प्राणो वा आशाया भूयान् यथा वा अरा नाभौ समर्पिता ..

उपनिषत् ( खण्ड: १५ )

आशाभिमानिभारत्याः सकाशात् स्वरूपानन्दाभिमानी प्राण उत्तमः

प्राणो वा आशाया भूयान् यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ॥ १ ॥

मातापित्रादिषु प्राणोपासना

स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाऽऽचार्यं वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वाऽस्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ २ ॥

अथ यद्यप्येनानुत्क्रान्तप्राणाञ्च्छूलेन समासं व्यतिषन् दहेन्नैवैनं ब्रूयुः पितृहाऽसीति न मातृहा असीति न भ्रातृहा असीति न स्वसृहाऽसीति नाचार्यहाऽसीति न ब्राह्मणहाऽसीति ॥ ३ ॥

प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीत्येव ब्रूयान्नापह्नुवीत ॥ ४ ॥ १५ ॥

भाष्यम्

तस्याः श्रेष्ठो मुख्यवायुः प्रकृष्टानां च नायकः ॥ प्राणनामा ण इत्येव ह्यानन्दः समुदीरितः । आणा सरस्वती प्रोक्ता तत्प्रकृष्टसुखत्वतः ।। प्राण इत्युच्यते वायुः ………..

पदार्थकौमुदी

" प्राणो वा आशाया भूयान्" इत्येतद्व्याचष्टे- तस्या इति ॥ प्राणशब्दं निर्वक्ति- प्रकृष्टानामिति । प्रकृष्टानां नामादिसरस्वत्यन्तानां नायको यतोऽतः प्राणनामा । चशब्देन प्राणदेवतात्वं समुच्चीयते । प्रकारान्तरेण प्राणशब्दं निर्वक्ति - ण इति ॥ हि यस्माण्ण इत्यनेनैव शब्देनाऽनन्दः समुदीरितस्तस्मादाणा सरस्वती । पूर्णानन्दत्वात् । ततश्च तदपेक्षया प्रकृष्टसुखात्मको वायुः प्राण इत्युच्यते।आणायाः प्रकृष्टः प्राणः, प्रकृष्टत्वं च सुखरूपत्वेनैवेति भावः ।

Load More