो जात इत्याहुः । व्यतिरेकमुक्त्वाऽन्वयमाहयद्यल्पविदिति ।। शुश्रूषन्ते सेवकाः ।। २ ।।

चितान् चित्तक्ऌप्तान् || ||

|| इति पञ्चमः खण्डः ।।