य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति ..
उपनिषत् (खण्डः- १५ )
चक्षुरन्तःस्थभगवद्विद्या
य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मैतस्मिन्न किञ्चन श्लिष्यति तद्यदस्मिन् सर्पिवोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ १ ॥
चक्षुरन्तः स्थभगवन्नामानि
एतं संयद्वाम इत्याचक्षत एतं हि सर्वाणि वामान्यभिसंयन्ति सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ २ ॥
एष उ एव वामनिरेष हि सर्वाणि वामानि नयति सर्वाणि वामानि नयति य एवं वेद ॥ ३ ॥
एष उ एव भामनिरेष हि सर्वेषु लोकेषु भाति सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥
अर्चिरादिमार्गः
अथ यदु चैवास्मिञ्च्छव्यं कुर्वन्ति यदु च नार्चिषमेवाभिसम्भवन्त्यर्चिषोऽहरह्ण आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदंङ्गेति मासांस्तान् मासेभ्यः संवत्सरं संवत्सरादादित्यमादित्यात् चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषो मानवः स एनान् ब्रह्म गमयत्येष देवपथो ब्रह्मपथ एतेन खलु प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ ५ ॥ १५ ॥
भाष्यम्
असङ्गभगवत्स्थानत्वाच्चक्षुषोऽसङ्गत्वमुच्यते । 'यत्स्थानत्वादिदं चक्षुरसङ्गं सर्ववस्तुषु । तस्मै नमो भगवते वामनाय परात्मने ।' इति च महाकौर्मे ( ९ ) । इमं मानवमावर्तं नाऽवर्तन्ते । मानवा यत्राऽवर्तन्ते स मानवा - वर्तः । तं मानवावर्तं प्रति नाऽवर्तन्ते । 'चक्षुःस्थं वामनं वेद स पुनर्नैव जायते । मुक्तो दुस्तरसंसाराद वामनं प्राप्नुतेऽचिरात् ।।' इति च ॥ १५ ॥
पदार्थकौमुदी
ननु " अन्तर उपपत्ते:' इत्युक्तन्यायेनाक्षिस्थस्य विष्णुत्वात् “एतस्मिन्न किञ्चन शिष्यति' इत्युक्तमसङ्गत्वं तस्यैव । ततश्च “तद् यद्यप्यस्मिन् सर्पिर्वा'' इति वाक्ये चक्षुषोऽसङ्गत्ववचनमसङ्गतमित्यत आह - असङ्गेति ।। अनेन यस्मादेवं पुरुषोऽक्षिणि विद्यते तत्तस्मादस्मिं- श्चक्षुषि यदि सर्पिर्वोदकं वा कश्चित्सिञ्चति तर्हि वर्त्मनी प्रत्येव गच्छति न चक्षुः स्पृशतीति वाक्यं व्याख्यातम् । उक्तमर्थं प्रमाणेन द्र यत्स्थानत्वादिति ।। अनेन वामन एव चक्षुःस्थ इत्युक्तं भवति । “इमं मानवमावर्तं नाऽवर्तन्ते'' इत्यस्य इमं मानवं मनुसम्बन्धिनमावर्तं संसारं नाऽवर्तन्त इत्यर्थं इत्यसत् । मनुसम्बन्धिसंसाराप्राप्तावप्यन्यसंसार- प्रसक्तेरिति भावेनानूद्य व्याचष्टे इममिति । यत्र संसारे । अत्र आवर्तशब्दो यदि भावे घञन्तस्तदा गमकत्वाद् व्यधिकरणो बहुव्रीहिः ।यद्यधिकरणे घञन्तस्तदा षष्ठीतत्पुरुषः । उभयत्रापि समासे छान्दसो मुमागम इत्यवधेयम् । चक्षुःस्थभगवज्ज्ञानिनः सर्वथा संसारप्राप्त्यभावे प्रमाणं चाह - चक्षुःस्थमिति ॥
खण्डार्थः
य एषोऽक्षिण्यन्तः (१) पुरुषो दृश्यते दिव्यदृष्ट्या एष आत्मा वामनाख्य इति होवाच । एतदमृतं स्वतो नित्यमुक्तम् अभयं स्वतो भयशून्यमेतद् ब्रह्म गुणपूर्णमेतस्मिन् भगवति न किमपि श्लिष्यति । असङ्गोऽसावित्यर्थः । यत्स्थानत्वाच्चक्षुषोऽप्यसङ्गत्वं किं तस्येति भावेन चक्षुषोऽसङ्गत्वमाह- तद् यदीति ।। यद्यस्मादेवमसङ्गः पुरुषोऽक्षिणि विद्यते तत्तस्मादस्मिंश्चक्षुषि यदि सर्पिर्वोदकं वा कश्चित् सिञ्चति तर्हि वर्त्मनी प्रत्येव गच्छति । न चक्षुः स्पृशतीत्यर्थः ।। १ ।।
एवं भगवतः स्थानशक्तिमभिधाय स्वरूपशक्तिं चाऽह - एतमिति ॥ एतं चाक्षुषं वामनाख्यं भगवन्तं संयद्वाम इत्याचक्षते विद्वांसः । कुतः ? हि यस्मादेतं सर्वाणि वामानि सौन्दर्याण्यभिसंयन्ति प्रविशन्ति । तथोपासक- स्यानुरूपं फलमाह सर्वाणीति ।। एष एव चाक्षुषः पुरुषो मुख्यतो वामनिरित्युच्यते । कुतः ? यस्मादेष सर्वाणि वामानि रमादिगतसौन्द- र्याणि नयति प्रापयति । पूर्ववत् फलमाह - सर्वाणीति ॥ सर्वाणि स्वावर- गतानि ॥ २ ॥
एष एव चाक्षुषः पुरुषो भामनिरित्युच्यते । कुतः ? हि यस्मादेष सर्वेषु लोकेषु (२) भाति दीप्यते । सर्वेष्विति फलम् ॥ ॥ ३ ॥ ४ ॥
एवमुपकोसलोपास्यं भगवद्रूपं निरूप्य तद्विद्याफलत्वेन समार्गब्रह्मप्राप्तिं चाक्षुषपुरुषवेत्तुर्महिमानं प्रकाशयन्निरूपयति – अथेत्यादिना ॥ अथेत्य- र्थान्तरे । यदु च यद्यपि अस्मिन् ज्ञानिनि मृते शव्यं शवसम्बन्धि कर्म कुर्वन्त्येव तदीयाः, यदु च नैव कुर्वन्ति तथाऽपि ते ज्ञानिनः सर्वथा स्वज्ञानप्रसन्नभगवत्सामर्थ्याद् हृदयाग्रप्रज्वलनप्रकाशितद्वारेण ब्रह्म- नाड्या देहादुत्क्रान्ता अर्चिषमर्चिर्नामकमूर्ध्वलोकं सम्भवन्त्येव प्राप्नु- वन्त्येव । अत्राग्निर्ज्योतिरिति द्वेधैवार्चिषः इत्युक्तमनुसन्धेयम् । तत्र कञ्चन कालं स्थित्वा तेन पूजिताः अर्चिषोऽर्चिर्लोकादातिवाहिकाख्यवायुलोकं प्राप्य ततोऽहरभिमानिदेवतालोकं प्राप्नुवन्ति । अह्नः आपूर्यमाणपक्ष पूर्वपक्षाभिमानिदेवतालोकम् आपूर्यमाणपक्षाद् गच्छन् यान् षण्मासानु- दङ्केत्यादित्यस्तान् मासानुत्तरायणाभिमानिदेवतालोकं मासेभ्यस्तेभ्यः संवत्सराभिमानिलोकं संवत्सरात् तटिद्वरुणप्रजापतिप्राप्तिद्वाराऽऽदित्य- मादित्याच्चन्द्रमसं चन्द्रमसो वैश्वानरेन्द्रध्रुक्द्वारा विद्युतं विद्युन्नान भारतीं प्राप्नुवन्ति । ततस्तस्याः पुरुषो भर्ता मानवो मननान्मनुर्भगवांस्तस्यायं प्रियभृत्यो मुख्यवायुस्तं गच्छन्ति ।
सः वायुरेनान् स्वप्राप्तान् प्रतीकालम्बनान् कार्यं ब्रह्म अप्रतीकालम्बनान् परं ब्रह्म गमयति । ज्ञानिनो देवयानब्रहायानाख्य- मार्गान्तरोक्तेः कथमेतदित्यत आह - एष इति ।। देवपथो ब्रह्मपथ इत्येष एवोच्यते । मार्गान्तरं वा व्यावर्तयति - एष इति । देवैरधिष्ठितः पन्था देवपथः ब्रह्मप्राप्तिहेतुः पन्थाः ब्रह्मपथः एष एव, नत्वन्योऽस्ति । एवं ब्रह्म प्राप्तस्य पुनः संसारप्राप्तिरस्ति किं ? नेत्याह – एतेनेति । एतेन खलु मार्गेण परमपरं वा ब्रह्म प्रतिपद्यमानाः इमं मानवमावर्तं मानवा यत्राऽवर्तन्ते स मानवावर्तः संसारः तं मानवावर्तं नाऽवर्तन्त इत्यर्थः ॥ ५ ॥
।। इति पञ्चदशः खण्डः ।।