अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श ..
उपनिषत् ( खण्डः - ९ )
इन्द्रकृतनिरन्तराध्ययनम्
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति ॥ १ ॥
नाहमत्र भोज्यं पश्यामीति स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन् पुनरागम इति स होवाच यथैव खल्वयमस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोज्यं पश्यमीति ॥ २ ॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै स होवाच ॥ ३ ॥ ९ ॥
भाष्यम्
इन्द्रस्तु (१) जानन्नपि तु मोहयन्नसुरं तदा । गत्वा निववृते पश्वादिव पश्यन् सदोषताम् || पुनः पुनश्च मोहाय गत्वा गत्वा निवर्तते कथञ्चिदेव विज्ञातं मयेत्यज्ञान् विमोहितुम् || खण्डः ९॥
पदार्थकौमुदी
" अथ हेन्द्रो प्राप्यैव देवान् ' ' इति खण्डतात्पर्यमाह - इन्द्रश्चेति ॥ पश्चात् सदोषतां पश्यन्निव । सम्यगुपदेशभलब्ध्वा पुनः पुनर्गत्वा निवर्तने प्रयोजनमाह - पुनः पुनरिति || मोहायेत्युक्तं विशदयति-- कथञ्चि- देवेति ॥
॥ नवमः खण्डः ॥ ९ ॥
खण्डार्थः
एवं जाग्रदवस्थाप्रेरकम् अक्षिस्थं प्रतिबिम्बादिबाह्यपदार्थस्रष्टारम् अपहतपाप्मत्वादिगुणकात्मतयाऽवगत्य विरोचनावगतं प्रतिबिम्बं तु नापहतपाप्मत्वादिगुणकमित्युपपादयति- अथेति । अत्रेन्द्रस्य विरोचनेन सह गमनादिकं ब्रह्मणोऽपि तदनुसारेण वचनमसुरमोहाद्यर्थमिति भाष्ये स्पष्टम् । अथ विरोचनगमनानन्तरम् इन्द्रो देवानप्राप्य मध्य एवैतद् त्रक्ष्यमाणं भयं भयङ्करं न्यायसाम्येन ब्रह्माभिप्रेतं दोषं ददर्श । हेत्यास्वादने । महदभिप्रायो योग्यानामेव स्फुरति नायोग्यानामिति । न्यायसाम्यं दर्शयन् भयं ददर्शेत्युक्तमेव विशदयति - यथैवेत्यादिना ।। अयं प्रतिबिम्बभूतो देहः अस्मिन् बिम्बभूते देहे स्रामे चक्षुर्नासिका वा यस्य सदा स्रवति स स्रामस्तस्मिन् सतीत्यर्थः । परिवृक्णे हस्तादिच्छेदवति । अत्रैतज्ज्ञाने सति (१)भोग्यमुपादेयं यन्मोक्षादि न पश्यामि । नहीदृशवस्तुज्ञानेन मोक्षादि । तस्य (२)निरवद्यज्ञानसाध्यत्वादिति भावः । उपलक्षणमेतत् । " एतदमृत- मभयमेतद् ब्रह्म” इत्युक्तामृतत्वादीनां प्रतिबिम्बेऽनुपपत्तिश्च द्रष्टव्या । इति भयं ददर्शेत्यन्वयः।। १॥
अतो न विरोचनावगतं प्रतिबिम्बं ब्रह्म किन्तु मदवगतमेवेति निश्चित्येममर्थं ब्रह्मणे निवेद्य तन्मुखेनापि प्रतिबिम्बस्याब्रह्मतां दृढीकर्तुं स्वप्नावस्थाप्रवर्तकत्वरूपमुक्तात्मनो माहात्म्यान्तरं श्रोतुं च पुनरा- जगामेन्द्र इत्याह – स समित्पाणिरित्यादिना । शिष्टं स्पष्टम् ॥ २ ॥
हे मघवन् यशस्विन्निन्द्र ! एष प्रतिबिम्ब: एवमेव त्वदुक्तप्रकारेण दोषवानेव अतो नायं मदभिप्रेतः किन्तु यस्त्वयाऽवबुद्धः स एव । एतं जाग्रदवस्थाप्रेरकत्वादिनोक्तम् आत्मानमेव तु विशेषेण स्वप्नाद्यवस्था- प्रेरकत्वादिरूपेणानु त्वद्योग्यतानुसारेण । शिष्टं समानम् ॥ ३ ॥ इति नवमः खण्डः ॥ ९ ॥