पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि ..
उपनिषत् (खण्डः-१६ )
जीवनं यज्ञात्मकम् - तत्र प्रातः सवनम्
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातःसवनं चतुर्विंशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदं सर्वं वासयन्ति ॥ १ ॥
तं चेदेतस्मिन्वयसि किञ्चिदुपतपेत् स ब्रूयात् प्राणा वसव इदं मे प्रातःसवनं माध्यन्दिनं सवनमनुसन्तनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ २ ॥
माध्यन्दिनसवनम्
अथ यानि चतुश्चत्वारिद्वर्षाणि तन्माध्यन्दिनंसवनं चतुश्चत्वारिंशदक्षरा त्रिष्टुप् त्रैष्टुभं मान्धन्दिनं सवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदं सर्वं रोदयन्ति ॥ ३ ॥
तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत् स ब्रूयात् प्राणा रुद्रा इदं मे माध्यन्दिनं सवनं तृतीयं सवनमनुसन्तनुतेति माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥४॥
सायंसवनम्
अथ यान्यष्टाचत्वारिंशद्वर्षाणि तत् तृतीयसवनमष्टाचत्वारिंशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वाव आदित्या एते हीदं सर्वमाददते ॥ ५ ॥
तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत् स ब्रूयात् प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसन्तनुतेति माहं प्राणानां आदित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ६ ॥
भाष्यम्
‘विष्णुपूजार्थयज्ञोऽहमित्युपासनमादरात् । कुर्वीत पुरुष नित्यं तस्य यत्षोडशोत्तरम् ॥ (१) शतमायुस्तत् सवनत्रयमीरितमुत्तमम् । चतुर्विंशत्तु यत्पूर्वं प्रातः सवनमेव तत् ॥ प्रार्थयित्वा वसूंस्तद्गं पुमान् मृत्युमपानुदेत् ।
मध्ये चतुश्चत्वारिंशन्मध्यमं सवनं स्मृतम् ॥ रुद्राणां प्रार्थनेनात्र पुमान् मृत्युमपानुदेत् ।
ततोऽष्टचत्वारिंशत्तु (१) तृतीयं सवनं स्मृतम् (२) । आदित्यानां प्रार्थनेन तद्गं मृत्युमपानुदेत् ||' इति सर्वयज्ञे ।
पदार्थकौमुदी
उक्तवक्ष्यमाणानेकभगवदुपास्तीनामायुषः क्षणिकत्वेन देहस्य च रोगोपहतत्वेनानुष्ठानमशक्यमित्याशङ्कायामायुर्वृद्ध्यर्थं रोगपरिहारार्थं च पुरुष (स्य) यज्ञरूपामुपास्तिमाह – पुरुषो वाव यज्ञ इत्यादिना ॥ अत्र पुरुषस्य यज्ञसाम्यं काव्य इवोच्यत इति प्रतीयते । नतूपासार्थम् । तथोपासाविधायकाभावात् । ब्रह्मसम्बन्धश्व न प्रतीयते । अतो ब्रह्म- सम्बन्धं दर्शयन्नपेक्षितं पूरयन् खण्डं प्रमाणेनैव व्याचष्टे - विष्विति ॥ बावेत्यस्यार्थः – नित्यमादरादिति ॥ पुरुषस्य यज्ञरूपत्वे (२) साम्येन ।। सवनत्रयस्थानीयं किञ्चिन्नोक्तमतस्तद्दर्शयति तस्येति ॥ उत्तमं प्रसिद्धसवनत्रयापेक्षया बहुत्वादुत्तमफलसाधनत्वाच्चेति भावः । विशेषतः प्रातःसवनादिस्थानीयं दर्शयितुं " तस्य यानि ' इत्यादिकोपनिषत् ।। तत्र " तस्य यानि चतुर्विंशतिवर्षाणि ' ' इति प्रथमवाक्यं मध्यमान्तिमचतु- विंशतिवर्षाणीति प्रतीतिं वारयन् व्याचष्टे - चतुर्विंशदिति ॥ विंशति- शब्दपर्ययो विंशच्छब्दः । आयुरिति वर्तते । चतुर्विंशतिवर्षसङ्खचाक- मायुरित्यर्थः । पूर्वमेवेति सम्बन्धः ।
" स ब्रूयात्" इत्यारभ्य “ अगदो भवति" इत्यन्तवाक्यस्य “सः ब्रूयात्' इत्यादिना वसूनाज्ञापयतीति प्रतीतिवारणाय तात्पर्यमाह प्रार्थयित्वेति ॥ " अथ यानि चतुश्चत्वारिंशद्वर्षाणि ' ' इति वाक्यम् अन्तिमचतुश्चत्वारिंशद्वर्षाणीति प्रतीतिं वारयन् व्याचष्टे – मध्य इति ॥ चतुर्विंशत्यष्टचत्वारिंशद्वर्षरूपायुषोर्मध्ये विद्यमानं चतुश्चत्वारिंशद्वर्ष- सङ्ख्याकमायुरित्यर्थः । मध्यमं माध्यन्दिनम् । “स ब्रूयात् प्राणा रुद्रा: " इत्यादेः " अगदो भवति' इत्यन्तस्य वाक्यस्य रूद्राज्ञापकत्वप्रतीति- वारणाय तात्पर्यमाह – रुद्राणामिति । अत्र गतमिति शेषः । “अथ यान्यष्टचत्वारिंशद्वर्षाणि " इति वाक्यं यत्किञ्चिदष्टचत्वारिंशद्वर्ष- प्रतीतिवारणाय व्याचष्टे - तत इति । उत्तरमिति शेषः । अष्टचत्वारिंश- द्वर्षसङ्ख्याकमायुरित्यर्थः ।