श्वेतकेतुर्ह आरुणेयः पञ्चालानां समितिमेयाय ..
उपनिषत् (खण्डः-३)
देवयानपितृयाणमार्गनिरूपणम्
श्वेतकेतुर्ह आरुणेयः पञ्चालानां समितिमेयाय तं ह प्रवाहणो जैबलिरुवाच कुमारानु त्वाऽशिषत् पितेत्यनु हि भगव इति ॥ १ ॥
वेत्थ यदितोऽधि प्रजाः प्रयन्तीति न भगव इति । वेत्थ यथा पुनरावर्तन्ता३ इति न भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना ३ इति न भगव इति ॥ २ ॥
वेत्थ यथाऽसौ लोको न सम्पूर्यता३ इति न भगव इति वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति नैव भगव इति ॥३॥
अथ नु किमनुशिष्टोऽवोचथा यो हीमानि न विद्यात् कथं सोऽनुशिष्टो ब्रवीतेति स हाऽऽयस्तः पितुरर्धमेयाय तं होवाचाननुशिष्य वाव किल मा भगवानब्रवीदनु त्वाऽशिषमिति ॥ ४ ॥
पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत् तेषां नैकञ्च नाशकं विवक्तुमिति स होवाच यथा मा त्वं ततैतानवदो यथाऽहमेषां नैकञ्च न वेद यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५ ॥
स ह गौतमो राज्ञोऽर्धमेयाय तस्मै ह प्राप्तायार्हाञ्चकार स ह प्रातः सभाग उदेयाय तं होवाच मानुषस्य भगवान् गौतम वित्तस्य वरं वृणीथा इति स होवाच तवैव राजन् मानुषं वित्तं यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति ॥६ ॥
स ह कृच्छ्री बभूव तं ह चिरं वसेत्याज्ञापयाञ्चकार तं होवाच यथा मा त्वं गौतमावदो यथेयं न प्राक् त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति तस्मै होवाच ॥ ७ ॥ ३ ॥
उपनिषत् ( खण्ड: - ४)
पञ्चाग्निविद्या
असौ वाव लोको गौतमाग्निः तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिः चन्द्रमा अङ्गारा नक्षत्राणि विष्फुलिङ्गाः ॥१ ॥
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति ॥ २ ॥ ४ ॥
उपनिषत् (खण्डः- ५ )
पर्जन्यो वा गौतमाग्निः तस्य वायुरेव समिदभंर धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विष्फुलिङ्गाः ॥ १ ॥
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति तस्या आहुतेः वर्षः सम्भवति ॥ २ ॥ ५ ॥
उपनिषत् (खण्डः- ६ )
पृथिवी वाव गौतमाग्निः तस्य संवत्सर एव समित् आकाशो धूमो रात्रिरर्चिर्दिशो अङ्गारा अवान्तरदिशो विष्फुलिङ्गाः ॥ १ ॥
तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेः अन्नं सम्भवति ॥ २ ॥ ६ ॥
उपनिषत् (खण्ड: - ७ )
पुरुषो वाव गौतमाग्निः तस्य वागेव समित् प्राणो धूमो जिह्वाऽर्चिश्चक्षुरङ्गाराः श्रोत्रं विष्फुलिङ्गाः ॥ १ ॥
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुतेः रेतः सम्भवति ॥ २ ॥ ७ ॥
उपनिषत् (खण्डः- ८ )
योषा वाव गौतमाग्निः तस्या उपस्थ एव समित् । यदुपमन्त्रयते स धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विष्फुलिङ्गाः ॥ १ ॥
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेः गर्भः सम्भवति ॥ २ ॥ ८ ॥
उपनिषत् (खण्डः - ९ )
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति स उल्बावृतो गर्भो दश वा मासानन्तः शयित्वा यावद्वाथ जायते
॥ १ ॥
स जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति ॥ २ ॥ ९ ॥
भाष्यम्
नारायणादिपञ्चभगवद्रूपाण्येव पञ्चाग्रयः
'नारायणादयः पञ्च क्रमात् पञ्चाग्नयः स्मृताः ।अदनादङ्गनेतृत्वा) नितरामचलत्वतः ।। समेधनात् समिद् विष्णुर्धूत्काराद् धूम उच्यते । अरचितत्वादर्चिश्च सोऽङ्गारोऽङ्गरतेरपि ॥ विविधं स्फुरणाच्चैव विष्फुलिङ्ग इतीरितः । पुनर्नारायणाद्यात्मा प्रत्येकं पञ्च रूपवान् ॥ आदित्यः स तथाऽऽदानाद् रश्मिः स रतिरूपत: (२) (३)तमसाऽह्ननीयत्वादहश्चन्द्रः परं सुखम् ( २ ) ।।अनन्यराजो नक्षत्रं वायुर्ज्ञानायुरूपतः । अभ्रमब्भरणाद्विष्णुर्विद्युद् विद्योतनादपि ॥ अशनादशनिश्चैव (४)निह्रादाद्धादुनिस्तथा । संवत्सरो वासनाच्च स आकाशः प्रकाशनात् ॥ रात्रिश्व रतिदानात् स दिशतीति दिशः स्मृतः । अवान्तरं दिशेद् यस्मादवान्तरदिगुच्यते ॥ वचनाद्वाक् तथा प्राणस्त्वननाच्चक्षुरुच्यते । दर्शनाच्छ्रवणाच्छ्रोत्रं जिह्वा वै होमतः स्मृतः ॥उपस्थितेरुपस्थः स उपमन्त्रकृदेव सः । योनिर्युनक्ति यस्मात् स सर्वान्तः कृच्च नन्दनः ॥ असौ लोकः प्रकाशत्वात् प्राणस्थत्वाच्च केशवः । पर्जन्यो जनको यस्मात् पृथिवी प्रथितत्वतः । पुरुषः पुरु यस्मात् स योषा जोष्यो यतोऽखिलैः ॥ इति सामसंहितायाम् ।
पदार्थकौमुदी
एवमपरब्रह्मप्राणविषया विद्या निरूपिता । इदानीं वैराग्यजननाय परब्रह्मविषयां पञ्चाग्निविद्यां धूमार्चिरादिमार्गं चाऽख्यायिकापुरःसरं निरूपयति- श्वेतकेतुरित्यादिना खण्डाष्टकेन ॥ " असौ वाव लोको गौतमानि: " इत्यादिना स्वर्गादेरग्रित्वकल्पनोच्यत इत्यसत् । तथा सत्यब्रह्मविद्याप्रसङ्गात् । तथाकल्पनायाः मिथ्याज्ञानत्वेनानर्थहेतुत्वाच्च । “तद्य इत्थं विदुः " इत्यादिना पञ्चाग्निविद्यावेत्तृणामर्चिरादिमार्गा- पुनरावृत्तिफलकथनविरोधाचेति भावेन तां विद्यां भगवत्परतयैव प्रमाणेनैव व्याचष्टे– नारायणादय इत्यादिना ॥ द्युपर्जन्यधरापुंस्त्रीरूपाः पञ्चाग्नयः क्रमान्नारायणादय एव स्मृता इत्यर्थः । तर्हि नारायणादिषु अग्निशब्दः कथम् ? तस्यान्यत्र रूढत्वादिति चेत्, स्वर्गादावपि कथम् ? होमाधि- करणत्वगुणयोगेनेति चेत् । गौण्यपेक्षया योगस्य प्रबलत्वादिति भावेनाग्निशब्दस्य नारायणादिषु योगं दर्शयति- अदनादिति ॥ पूर्वेणान्वयः । अदनादत्तृत्वात् । अत्तेः कर्तरि निप्रत्ययो दस्य गः । स्वतो न गच्छति न प्रवर्तते यद्विश्वं तस्य प्रवर्तकत्वादित्यर्थः । अगशब्दोप- पदान्भयतेः कर्तरि डिप्रत्ययः । उपपदाकारलोपश्च । नितरां न गच्छति न चलतीति चाग्निरित्यर्थः । ननुपपदाद् गमेः कर्तरि ङः । नीत्युपसर्गः । अकारलोपश्चेति भावः । अनेन “ असौ वाव लोको गौतमाग्निः पर्जन्यो वाव गौतमाग्निः’”इत्यादिवाक्यपञ्चकं व्याख्यातम् ।
इदानीं प्रत्यग्निसमिद्धूमार्चिरङ्गारविष्फुलिङ्गा इति पञ्चोक्ताः । तदपि पूर्ववत् प्रसिद्धार्थमिति प्रतीतिनिरासायाऽह — समेधनादित्यादिना ॥ समेधनात् सम्यग्वर्धनात् सर्वोत्तमत्वादिति यावत् । धूत्काराच्छतॄणां कम्पनात् । धूञ् कम्पन इति धातुः । अरमलं चितत्वात् पूजितत्वात् । अङ्गरतेः जीवदेहे रते: “अङ्गमङ्गी समादाय" इति प्रयोगात् । स्वाङ्ग- रतेर्वा । विविधं ज्ञानिनां स्फुरणात् । नारायणाद्यात्मा विष्णुः प्रत्येकं पुनः पञ्चरूपवान् । समेधनात् समिदित्युच्यत इत्यादिरूपा योजना ।
तर्ह्यदित्य एव समिदित्यादिसामानाधिकरण्यं कथमित्यतः प्रथमाग्नौ श्रुतानादित्यरश्म्यहश्चन्द्रनक्षत्रशब्दान्निर्वक्ति- आदित्य इति इति ॥ आदानादायुरादेः । रतिसुखरूपत्वतः । रतिरलम्बुद्धिः । तमसाऽज्ञानेना- हननीयत्वात् नित्यास्पृष्टाज्ञानत्वादित्यर्थः । (१) चदनाच्चन्द्रः । अस्य क्षत्रमन्यन्नास्तीति नक्षत्रमित्यर्थः । बहुरूपत्वाद् बहुवचनमिति भावः ।
इदानीं द्वितीयाग्नौ श्रुतान् वाय्वभ्रविद्युदशनिहादुनिशब्दान्निर्वक्ति- वायुरित्यादिना । ज्ञानादायुष्ट्वाच्च वायुः । अपां भरणादित्यर्थः । अशनात् सर्वस्य भक्षणात् । निर्ह्रादान्नितरां हर्षणात् । तृतीयाग्नौ श्रुतान् संवत्सराकाशरात्रिदिगवान्तरदिक्शब्दान्निर्वक्ति - संवत्सर ३.यादिना ॥ चशब्दः सम्यगित्यस्य रमणादित्यस्य च समुच्चयार्थः । सम्यग्वासनाद् रमणाच्चेत्यर्थः । सम्यग् वत्सान् रमयतीत्यर्थान्तरसमुच्चयो वा । आ इत्यस्यार्थः – प्रेति ॥ रं रमणं राति ( २ ) ददाति इति रात्रिः । दिशति परतत्त्वमादिशति । अवान्तरमपरतत्त्वम् । चतुर्थाग्नौ श्रुतान् वाक्प्राण- जिह्वाचक्षुःश्रोत्रशब्दान्निर्वक्ति - वचनादिति ॥ अननात् प्रणयनात् ।
होमतो होमाधिकरणत्वात् । होमकर्तृत्वाद्वा । “हु दानादानयोः (१) 'इति ' धातुः । पञ्चमाग्नौ श्रुतोपस्थादिशब्दपञ्चकं व्याचष्टे - उपस्थितेरित्या- दिना || सर्वजीवानां हृद्रत्वेन समीपस्थितेरित्यर्थः । " यदुपमन्त्रयते" इत्यस्यार्थः
उपमन्त्रकृदेवेति । युनक्ति संयोजयति । " यदन्तः - करोति" इत्यस्यार्थः - सर्वान्तः कृदिति ॥ " नारायणादयः पञ्च क्रमात् पञ्चाग्नयः स्मृताः’” इत्युक्तम् । पञ्चाग्निषु श्रुतानसौलोकपर्जन्यपृथिवी- पुरुषयोषाशब्दान्निर्वक्ति – असाविति । प्राणस्थत्वात् प्रकाशत्वाच्चेति वैपरीत्येन योज्यम् । असुर्मुख्यप्राणस्तस्य (२) सप्तमी असाविति । तस्यार्थः प्राण इति ।। सप्तम्या अनन्वयशङ्कापरिहाराय “प्राणस्थत्वात्” इत्युक्तम् । जोष्यः सेव्यः । जुषी प्रीतिसेवनयोरिति धातोः ।
खण्डार्थः
।। खण्डसप्तकार्थः ॥
श्वेतकेतुर्नामतोऽरुणस्यापत्यमारुणिस्तस्यापत्यमारुणेयो ह पित्राऽनुशिष्टः स्वापाण्डित्यख्यापनाय पञ्चालानां पञ्चालदेशाधिपतीनां समितिं परिषदं प्रत्याजगाम । तं श्वेतकेतुं प्रवाहणो जैबलि ( ३ ) - स्तस्याहङ्कारशान्त्यर्थम् उवाच ह । हे कुमार तब पिता त्वा त्वाम् अन्वशिषद् अन्वशिक्षयत्किमिति शेषः । हे भगवः अनुहि अन्वशिषद्धीति श्वेतकेतुः ।। १ ।।
एवमुक्ते प्रवाहणः पृच्छति - वेत्थेति । प्रजाः इतो लोकाल्लोकान्तरं प्रयन्त्यो यदधिकृत्य यं मार्गमधिकृत्य ब्रह्मलोकं चन्द्रलोकं वा प्रति प्रयान्ति तं मार्गं वेत्थ किमिति । एवं पृष्टः श्वेतकेतुर्न वेद्मि भगव इति होवाच ।। द्वितीयं पृच्छति – वेत्थेति । पुनरावृत्तिमच्चन्द्रलोकं गताः प्रजाः यथा येन मार्गेणेमं लोकं पुनरावर्तन्त इति वेत्थ किमिति । किं गतेनैव मार्गेण पुनरागमनमन्यथा वेति भावः । न भगव इति श्वेतकेतुः । तृतीयं पृच्छति - वेत्थ पथोरिति ।। पथोरित्यस्य विवरणम् – देवयानस्य पितृयाणस्य चेति ॥ व्यावर्तनाः इतरेतरव्यावृत्तीर्वेत्थ किम् ? यत्साधनसाध्यत्वेन देवयानपितृयाणयोरितरेतरत्र्यावृत्तिस्तत्साधनं वेत्थ किमित्याशयः । अन्यथा प्रथमप्रश्नेन गतार्थत्वप्रसङ्गात् । वाजसनेयकविरोधाच्च । न भगव इति होवाच श्वेतकेतुः ।। २ ॥
चतुर्थं पृच्छति – वेत्थ यथेति । पुनः पुनः प्रयद्भिरप्यसौ लोकः पर- लोको यथा येन हेतुना न सम्पूर्यते तं वेत्थ किमिति । न भगव इति श्वेत- केतुः । पञ्चमं पृच्छति वेत्थ यथेति ॥ यथा येन क्रमेण प्रकारेण च पञ्चम्यामाहुतौ हुतायामापः पुरुषवचसो भवन्ति । अद्भिः सम्परिष्वक्तो जीवो लब्धदेहः पुरुषनामवान् भवति । किं तं क्रमं प्रकारं च वेत्थेति । नैव भगव इति होवाच । अवधारणेनातः परं प्रश्नं व्यावर्तयति ॥ ३ ॥
अथ तर्हि एवमज्ञः सन् किं नु कस्मान्नु अनुशिष्टोऽस्मीत्यवोचथाः । यो मन मया पृष्टान्यर्थजातानि न विद्यात् कथं स विद्वाननुशिष्टोऽस्मीति ब्रुवतेति ) प्रवाहणः । एवं सः श्वेतकेतुरायस्तः प्रवाहणेनाऽयासितः निरु- त्तरितः, अप्रतिष्ठित इति यावत् । स्वपितुरर्धं स्थानमेयाय । गत्वा तं पितरमुवाच । अननुशिष्य सम्यग्विद्योपदेशमकृत्वैव किल मा मां प्रति भगवानब्रवीदनु त्वाशिषम् त्वामन्वाशिषमिति ॥ ४ ॥
यत: पञ्चसङ्ख्याकान् प्रश्नान् प्रष्टव्यार्थान् राजन्यबन्धुः क्षत्रियाभासः मा माम् अप्राक्षीत् । राजश्रेष्ठस्यापि कोपादियमुक्तिः । तेषां प्रश्नानां मध्ये एकं च नैकमपि प्रश्नं विवक्तुम् अर्थविशेषेण निर्णेतुं नाशकमिति । कतमे ते प्रश्ना इत्युक्तः प्रश्नवाक्यान्युदाजहारेति ग्राह्यम् । एवमुक्तः स पिता पुत्रक्रोधमुपशमयन्नुवाच । हे तात ! त्वं यथैतान् प्रश्नान् मा मां प्रत्यवदस्तथाऽहमेषां प्रश्नानां मध्ये एकमपि यथा यथावन्न वेद न जानामि । कुतः ? यद्यहमिमान् प्रश्नानवेदिष्यं तर्हि कथं ते प्रियाय नावक्ष्यमिति । यदहं किञ्च वेद सर्वमहं तुभ्यमवोचम् | यदि राजपृष्ट- विद्येच्छा तर्हि राजानं प्रत्येहि । तत्र गत्वा ब्रह्मचर्यं वत्स्याव इति पित्रोक्तो भवानेव गच्छत्वित्याहेति ग्राह्यम् । वाजसनेयके तथाश्रवणात् ।। ५ ।।
स एवं पुत्रोक्तो गोत्रतो गौतमो राज्ञोऽर्धं स्थानमेयाय । तस्मै प्राप्ताय गौतमायार्हां पूजां चकार राजा । सः गौतमः कृतातिथ्य उषित्वा परेद्युः प्रातःकाले राजनि सभागे सभां गते सति उदेयाय ह । सभागः सभाग्य इति वा । तमागतं गौतमं प्रत्युवाच राजा । हे भगवन् पूजार्ह गौतम ! मानुषस्य वित्तस्य वरं हिरण्यादिविषयं वरं वृणीथा इति । एवमुक्तः स गौतमो होवाच । हे राजन् ! मानुषं वित्तं तवैवास्तु । त्वं कुमारस्य मत्पुत्रस्यान्ते समीपे यामेव वाचं प्रश्नरूपामभाषथास्तमेव मे ब्रूहीति ॥ ६ ॥
सः राजा स्वपृष्टस्य गोप्यत्वात् कृच्छ्रीबभूव । स कृच्छ्रीभूतोऽ- प्रत्याख्येयं ब्राह्मणं मन्वानस्तं गौतमं चिरं वसेत्याज्ञापयाञ्चकार ह । चिरवासाज्ञापने निमित्तं वदन् राजा तं होवाच । हे गौतम मां प्रति यथाऽवदस्तामेव मे ब्रूहीति । तथैवाहं करिष्ये त्वयि चिरोषित इत्यर्थः । "नासंवत्सरवासिने'' इति श्रुतेरिति भावः । वक्ष्यमाणां विद्यां स्तौति- यथेति ॥ इयं वक्ष्यमाणाविद्या । प्राकू तदेव विवृणोति त्वत्तु पुरेति ॥ त्वत्त एवं पुरा ब्राह्मणान् यथा यथावन्न गच्छति न गतवती । क्षत्रस्यैवासाधारणविद्येयमिति भावः । कुत इत्यतस्तत्र क्षत्रगामिविद्या-फलमेव हेतुमाह- तस्मादिति । तस्माद् विद्यायाः क्षत्रमात्रनिष्ठत्वादेव खलु एतद्विद्यानुष्ठानेन सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनं प्रशास्तृत्व- मभूदित्युक्त्वा तस्मै होवाच विद्यां राजा ॥ ७ ॥
॥ इति तृतीयखण्डः ॥
इतरप्रश्नोत्तराणां पञ्चमप्रश्नोत्तरसापेक्षत्वादादौ तस्योत्तरं वक्तुं वैराग्यार्थं जीवस्याऽगतिं निरूपयन् पञ्चाग्निविद्यामाह असावित्या- दिना ॥ हे गौतम! असौ मुख्यप्राणे स्थितो लोकः प्रकाशरूपो द्युलोकस्थो नारायण एवाग्निरदनादिकर्तृत्वात् । अयं द्युलोकस्थो नारायणः पुनर्नारायणाद्यात्मकत्वेन पञ्चरूपः । तस्य द्युलोकस्थनारायणाख्या- ग्रेरादानादादित्यनामाऽऽदित्यस्थो नारायण एव । समेधनात् समिदित्युक्तः समित्स्थानीयः, रश्मयो रतिशरूपतो रश्मिनामा तदन्तर्गतो वासुदेवः, धूत्काराद् धूम इत्युक्तो धूमस्थानीयः, अहननीयत्वादहर्नामा तत्स्थः सङ्कर्षणः, अरञ्चितत्वादर्चिरित्युक्तोऽ- र्चिःस्थानीयः, सुखरूपत्वाच्चन्द्रनामा तत्स्थः प्रद्युम्नः, अङ्गरतेरङ्गार इत्युक्तोऽङ्गारस्थानीयः, अनन्यराजत्वान्नक्षत्रनामकोऽनिरुद्धः, विष्फु- लिङ्गो विविधं स्फुरणात् तथोक्तस्तत्स्थानीयः ।। १ ।।
तस्मिन् द्युस्थे नारायणाख्ये एतस्मिन्नुक्तसमिदादिविशिष्टेऽग्रौ देवाः लोकाधिपतयः श्रद्धां श्रद्धयेष्टवन्तम् उत्क्रान्तं यजमानं जुह्वति । अत्र श्रद्धाशब्दोऽजहल्लक्षणया श्रद्धयाऽद्भिश्व विशिष्टं जीवमाह । तेन यजमानोत्क्रान्तिकाल एवाप: श्रद्धावत्सहायता इति सिद्ध्यति । अन्यथा अषामप्राप्तत्वे । ‘“इति तु पञ्चम्यामाहुतावापः" इत्यनुवादानुपपत्तेः । तथाच सूत्रम् - " प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः " ( ब्र.सू. ३-१-५) इति । एवं द्युलोके देवैर्निक्षिप्तो यजमानः स्वपुण्यावसाने मर्त्यलोकोन्मुखस्तस्या आहुतेः सकाशात् सोमो राजा सम्भवति ।सोमलोकान्तर्गतो भवति
॥२ ॥
॥ इति चतुर्थः खण्डः ॥
पर्जन्यस्तन्नामा तत्स्थो वासुदेवोऽग्निः सोऽपि पूर्ववत् पञ्चरूपः । तस्य वाय्वभ्रविद्युदशनिह्रादुनिनामकास्तत्तदन्तर्गताः(१) नारायणादयः समिदा- दिस्थानीया इत्यर्थः । तस्मिन्नेतस्मिन्ननौ देवाः सोमं राजानं तदन्तर्गतं यजमानं जुह्वति । तस्या आहुतेर्वर्षो वृष्ट्यन्तर्गतो भवति ॥ १-२ ॥
॥ इति पञ्चमः खण्डः ॥
पृथिवी तन्नामा तत्स्थः सङ्कर्षणोऽग्निः तस्याः अग्निस्थानीयायाः पृथिव्याः संवत्सराकाशरात्रिदिगवान्तरदिङ्नामानः तत्स्थाः नारायणादयः समिदादि- स्थानीया इत्यर्थः ॥ १ ॥
तस्मिन्नेतस्मिन्ननौ देवाः वर्षं वर्षान्तर्गतं जीवं जुह्वति । तस्या आहुतेरन्नमन्नान्तर्गतः सम्भवति ।। २ ।।
।। इति षष्ठः खण्डः ।।
पुरुषस्तन्नामा तत्स्थः प्रद्युम्नोऽग्निः तस्य वाक्प्राणजिह्वाचक्षुःश्रोत्रस्थाः तन्नामानो नारायणादयः समिदादिस्थानीया इत्यर्थः ॥ १ ॥
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नमन्नान्तर्गतं जीवं जुह्वति । तस्या आहुते रेतस्तदन्तर्गतः सम्भवति ॥ २ ॥
।। इति सप्तमः खण्डः ॥
योषा तत्स्थस्तन्नामाऽनिरुद्धोऽग्निः तस्याः अग्निरूपाया योषित उपस्थादिनामानस्तदन्तर्गताश्च नारायणादयः समिदादयः ॥ १ ॥ तस्मिन्नेतस्मिन्नग्नौ देवाः रेतः तदन्तर्गतं जीवं जुह्वति । तस्या आहुतेः गर्भो गर्भस्थः सम्भवति ॥ २ ॥
।। इति अष्टमः खण्डः ॥
किं तत इत्यतः पञ्चमप्रश्नस्योत्तरं जातमित्याह - इति त्विति । इत्येवं पञ्चम्यामाहुतौ हुतायामापो जीवेन मरणकाले सहाऽगताः भूतानीति यावत् । पुरुषवचसो भवन्ति । तैर्लब्धदेहो जीवः पुरुषनामवान् भवतीत्यर्थः । एवं वैराग्यार्थमागमनं निरूप्य गर्भवासादिदुःखं च निरूपयति- स इति ।। स उल्बेन जरायुणाऽऽवृतो गर्भस्थ जीवो दश वा मासान् यावत्स्थातव्यं तावद्वाऽन्तर्मातुः कुक्षौ शयित्वाऽथ जायते ॥ १ ॥
स जातो जीवो यावदायुषं जीवति । अथ यदा म्रियते तदा तं प्रेतं दिष्टं सादृष्टमितो लोकादग्नय एव हरन्ति । प्रकृतहोतारो देवाः । अग्निं विशिनष्टि— यत इति ।। यत एव द्युपर्जन्यवृष्ट्याख्याग्नेः सकाशाद् भूलोकमितः प्राप्तस्तत्र च यतः पुरुषयोषाग्नेः सम्भूतस्तस्मा एवानये हरन्तीत्यर्थः।। २ ।।
॥ इति नवमः खण्डः ||