बलं वाव विज्ञानाद्भूयोऽपीह शतं ..

उपनिषत् (खण्डः - ८)

विज्ञानाभिमानिचन्द्राद् बलाभिमानि प्रवहस्योत्तमत्वकथनम्

बलं वाव विज्ञानाद्भूयोऽपीह शतं विज्ञानवतामेको बलवानाकम्पयते स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन् परिचरिता भवति परिचरन्नुपसत्ता भवत्युपसीदन् द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेनापो बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलिकं बलेन वै लोकस्तिष्ठति बलमुपास्स्वेति ॥ १ ॥ स यो बलं ब्रह्मेत्युपास्ते यावद् बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद् भूय इति बलाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ८ ॥

भाष्यम्

.....................तस्माच्च तथा वायुर्भूतात्मको वरः ॥ बलात्मकस्तथा .........

पदार्थकौमुदी

" बलं वाव विज्ञानाद् भूयः" इत्येतद्व्याचष्टे - तस्माच्चेति ।। चस्त्वर्थः । प्रधानवायुव्यावृत्त्यर्थं "भूतात्मकः" इत्युक्तम् । बलात्मको बलस्वरूप इति बलशब्दोपपत्तिः । तथाशब्देन बलदेवतात्वं समुच्चीयते ॥

अष्टमः खण्डः ॥

खण्डार्थः

बलं बाह्यान्तर्बलाभिमानी प्रवह एव विज्ञानाद् भूयः । तदेवोपपादयति- अपीति । इह लोके विज्ञानवतां शतमप्येक एव बलवानाकम्पयते तस्माद् विज्ञानाद् बलं भूयः युक्तिज्ञतालक्षणान्तर्बलस्य विज्ञानाद् भूयस्त्वोपपत्तिः । बलस्य सर्वव्यापारहेतुत्वमाह - स यदेति । सः प्रसिद्धः पुरुषो यदा बलीभवत्यथ तदोत्थातोत्थानस्य कर्ता भवति । उत्तिष्ठन् गुर्वादीनां परिचरिता शुश्रूषको भवति । परिचरंश्चोपसत्ता तेषां समीपगोऽन्तरङ्गः प्रियो भवति । उपसीदनुपदेष्टुरेकाग्रतया द्रष्टा भवति । ततस्तदुक्तस्य श्रोता भवति । श्रुतस्यैव मन्ता भवति । मतस्येव बोद्धा भवत्येवमेवेदमिति । यद्वा, बोद्धा ध्याता भवति । न केवलमेतावत् । तदुक्तार्थस्य कर्ता अनुष्ठाता भवति । विज्ञाताऽनुष्ठानफलस्यानुभविता भवतीत्यर्थः। महिमान्तरमाह - बलेनैवेति ॥ अत्र पृथिव्यादि-। शब्दाश्चेतनपरा ॥ १ ॥

बलं ब्रह्मेत्युपास्ते । बलवतो ह स लोकानभिसिद्ध्यतीति ग्राह्यम् ॥ २ ॥

॥ इति अष्टमः खण्डः ॥ ८ ॥