अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तं होवाच ..

॥ अथ श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते सप्तमाध्याये प्रथमः खण्डः ॥

निषत्

( सनत्कुमारसविधे नारदागमनम् )

ॐ अधीहि भगव इति होपससाद सनत्कुमारं नारदस्तं होवाच यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति स होवाच ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

पूर्वाध्याये प्रज्ञाधिक्येनाऽत्मानमीश्वरम्मन्यमानं श्वेतकेतुं प्रति भेददृष्टान्तैर्भेदज्ञानपूर्वमीश्वरोपासना कार्येत्युक्तम् । अत्र पुनरध्याये तारतम्यज्ञानपूर्वं तदन्तर्गतत्वेनोपासितो हरिर्मोक्षादिसर्वपुमर्थप्रद इत्यतो देवानां तारतम्यमाहअधीहीत्यादिना || नारदः, हे भगवः ! भगवन् अधीहि मामध्यापयेति ब्रुवन् सनत्कुमारमुपससाद उपसत्तमात् । तं नारदमुवाच ह सनत्कुमारः । किमिति ? अज्ञातांशस्यैवोपदेष्टव्यत्वाद् ज्ञातं भागं वदेत्युवाचेत्याहयद्वेत्थेति । तेन वेदितकथनेन मामुपसीद । ततो ज्ञाताद् ऊर्ध्वम् अज्ञातांशं वक्ष्यामीत्युवाचेत्यन्वयः ॥ १ ॥

निषत्

(नारदाधीतशास्त्रवर्णनम् )

ऋग्वेदं यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

स इत्युक्तो नारद उवाच ह । तदाहऋग्वेदमिति ॥ हे भगवः ! भगवन् सनत्कुमार! इतिहासपुराणमिति द्वन्द्वैकवद्भावः । वेदानाम् ऋगादीनां पञ्चमं पञ्चत्वसङ्ख्यापूरकम् इतिहासपुराणरूपं वेदम्,अध्येमीति सर्वत्रान्वेति । पित्र्यं पितृलक्षणोक्तिपरग्रन्थं, राशिं गणनशास्त्रं, देवलक्षणपरं दैवम्, निधिं 'निक्षेप एतादृशे स्थले तिष्ठति' इति तच्चिह्नोपदर्शनपरं शास्त्रं, वाकोवाक्यं मूलवेदम्, एकायनं वेदसारसङ्ग्रहशब्दितं पञ्चरात्रं, समयपादान्त्यसुधायाम् ' एकायनं पञ्चरात्रम्' इत्युक्तेः । देवैर्ज्ञेया विद्या देवविद्या ताम्, ब्रह्मविद्याम् आरण्यकं, भूतचिह्नपरं शास्त्रं भूतविद्यां क्षत्रविद्यां नीतिशास्त्रं, नक्षत्रविद्यां ज्योतिःशास्त्रं, सर्पलक्षणशास्त्रं सर्पविद्यां, देवजनविद्यां देवपरिवारप्रतिपादकं शास्त्रम् एतद्विद्याजातमध्येमि ॥ २ ॥

निषत्

सोऽहं भगवो मन्त्रविदेवास्मि नात्मविच्छ्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सोऽहं भगवः शोचामि तन्मा भगवांञ्च्छोकस्य पारं तारयत्विति तं होवाच यद्वै किञ्चैतदध्यगीष्ठा नामैवैतत् ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

किं तर्हि त्वया ज्ञातव्यमित्यत आह - स इति । एतावदध्येताऽप्यहं हे भगवः! मन्त्रविदेव निर्णेतव्यभगवद्गुणप्रतिपादकशब्दराशिज्ञ एवास्मि । नाऽत्मवित् निर्णायकोपक्रमादिन्यायैर्ऋगादिशब्दराशेरर्थं निर्णीय आत्म- शब्दितभगवन्तं न ज्ञातवान् । किमात्मवेदनेन कृत्यमित्यत आह - श्रुतं हीति ।। भगवद्दृशेभ्यः युष्मत्तुल्येभ्यः महानुभावेभ्यः आत्मविदेव शोकं तरतीति मे मया श्रुतं हि यतोऽतः हे भगवः शोचामि दुःखमनुभवामि । तं तादृशं मां भगवान् पूज्यो भवान् शोकस्य पारं तारयत्वित्युवाच नारद इत्यन्वयः । तमेवं वक्तारं नारदमुवाच कुमारः । किं तदित्यत आह- यदिति ॥ हे नारद त्वं यत्किञ्चिद् ऋगादिकमध्यगीष्ठाः अधीतवानभूः । एतद् ग्रन्थजातं नामैव भगवद्गुणराशिप्रतिपादकनामधेयमेव वै प्रसिद्धम् ॥ ३ ॥

निषत्

( नामाभिमानिन्यामुषोदेव्यां भगवदुपासनम् )

नाम वा ऋग्वेदः यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमः वेदानां वेदः पित्र्यो राशिः दैवो निधिः वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतन्नामोपास्वेति ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

तत्किमित्यतः प्रागुक्तं सर्वमनुवदतिनाम वा ऋग्वेद इति ॥ नाम वा इति पदं सर्वत्रान्वेति । भगवन्नामत्वं दृढीकर्तुं अन्तेऽप्यवधारयति- नामैवैतदिति । तदाह सूत्रे 'सञ्ज्ञातश्चेत् तदुक्तमस्ति तु तदपि ' (ब्र.सू. ३.३.१९) इति । यद्वा एतत् नामैव अमेया अज्ञेया न भवति । किन्तूषः कालमानित्वादुषसि ज्ञायत इति नामाख्यया उषोदेव्याऽभिमन्य- मानमेतद् ग्रन्थजातमित्यर्थः । तर्हि किं कार्यमित्यत आह - नामेति ॥ नाम्नि उषोदेव्यां ब्रह्मास्तीत्युपास्स्व । इति तमुवाचेत्यन्वयः । तदाह सूत्रेन प्रतीके न हि सः' (ब्र.सू. ४.२.४) इति ॥ ४ ॥

निषत्

स यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्तेऽस्ति भगवो नाम्नो भूय इति नाम्नो वाग्वा भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ ५ ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

फलमाहस य इति । स प्रसिद्धो योऽधिकारी नाम ब्रह्मेति नाम्नि ब्रह्मास्तीत्युपास्ते, अस्योपासकस्य यावन्नाम्नः उपोदेव्याः गतं व्याप्तिः, तत्र तावति देशे यथाकामचारो भवति । यो नामेति पुनरुक्तिरादरार्था । नाम्नो नामाभिमानिन्या उषसः सकाशाद् भूयः श्रेष्ठं वस्त्वस्ति किमिति प्रश्नस्योत्तरमाह कुमारःनाम्नो वावेति ॥ तन्मे ब्रवीत्विति नारदः । अत्र नाम्नः पूर्वं कर्मभूमिमानिनौ क्रमानीचोच्चौ पुष्करशनैश्वरौ ग्राह्यौ ॥ ५ ॥

।।इति प्रथमः खण्डः ।।

अथ द्वितीयः खण्डः

निषत्

( नामाभिमान्युषोदेव्याः सकाशाद् वागभिमानिस्वाहादेव्याः उत्तमत्वकथनम् )

वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवांश्च मनुष्यांश्च पशूंश्च वयांसि च तृणवनस्पतीञ्च्छ्वापदान्याकीटपतङ्गपिपीलिकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च यद्वै वाङ्ग्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो वागेवैतत्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

वाग् वाव वागभिमानिनी स्वाहादेव्येव नाम्नो नामाभिमानिन्या अश्विपत्न्या उषोदेव्याः भूयसी धर्मज्ञानादिसर्वगुणैः श्रेष्ठा । सा चाग्निभार्या । वं वसुं अञ्चति गच्छतीति वसुनामकाग्र्यञ्चनहेतुना वागित्युक्ता । वाग्देव्या माहात्म्यमाह वाग्वावा इति ॥ वाग्देवी स्वाहाख्या ऋग्वेदं विज्ञापयति वै । वागिन्द्रियदेवताप्रसादेन हि गुरूवारणानूच्चारणादिना ऋग्वेदादिकं जानाति जीव इत्यर्थः । श्वापदानि आरण्यजन्तुविशेषः । आकीटपतङ्गपिपीलिकं कीटपतङ्गपिपीलिकापर्यन्तम् । हृदयज्ञं हृद्ययते वर्तते इति हृदयं ब्रह्म, तज्जानातीति तज्ज्ञं भगवत्तत्त्वज्ञम् । अहृदयज्ञं ब्रह्मेतरवस्तुज्ञं च वाग् विज्ञापयतीति सर्वत्रान्वेति । अन्वमुक्त्वा व्यतिरेकमाह - यद्वै वाङ् नाभविष्यदिति । यद् यदि वाङ् नाभविष्यत् तर्हि धर्मादि कोऽपि न व्यज्ञापयिष्यद विज्ञातो न भवेत् । व्यज्ञापयिष्यदिति न सत्यमित्यादौ सर्वत्रान्वेति । निर्धारयति - वागेवेति । वाचमुपास्स्वेति द्वितीया सप्तम्यर्थे । वाचि वाग्देव्यां ब्रह्मास्तीत्युपास्स्वेत्यर्थः ॥ १ ॥

निषत्

स यो वाचं ब्रह्मेत्युपास्ते यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति वाचो भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

स य इत्यादि प्राग्वत् । अत्र नाम्नः उच्चः, वाचो नीचो जलमानी बुधो मध्ये ग्राह्यः ॥ २ ॥

इति द्वितीयः खण्डः ॥

अथ तृतीयः खण्डः

निषत्

( वागभिमानिस्वाहादेव्याः सकाशान्मनोऽभिमानि-पर्जन्यस्योत्तमत्वकथनम् )

मनो वाव वाचो भूयो यथा वै द्वे वाऽऽमलके द्वे वा कोले द्वौ वाऽक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते कर्माणि कुर्वीयेत्यथ कुरुते पुत्रांश्च पशूंश्चेच्छेयेत्यथेच्छत इमं च लोकममुं चेच्छेयेत्यथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्स्वेति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

वृष्ट्यादिनाऽङ्कुरादिनिर्माणहेतुना मनः शब्दोक्तः पर्जन्यः वाचो वाग्देव्याः स्वाहातः भूयो वाव प्रसिद्धम् । मनसो भूयस्त्वं दृष्टान्तपूर्वं व्यनक्ति यथेति । द्वे आमलके धात्रीफले द्वे वा कोले क्रमुकफले । द्वौ वा अक्षौ विभीतकाक्षौ । मुष्टिरनुभवति स्वान्तर्भावयति यथा । एवं वाचं वाग्देवीं, नाम च नामदेवीम् उषसं, मनो मनःशब्दितः पर्जन्य: अनुभवति स्वसामर्थ्ये अन्तर्भावयति स्वाधीनतया करोतीति यावत् । स मनस्वी पुमान् । मनसा मनस्यति आलोचयति । किमिति? मन्त्रानधीयीयेति मन्त्राध्ययनं करवाणीति । अथानन्तरमधीते । मनसा मनस्यतीत्येतत् कर्माणि कुर्वीयेत्याद्युत्तरवाक्यत्रयेऽप्यन्वेति । आत्मनो मनोधीनप्रवृत्ति- कत्वान्मनो ह्यात्मा । उक्तदिशा मनोऽधीनत्वान्मनो हि लोकः । मनो ब्रह्म । मनसि सान्निध्यविशेषात् मन उपास्स्व मनसि पर्जन्ये ब्रह्मास्तीत्युपास्स्वेत्यर्थः ॥ १ ॥

निषत्

स यो मनो ब्रह्मेत्युपास्ते स यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्तेऽस्ति भगवो मनसो भूय इति मनसो भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

स य इत्यादि प्राग्वत् । मनसो गतं पर्जन्यस्य यावद्देशे व्याप्तिरित्यर्थः । अत्र पर्जन्यवाचकमनःशब्देन वरुणानी सञ्ज्ञा रोहिणी धार्मी विराट् चेति तत्समानाः पञ्च देव्यो ग्राह्याः ॥ २ ॥ ३ ॥

॥ इति तृतीयः खण्डः |

अथ चतुर्थः खण्डः

 निषत्

( मनोऽभिमानिपर्जन्यात् सङ्कल्पाभिमानिमित्रस्य श्रेष्ठचनिरूपणम् )

सङ्कल्पो वाव मनसो भूयान् यदा वै सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नामि्न मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

सङ्कल्प इति || अह्नि सङ्कल्पहेतुतया सङ्कल्पनामा मित्रदेवः मनसः मनःशब्दोपात्तपर्जन्यात् तत्समेभ्यश्चेत्यर्थः । एतच्चोपलक्षणम् । रैवत- प्रभृत्येकादशमनुच्यवनोचथ्यवैन्यशशबिन्दुहैहयप्रियव्रतगयानुक्तशतस्थ- देवादयश्च पर्जन्यादिभ्यः षड्भ्यो भूयांसः । तेभ्यश्चाश्विविघ्नेश- वित्तपविष्वक्सेना भूयांसः । तेभ्यः सङ्कल्पनामा मित्रो भूयानित्यर्थः । सङ्कल्पशब्दितमित्रग्रहणेन च निर्ऋतिर्बृहस्पतिभार्या तारा, प्रावही चेति तिस्रो देवतास्तत्समाना ग्राह्याः । यदा पुमान् सङ्कल्पाव्यमित्रेण प्रेरितः सङ्कल्पयते मननादिकं करोमीति सङ्कल्पं करोति । अथानन्तरं मनस्यति मनः प्रेरयति । अथानन्तरं वाचं वागिन्द्रियमीरयति सव्यापारं करोति । तां नाम्नि भगवन्नामभूते शब्दराशिविषये ईस्यति प्रेरयति भगवन्नाम- भूतशब्दराशिमुच्चारयति । नाम्नि शब्दराशौ मन्त्रा एकीभवन्ति । अन्तर्भवन्ति एकार्थका भवन्ति । मन्त्रेषु कर्माणि एकं भवन्तीत्यनुषङ्गः । तत्र प्रतिपाद्यानि भवन्तीत्यर्थः ।। १ ।।

निषत्

तानि ह वा एतानि सङ्कल्पैकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि समक्लृपतां द्यावापृथिवी समकल्पेतां वायुश्चाकाशश्च समकल्पन्तामापश्च तेजश्च तेषां सङ्क्लृप्त्यै वर्षं सङ्कल्पते वर्षस्य सङ्क्लृप्त्या अन्नं सङ्कल्पतेऽन्नस्य सङ्ग्क्लृप्त्यै प्राणाः सङ्कल्पन्ते प्राणानां सङ्क्लृप्त्यै मन्त्राः सङ्कल्पन्ते मन्त्राणां सङ्क्लृप्त्यै कर्माणि सङ्कल्पन्ते कर्मणां सङ्क्लृप्त्यै लोकाः सङ्कल्पन्ते लोकानां सङ्क्लृप्त्यै सर्वं सङ्कल्पते स एष सङ्कल्पः सङ्कल्पमुपास्स्वेति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

तानि हवा एतानि मनोवाङ्नाममन्त्रकर्माणि तदभिमानिनः पर्जन्यादयश्च प्रागुक्ताः सङ्कल्पैकायनानि सङ्कल्पाख्यमित्राधीनानि । अत एव सङ्कल्पात्मकानि, मित्रात्मकानि वोच्यन्ते, सङ्कल्पे मित्रे प्रतिष्ठितानि मुक्तौ । मुक्तावपि तदधीनानीति यावत् । न केवलमेतावत्, सङ्कल्पादेव च द्यावाभूम्याद्युत्पत्तिरपीत्याह - समक्ऌपतामिति ।। समकल्पेताम् अजाये-तामित्यर्थः । समकल्पन्त अजायन्त । तेषां द्यावापृथिव्यादीनां सङ्क्लृप्त्यै सङ्क्लृप्त्या एव । एवमग्रेऽपि । सङ्कल्पते उत्पद्यते । प्राणाः सङ्कल्पन्ते उपचीयन्ते । अत्र द्यावापृथिव्यादयो जडाश्चेतनाश्च । जडानां सङ्क्लृप्तिः सङ्कल्पाख्यमित्रात्, चेतनानां सङ्क्लृप्तिर्वाय्वादित इति विवेकः । उपसंहरति - स इति । स सङ्कल्पो मित्रः एष एतादृश इत्यर्थः । सङ्कल्पमुपास्स्व मित्रे तत्समानेषु च ब्रह्मोपास्स्वेत्यर्थः ॥ २ ॥

निषत्

स यः सङ्कल्पं ब्रह्मेत्युपास्ते क्लृप्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिद्ध्यति । यावत् सङ्कल्पस्य गतं तत्रास्य यथाकामचारो भवति यः सङ्कल्पं ब्रह्मेत्युपास्तेऽस्ति भगवो वाचो भूय इति सङ्कल्पात् भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ ३ ॥ ४ ॥

॥ ३ ॥ ४ ॥

छान्दोग्योपनिषत्खण्डार्थः

क्लृप्तान् सङ्कल्पाधिष्ठितान् ध्रुवान् प्रतिष्ठितान्, अव्यथमानान् व्यथाशून्यान् लोकान् ध्रुवः प्रतिष्ठितोऽव्यथमानः अभिसिद्ध्यति प्राप्नोति, सङ्कल्पस्य मित्रस्य यावद्गतं यावती व्याप्तिः । सङ्कल्पात् मित्रात् तत्समानदेवेभ्यश्च भूयोऽस्ति किमित्यर्थः ॥ ३ ॥

॥ इति चतुर्थः खण्डः ।।

अथ पञ्चमः खण्डः

निषत्

( सङ्कल्पाभिमानिमित्राच्चित्ताभिमान्यग्रेरुत्तमत्वनिरूपणम् )

चित्तं वाव सङ्कल्पाद् भूयो यदा वै चेतयतेऽथ सङ्कल्पयतेऽथ मनस्यत्यथ वाचमीरयति तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

चित्तम् अस्थिरस्मृतिरूपचित्तमानी होमकुण्डे चितत्वहेतुना चित्त- नामाऽग्निः तत्समानौ भृगुप्रसूती चेति देवतात्रयं सङ्कल्पात् मित्रात् तत्समेभ्यो निरृतिताराप्रावहीरूपदेवेभ्यश्च भूयः श्रेष्ठम् | उपलक्षणमेतत् । मरीच्यत्र्यङ्गिरःपुलस्त्यपुलहक्रतुवसिष्ठविश्वामित्रवैवस्वतमनुभ्यो मित्रादि- देवचतुष्टयादुत्तमेभ्योऽपि भूय इति ज्ञेयम् । वावेत्यवधारणे । यदा पुमान् चित्तमानि प्रेरितश्चेतयते कर्तव्याकर्तव्यं जानाति । अथानन्तरं सङ्कल्पतेइदं कर्म करोमि' इत्यादिरूपेण सङ्कल्पं मनोवृत्तिविशेषं करोति । अथ मनस्यति मनः प्रेरयति । शिष्टं प्राग्वत् ॥ १ ॥

निषत्

तानि ह वा एतानि चित्तैकायनानि चित्तात्मकानि चित्ते प्रतिष्ठितानि तस्माद् यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुर्यदयं वेद यद्वा अयं विद्वान्नेत्थमचित्तः स्यादित्यथ यद्यल्पवित् चित्तवान् भवति तस्मा एवोत शुश्रूषन्ते चित्तं ह्येवैषामेकायनं चित्तमात्मा चित्तं प्रतिष्ठा चित्तमुपास्स्वेति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

तानि हवा एतानि चेतनाचेतनरूपसङ्कल्पादीनि चित्तैकायनानि अग्निभृगुप्रसूतिरूपदेवतात्रयाधीनानि । चित्तात्मकानि चित्तप्रधानान १.प्रसूतिस्तु दक्षप्रजापतिभार्या ।तस्मात् सङ्कल्पादेश्चित्ताधीनत्वाद् यद् यदि । बहुविदपि बहुज्ञोऽपि अचित्तः स्मरणहीनश्चेद् भवति । एनमनुभूतमस्मरन्तं पुरुषम् अयं नास्तीत्याहुः । अविद्यमानप्रार्थमेवाऽहुर्जनाः । पुनर्जनोक्तिप्रकारमाह यदिति । यद् यदि अयं वेद सामान्यतो जानाति, यदि वा विद्वान् विशेषतो जानीयात् तर्हि इत्थमचित्तः स्मरणहीनः न स्यादिति चाहुरित्यर्थः । अथेत्यर्थान्तरे । यद्यल्पविदपि चित्तवान् स्मृतिमान् भवति । तस्मात् पुरुषात् । एतत् स्वस्वाभिमतं प्रमेयं शुश्रूषन्ते श्रोतुमिच्छन्ति जनाः । उपसंहरति- चित्तं ह्येकायनं चित्तमानित्रयं मुख्या-श्रयः, सङ्कल्पमनः प्रभूतेरित्यर्थः । चित्ताधीनसङ्कल्पादिमत्त्वादात्मा चेतनश्चित्तमित्युच्यते । चित्तं प्रतिष्ठा मुक्तावाश्रयः । चित्तमुपास्स्वेति अग्न्यादित्रये ब्रह्मोपास्स्वेत्यर्थः ॥२॥

निषत्

स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिद्ध्यति यावत् चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्तेऽस्ति भगवश्चित्ताद्भूय इति चित्ताद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ ३ ॥ ५ ॥

छान्दोग्योपनिषत्खण्डार्थः

चित्तान् लोकान्, अग्न्याद्यधिष्ठितान् लोकान् । शिष्टं व्यक्तम् ॥ चित्ताद्वावेति ।। अग्निभृगुप्रसूतिभ्यः भूयोऽस्ति किमित्यर्थः ॥ ३ ॥ ५ ॥ ॥ इति पञ्चमः खण्डः ।।

अथ षष्ठः खण्डः

निषत्

(चित्ताभिमान्यनेर्ध्यानाभिमानिवरुणस्याऽधिक्यकथनम् )

ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीव द्यौर्ध्यायतीवान्तरिक्षं ध्यायन्तीवापो ध्यायन्तीव पर्वता ध्यायन्तीव देवमनुष्यास्तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादांशा इवैव ते भवन्त्यथ येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो ध्यानापादांशा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ १ 

छान्दोग्योपनिषत्खण्डार्थः

।। ध्यानमिति !| ध्यानमानी सत्यानृतविवेचनार्थं ब्रह्मणा निहितत्व-हेतुना ध्याननामा वरुणः चित्तात् चित्तशब्दिताग्निभृगुप्रसूतिरूप-देवता-त्रयाद् भूयः श्रेष्ठः । उपलक्षणमिदम् । अग्न्यादित्रयादुत्तमान्नारदाद् भूय इति ज्ञेयम् । ध्यानात्मनो वरुणस्य महिमानमाह - ध्यायतीवेति । पृथिव्यादयः सर्वे चेतनाः ध्यायन्तीव भगवद्ध्यानपरा एव तिष्ठन्ति । ध्यानस्य भूयस्त्वादेवेति भावः । इवशब्दोऽस्वातन्त्र्यद्योतकः । न बहुभाषिण इति वा एके पृथिव्यादयो जडा: । निश्चलत्वाद् ध्यायन्तीवेत्यर्थं इत्याहुः । मनुष्यतां प्राप्ता देवा देवमनुष्याः । ते ध्यायन्तीव, न बहुभाषिण इत्यर्थः । तस्माद् ध्यानस्य भूयस्त्वादेव इह लोके ये जनाः मनुष्याणां मध्ये महत्तां ज्ञानबलैश्वर्यादिभिर्महत्त्वं प्राप्नुवन्ति ते जनाः ध्यानापादांशा इव, ध्यानस्य आपद्यत इत्यापादः ध्यानसम्पाद्यफलम्, तस्यांशः । ध्याना - पादस्यांशो येषां ते ध्यानापादांशा इति व्यधिकरणबहुव्रीहिः । ध्यानापादांश एषामस्तीति ध्यानापादांशा इति अर्शआद्यच्प्रत्ययान्तो वा इवशब्दोऽस्वातन्त्र्यद्योतकः । इदानीं जनेषु दृश्यमानमहत्त्वं पूर्वकृत- ध्यानजन्यफलैकदेश इत्यर्थः । साधने फले च भगवानेव स्वतन्त्र इति भावः । अथ ये अल्पाः ज्ञानवलैश्वर्यादि- हीनतया वर्तन्ते, ते कलहिनः कलहवन्तः, पिशुनाः राजादौ परवित्तादि - वाचकाः, उपवादिनः परदोषानुवादकाः भवन्तीत्यर्थः । न तु ध्यानलेशभागिन इति भावः । अथ ये प्रभवः प्रबुभूषवः भूतिमन्तो भवामेतीच्छवः ते ध्यानापादांशा इवैव भवन्ति ध्यानानुष्ठानेन तज्जन्यफलैकदेशभागिनो भवन्तीत्यर्थः । एवं ध्यान -माहात्म्यमुक्त्वा कर्तव्यमाहध्यानमिति ॥ ध्यानमानिनि वरुणे ब्रह्मोपास्स्वेत्यर्थः ॥ १ ॥

निषत्

स यो ध्यानं ब्रह्मेत्युपास्ते यावत् ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाद् भूय इति ध्यानात् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥६॥

छान्दोग्योपनिषत्खण्डार्थः

।। यावद्ध्यानस्येति ।। ध्यानमानिनो वरुणस्येत्यर्थः ॥ २ ॥ ६ ॥

।। इति षष्ठः खण्डः ||

अथ सप्तमः खण्डः

निषत्

( ध्यानाभिमानिवरुणाद् विज्ञानाभिमानिचन्द्रस्य श्रेष्ठतावर्णनम् )

विज्ञानं वाव ध्यानाद्भूयो विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवांश्च मनुष्यांश्च पशूंश्च वयांसि च तृणवनस्पतीन् श्वापदान्याकीटपतङ्गपिपीलिकं धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

॥ विज्ञानमिति ।। विज्ञानमानी सत्यस्य विवेचनहेतुना विज्ञाननामा चन्द्रः तत्समौ सूर्ययमौ स्वायम्भुवमनुपत्नी शतरूपा चेति तिस्रो देवता ग्राह्याः। विज्ञानादिचतुष्टयं ध्यानाद् वरुणाद् भूयः । तस्य महिमानमाह - विज्ञानेनेति ।। शिष्टं प्राग्वत् । हृदयं भगवन्तम् । अहृदयं भगवतोऽन्यत् ।। विज्ञानमुपास्स्वेति ॥ विज्ञानशब्दितचन्द्रादिचतुष्टये ब्रह्मोपास्स्वेत्यर्थः ।। १ ।।

निषत्

स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानवतो वै स लोकान् ज्ञानवतोऽभिसिद्ध्यति यावद् विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्तेऽस्ति भगवो विज्ञानाद् भूय इति विज्ञानाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥७॥

छान्दोग्योपनिषत्खण्डार्थः

विज्ञानवतः चन्द्राद्यधिष्ठितलोकान् विज्ञानादिति ॥ विज्ञानशब्दितचन्द्रसूर्यधर्मशतरूपाख्यदेवताचतुष्टयाद् भूयोऽस्ति किमित्यर्थः ॥ २ ॥

॥ इति सप्तमः खण्डः ।।

अथ अष्टमः खण्डः

निषत्

( विज्ञानाभिमानिचन्द्राद् बलाभिमानिप्रवहस्योत्तमत्वकथनम् )

बलं वाव विज्ञानाद्भूयोऽपीह शतं विज्ञानवतामेको बलवानाकम्पयते स यदा बली भवत्यथोत्थाता भवत्युत्तिष्ठन् परिचरिता भवति परिचरन्नुपसत्ता भवत्युपसीदन् द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेनापो बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलिकं बलेन वै लोकस्तिष्ठति बलमुपास्स्वेति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

।। बलमिति । बलं द्विविधं युक्तिजन्यनिर्णयवत्त्वरूपमान्तरं बलं देहदार्द्यादिरूपं बाह्यबलं चेति । तद्विविधबलमानी बलनामा भूतवायुः प्रवहः विज्ञानाद् विज्ञानशब्दितचन्द्रादिचतुष्टयाद् भूयः । भूयस्त्वं व्यनक्ति - अपीति ॥ विज्ञानवतां शतमप्येको युक्तिजन्यनिर्णय-रूपान्तरबलवान् आकम्पयते कम्पमानान् करोति । स पुमान् यदा बली युक्तिज्ञतारूपान्तरबलवान् अथ तदा संसारादुत्थाता उद्गतो भवति । यदि देहादिबाह्यबलवान् तर्हि कर्मकरणाद्यर्थं उत्थितो भवति । उत्तिष्ठन् उ एव परिचरिता गुर्वादिपरिचर्याकर्ता भवति । परिचरंश्च उपसत्ता, तृजन्तोऽयम्, उपसत्तिकर्ता भवति । उपसीदंश्च तेभ्यः भगवन्तं श्रोता मन्ता बोद्धा द्रष्टा भवतीति यथायोगं पौर्वापर्येण योजना । कर्ता वर्णाश्रमोचितधर्मानुष्ठाता तेन च विज्ञाता विशेषज्ञाता भवति । बलमानिनो महिमान्तरमाह - बलेनेति । बलशब्दितभूतवायुमानिना प्रवहेण तदभिमन्यमानस्वबलेनेति वा पृथिव्यादयस्तिष्ठन्तीत्यर्थः । देवा मनुष्यतां प्राप्ताः देवमनुष्याः || आकीटेति ॥ कीटपतङ्गपिपीलिकापर्यन्तं तिष्ठन्तीति यथायोगं विभक्तिविपरिणामेन सर्वत्रान्वेति बलमिति ।। बलमानिनि प्रवहे ब्रह्मोपास्स्वेत्यर्थः ।। १ ।।

निषत्

स यो बलं ब्रह्मेत्युपास्ते यावद् बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्तेऽस्ति भगवो बलाद् भूय इति बलाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ८ ॥

छान्दोग्योपनिषत्खण्डार्थः

बलस्य बलमानिनः प्रवहस्य ॥ २ ॥

।। इति अष्टमः खण्डः ।।

अथ नवमः खण्डः

निषत्

( बलाभिमानिप्रवहाद् अन्नाभिमान्यनिरुद्ध उत्तमः )

अन्नं वाव बलाद् भूयस्तस्माद्यद्यपि दशरात्रीर्नाश्नीयाद्यदु ह जीवेऽथवाऽद्रष्टाऽश्रोताऽमन्ताऽबोद्धाऽकर्ताऽविज्ञाता भवत्यथान्नस्याशी द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवत्यन्नमुपास्स्वेति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

|| अन्नमिति । एतदपि ज्ञानजन्यरतिरूपमान्तरमन्नं प्रसिद्धं बाह्यमन्नं चेति द्विविधम् । द्विविधान्नमानी अनुनादित्वहेतुनाऽन्ननामा अनिरुद्धः बलाद् द्विविधबलात् प्रवहाद् भूयः श्रेष्ठः । तत्र युक्ति- ज्ञत्वरूपान्तरबलमानिरूपादान्तरान्नमान्यनिरुद्धरूपं भूयः । देहदाढर्धा- दिरूपबाह्यबलरूपाद् बाह्यान्नं भूय इति विवेक: । एतच्चोपलक्षणम् । अनिरुद्धसमाः स्वायम्भुवमनु- बृहस्पति-दक्ष- शची-रतयः पञ्च, अनिरुद्धश्चेति षडपि देवाः बलाख्यप्रवहाद् भूयांस इति ज्ञेयम् । अन्नस्य महिमानमाह तस्मादिति ।। बलादन्नमानिनो भूयस्त्वात् । यद्यपि दशरात्रीर्नाश्नीयाद् यदि जीवेत् प्राणान् बिभृयात् । उह् चेत् जीवेच्चेत् अथ तर्हि अद्रष्टेत्यादि | अन्नाशनाभावे श्रवणादिकं किमपि न भवेदेवेत्यर्थः । व्यतिरेकमुक्त्वाऽन्वयं चाऽह अथेति । अन्नस्याशी भोक्ता द्रष्टा भवतीत्यादि ।। अन्नमुपास्स्वेति ॥ अन्नमान्यनिरुद्धे तत्समेषु स्वायम्भुवादिपञ्चसु च ब्रह्मोपास्स्वेत्यर्थः ॥ १ ॥

निषत्

स योऽन्नं ब्रह्मेत्युपास्तेऽन्नवतो वै स लोकान् पानवतोऽभिसिद्ध्यति यावत् अन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्तेऽस्ति भगवोऽन्नात् भूय इति अन्नात् वाव भूयोस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ९ ॥

छान्दोग्योपनिषत्खण्डार्थः

अन्नवतः अन्नमान्यधिष्ठितलोकान् । यद्वा अन्नपानादिभोगवतो लोकानित्यर्थः । अन्नाद् अनिरुद्धादिदेवताषट्काद् भूयोऽस्ति किमित्यर्थः ॥ २ ॥

॥ इति नवमः खण्डः ॥

अथ दशमः खण्डः

निषत्

( अन्नाभिमान्यनिरुद्धाद् अबभिमान्याहङ्कारिकः प्राण उत्तमः )

आपो वावान्नाद् भूयस्यस्तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीत्यथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीत्याप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्द्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलिकमाप एवेमा मूर्ता अप उपास्स्वेति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

|| आपो वावेति । आपोऽपि ज्ञानरत्या जायमानविषयालम्बुद्धि- रूपतृप्तिलक्षणान्तरा आपो द्रवरूपा वाह्या आपश्चेति द्विविधाः । तदुभयमानी देहमाप्नोति व्याप्नोतीति अपशब्दित आहङ्कारिकप्राणः अन्नाद् अन्नशब्दोपात्तादनिरुद्धादिषट्काद् भूयस्यः श्रेष्ठः । अत्राप्यान्तरान्नाद् ज्ञानजन्यरतिरूपाद् आन्तराः विषयालम्बुद्धिरूपतृप्तिलक्षणा आपः श्रेष्ठाः । बाह्यान्नाद् बाह्याः द्रवरूपा आपः श्रेष्ठा इति विवेकः । अम्मानिनः प्राणवायोः व्यतिरेकान्वयाभ्यां महिमानमाह । तस्माद् अन्नादपि श्रेष्ठत्वाद् अपां यदा यदि सुवृष्टिर्न भवति तर्हि प्राणाः, प्राणन्ति चेष्टन्त इति प्राणाः, प्राणिनः कनीयः स्वल्पमन्नं भविष्यतीति व्याधीयन्ते विशिष्टाधियुक्ता भवन्ति । मनोव्यथावन्तो भवन्तीत्यर्थः । अथ सुवृष्टिर्भवति बन्नं भविष्यतीति आनन्दिनः मोदमाना भवन्ति । आप एव मूर्ताः । मूर्ताः पदार्थाः । अवभिमान्यधीनत्वादाप एवेत्युच्यन्ते येयमित्यादिना आप एवेमा मूर्ती इत्यन्तेन ।। मूर्तानां वस्तूनामब्जन्यत्वादिनाऽऽप एवेत्युच्यन्त इत्युच्यते । इमा आप एव मूर्ता : पदार्था इत्यर्थः । अप उपास्स्वेति ।। अपशब्दितप्राणे ब्रह्मोपास्स्वेत्यर्थः ॥ १ ॥

निषत्

स योऽपो ब्रह्मेत्युपास्ते आप्नोति सर्वान् कामान् तृप्तिमान् भवति यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो ब्रह्मेत्युपास्तेऽस्ति भगवो अद्भ्य भूय इति अद्भ्यो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ १० ॥

छान्दोग्योपनिषत्खण्डार्थः

अद्भ्यः आहङ्कारिकप्राणात् ॥२॥

।। इति दशमः खण्डः ।।

अथ एकादश: खण्ड:

निषत्

( अबभिमान्याहङ्कारिकप्राणात् तेजोभिमानी पुरन्दर उत्तमः )

तेजो वावाद्भ्यो भूयस्तद्वा एतद्वायुमागृह्याकाशमभितपति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाऽथापः सृजते तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युदि्भराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते तेज उपास्स्वेति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

॥ तेज इति ॥ तेजोऽपि प्रातिभाव्यमान्तरं, बाह्यं चेति द्विविधम् । तदुभयमानी ओजोरूपत्वेन तेजः शब्दितः पुरन्दरेन्द्रस्तत्समः कामश्चाद्भयः प्राणाद् भूयः श्रेष्ठः । तत्राऽन्तरात् अप्शब्दिताद् ज्ञानरतिजन्यतृप्तिरूप- विषयालम्बुद्धिरूपान्तरं प्रातिभाव्यं तेजो भूयः । बाह्यद्रवरूपाद्भयो बाह्यं जरूपं तेजो भूय इति विवेकः । तेजः शब्दितपुरन्दरस्य महिमानमाह - तद्वा एतत् तेजः वायुमागृह्यावष्टभ्य निश्चलीकृत्येति यावत्, आकाशमभितपति आकाशं व्याप्य तपति, घर्मरूपतापं जनयति तदा जना आहुः । किमिति ? निशोचति नितपति वर्षिष्यति वै इत्याहुरित्यन्वयः । निशोचति नितपतीत्यनयोर्बाह्यान्तरतापभेदेन वा सामान्यविशेषभावादिभेदेन वा भेदो ध्येयः । तेज एव पुरन्दर एव । तत् स्वस्वरूपं वायुस्तम्भादिकं पूर्वं दर्शयित्वा प्रदर्श्यपः सृजते । तदा एतद् एते आह्रादाः स्तनयित्नवः आह्रादका मेघाः ऊर्ध्वाभिस्तिर श्रीभिश्व विद्युद्भिः सह चरन्ति । यद्वा तदेतदिति पञ्चम्यर्थे । तदेतत् तस्मात् तेजः शब्दितपुरन्दरादाहादाः स्तनयित्नवः विद्युद्भिः चरन्तीति । तस्माद् विद्युद्भिः स्तनयित्नुचरणाद्धेतोर्विद्योतते स्तनयति वर्षिष्यतीत्याहुः । वै प्रसिद्धम् | तेज एव तद् विद्युदादिपूर्वं दर्शयित्वाऽथानन्तरमपः सृजते ।। तेज उपास्स्वेति ।। तेजःशब्दिते पुरन्दरे कामे च ब्रह्मोपास्स्वेत्यर्थः ॥ १ ॥

निषत्

स यस्तेजो ब्रह्मेत्युपास्ते तेजस्वी वै स तेजस्वतो लोकान् भास्वतोऽपहततमस्कानभिसिद्ध्यति यावत् तेजसो गतं तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्तेऽस्ति भगवो तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ ११ ॥

छान्दोग्योपनिषत्खण्डार्थः

शिष्टं प्राग्वत् । तेजस्वतो भास्वत इत्यनयोरवान्तरभेदेनापौनरुक्त्यं ज्ञेयम् । अत एवापहततमस्कानित्यर्थः

।। २ ।। ११ ।

॥ इति एकादश: खण्ड: ।।

अथ द्वादश: खण्ड:

निषत्

( तेजोभिमानिपुरन्दरादाकाशाभिमान्युमाया उत्तमत्वनिरूपणम् )

आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निराकाशेन आह्वयत्याकाशेन शृृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशेन रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

|| आकाश इति ॥ आकाशोऽपि स्थिरप्रातिभरूपान्तरः छिद्रात्मको बाह्यश्चेति द्विविधः । तदुभयमानिनी दीप्तत्वादाकाशनाम्नी उमादेवी । तत्समभूते सौपर्णी वारुणी चेत्येतत् त्र्यं तेजस: तेजः शब्दोक्तेन्द्रकामाभ्यां भूयान् श्रेष्ठः । तत्राऽन्तरचञ्चलप्रातिभाख्यात् तेजस आन्तरस्थिर- प्रातिभाख्यः आकाशः श्रेष्ठः । बाह्यतेजसो बाह्याकाश इति ध्येयम् । आकाशाख्यदेवीनां महिमानमाह-- आकाशो वै सूर्याचन्द्रमसावि- त्यादि ॥ तदधीनत्त्वहेतुना राजा राष्ट्रमितिवदयमभेदव्यपदेशः । किञ्च सर्वोऽपि व्यापारः आकाशायत्त इत्याहआकाशेनाऽह्वयतीत्यादि ॥ श्रुतवतोक्तं वचनं वक्ताऽन्यः प्रतिशृणोति । आकाशमभिजायते पुत्रपौत्रादि || आकाशमुपास्स्वेति । आकाशशब्दिते देवीत्रये ब्रह्मोपा-स्स्वेत्यर्थः ॥ १ ॥

निषत्

स य आकाशं ब्रह्मेत्युपास्ते आकाशवतो हवै स लोकान् प्रकाशवतोऽसम्बाधानुरुगायवतोऽभिसिद्ध्यति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगवो आकाशाद्भूय इति आकाशाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ १२ ॥

छान्दोग्योपनिषत्खण्डार्थः

आकाशवतः आकाशमान्यधिष्ठितलोकानवकाशयुक्तलोकानिति वा । आकाशाद् आकाशपदोपात्तदेवीत्रयाद् भूयोऽस्ति किमित्यर्थः । अत्र बलान्नाप्तेजआकाशानां द्विविधानां मध्ये बाह्येषु चोत्तरोत्तराणां पूर्वकारणत्वमान्तरेषु चोत्तरोत्तरं प्रति पूर्वस्य व्यञ्जकत्वरूपकारणत्वं ज्ञेयम् ॥ २ ॥

।। इति द्वादश: खण्ड: ।।

अथ त्रयोदशः खण्डः

निषत्

(आकाशाभिमान्युमायाः सकाशात् स्मरणाभिमानी रुद्र उत्तमः )

स्मरो वा आकाशाद्भूयांस्तस्माद्यद्यपि बहव आसीरन्नस्मरन्तो नैव ते कञ्चन शृणुयुर्न मन्वीरन्न विजानीरन् यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन् स्मरेण वै पुत्रान् विजानाति स्मरेण पशूं स्मरमुपास्स्वेति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

|| स्मर इति । अच्छिद्रस्मृतिरूपस्मरमानी सममेकप्रकारं रमत इति स्मरनामा शिवः, तत्समौ सुपर्णशेषौ चेति त्रयः आकाशादुमादेः भूयान् श्रेष्ठाः । एतदुपलक्षणम् । उमादिदेवीत्रयादाकाशशब्दिताद् भूयसो जाम्बवत्यादिदेवीषट्कादपि भूयान् स्मरः शिवादिरिति ज्ञेयम् । तस्य महिमानमाहतस्मादित्यादिना । तस्मादाकाशादितो भूयस्त्वा - देवोक्तरूपस्मरस्य । यद्यपि यदि बहव एकत्राऽसीरन्नपि उपविशेयुः ते प्रागनुभूतमस्मरन्तः श्रवणमननविज्ञानहीना एव भवन्ति, यदा वा ते एकत्र मिलिताः प्राग् ज्ञातं स्मरेयुरथ तर्हि श्रवणादिमन्तो भवेयुरित्यर्थः । स्मरेण स्मृत्या ममैते पुत्राः पशव इति पुत्रान् पशून् जानाति स्मरमिति ॥ स्मरशब्दिते शिवादिदेवत्रये ब्रह्मोपास्स्वेत्यर्थः ।। १ ।।

निषत्

स यः स्मरं ब्रह्मेत्युपास्ते यावत् स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवो स्मराद् भूय इति स्मराद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥१३॥

छान्दोग्योपनिषत्खण्डार्थः

स्मरात् स्मरशब्दितदेवतात्रयात् ॥२॥

।। इति त्रयोदशः खण्डः ।।

अथ चतुर्दशः खण्डः

निषत्

(स्मरणाभिमानिरुद्रादाशाभिमानिभारत्याः श्रेष्ठ्यकथनम् )

आशा वाव स्मराद् भूयस्याशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्रांश्च पशूंश्चेच्छत इमं च लोकममुं चेच्छत आशामुपास्स्वेति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

॥ आशेति ।। आसमन्तात् शं सुखं यस्या इति व्युत्पत्त्या पूर्णसुखरूपतयाऽशानाम्नी आशामानिनी भारती, तत्समा सरस्वती च स्मरात् स्मरशब्दितदेवत्रयाद् भूयसी सर्वगुणै: श्रेष्ठा । इयं च प्राणिनामीश्वरापरोक्षज्ञानस्वामिनी । तस्याः महिमानमाह - आशेद्धो वा इति ।। आशेद्धः मन्त्रानधीयीयेति आशया समृद्धः स्मरः स्मृतिमान् भवति । अथानन्तरमधीते । कर्माणि कुर्वीयेति आशयेद्धः स्मरः स्मृति- मान् । अथ कर्म कुरुते । इच्छेयेति आशेद्धः स्मरः स्मृतिमानिच्छते इत्यर्थो ज्ञेयः । आशाम् आशाशब्दितभारतीसरस्वत्योर्ब्रह्मोपास्स्वेत्यर्थः ॥ १ ॥

निषत्

स य आशां ब्रह्मेत्युपास्ते आशायास्य सर्वे कामाः समृध्यन्त्यमोघा हास्याऽऽशिषो भवन्ति यावद् आशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्युपास्तेऽस्ति भगवो आशाया भूय इति आशाया वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ १४ ॥

छान्दोग्योपनिषत्खण्डार्थः

आशया आशादेवीप्रसादेनेति यावत् ॥ २ ॥

।। इति चतुर्दशः खण्डः ।।

अथ पञ्चदशः खण्डः

निषत्

( आकाशाभिमानिभारत्याः सकाशात् स्वरूपानन्दाभिमानी प्राण उत्तमः )

प्राणो वा आशाया भूयान् यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितं प्राणः प्राणेन याति प्राणः प्राणं ददाति प्राणाय ददाति प्राणो ह पिता प्राणो माता प्राणो भ्राता प्राणः स्वसा प्राण आचार्यः प्राणो ब्राह्मणः ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

॥ प्राण इति ॥ प्रकृष्टसुखरूपस्वरूपानन्दलक्षणमुक्त्यभिमानी मुख्यवायुर्ब्रह्मा चाऽऽशायाः भारत्यादिदेवीद्वयात् श्रेष्ठः । उपासकवर्गेऽयमेवोत्तम इत्यर्थः । तदाह सूत्रेइयदामननात्' (व्र.सू. ३.३.३५) इति । तस्य महिमानमाहयथा वा इति ।। रथनाभौ रथचक्रे अराः यथा समर्पिताः सम्प्रोताः, एवमेतस्मिन् प्राणे सर्वं जगत् समर्पितं सम्प्रोतम् । प्राणः मुख्यवायुः प्राणेन हरिणा याति । प्राणः हरिः प्राणं वायुं प्रत्यभीष्टं ददाति । यद्वा, प्राणो वायुः प्राणं भगवन्तं ददाति शिष्येभ्य उपदिशतीत्यर्थः । प्राणाय हरये ददाति मुक्तौ हरिं प्रापयति भक्तानिति यावत् । मातापित्रादिसर्वजीवनहेतुतया सर्वत्र सन्निहितत्वमहिमानमाह (१) । प्राणो वै पिता तज्जीवनहेतुतया तत्र स्थितत्वात् पितेत्युच्यते । एवमग्रेऽपि ॥ १ ॥

निषत्

( मातापित्रादिषु प्राणोपासना)

स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाऽऽचार्यं वा ब्राह्मणं वा किञ्चिद्भृशमिव प्रत्याह धिक्त्वाऽस्त्वित्येवैनमाहुः पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ २ ॥

छान्दोग्योपनिषत्खण्डार्थः

अन्वयव्यतिरेकाभ्यामुक्तमेव व्यक्ति-स यदीति । किञ्चिदिति ॥ मुख्यवायुसन्निधियुतं पित्रादिकं प्रति किञ्चिद् भृशमिव निष्ठुरतया प्रत्याह निराकरोति । तदा एनं प्रत्याचक्षाणं निराकुर्वाणं प्रति त्वा त्वां धिग् दहेत्, यद्वा धिग् अस्तु अभद्रमस्तु तवेत्याहुर्जनाः । कुत आहुरित्यतो हेतुमाह - पितृहा वै त्वमसीति ॥ इतिशब्दः सर्वत्र हेत्वर्थः॥२॥

निषत्

अथ यद्यप्येनानुत्क्रान्तप्राणाञ्च्छूलेन समासं व्यतिषन् दहेन्नैवैनं ब्रूयुः पितृहाऽसीति न मातृहा असीति न भ्रातृहा असीति न स्वसृहाऽसीति नाचार्यहाऽसीति न ब्राह्मणहाऽसीति ॥ ३ ॥

छान्दोग्योपनिषत्खण्डार्थः

अथेत्यर्थान्तरे । एनान् पित्रादीन् । उत्क्रान्तप्राणान् उत्क्रान्तः प्राणो येभ्यस्त इति बहुव्रीहिः । मुख्यप्राणेन त्यक्तदेहान् समासेन सङ्कोचेन एकैकावयवेन दहेत् । व्यतिषं विलुण्ठ्य सामस्त्येनेति यावत् । शूलेव दहेत् कश्चित् । शिष्टं व्यक्तम् ॥ ३ ॥

निषत्

प्राणो ह्येवैतानि सर्वाणि भवति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति तं चेद्ब्रूयुरतिवाद्यसीत्यतिवाद्यस्मीत्येव ब्रूयान्नापह्नुवीत ॥ ४ ॥ १५ ॥

छान्दोग्योपनिषत्खण्डार्थः

उपसंहरति प्राणो ह्येवैतानीति ॥ पित्रादीनि सर्वाणि । तदायत्तजीवनत्वात् ताच्छन्द्यम् । स प्रसिद्ध एष अधिकारी कश्चिदेवम् उक्त दिशा प्राणमाहात्म्यश्रवणमननविज्ञानवान् अतिवादी सर्वातिशायि- भूतवस्तुवादी भवति । तं चेद् ब्रूयुः अतिवाद्यसीति अतिवाद्यस्मीति ब्रूयात् नापह्नुवीत नापलपेदित्यर्थः । अत्र पूर्वपूर्वेभ्य उत्तरोत्तरेषामुत्तमत्वे हेतुः 'बाह्याद्भ्यो बाह्यमनं च' इत्यादिभाष्यादवसेयम् ( १ ) |

आधिक्ये परिमाणं च सर्वे त्वेते दशोत्तराः । पर्जन्यमित्रशिखिनो भूतवायुस्तथैव च ।

द्विगुणा एवानिरुद्धोऽनिलात् पञ्चगुणाधिकः " इत्यादिभाष्याद् ज्ञेयम् ॥ ४ ॥

।। इति पञ्चदशः खण्डः ।।

अथ षोडशः खण्डः

निषत्

( मुख्यप्राणादपि विष्णुरुत्तमः )

एष तु वा अतिवदति यः सत्येनातिवदति सोऽहं भगवः सत्येनातिवदानीति सत्यं त्वेव विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ।। १ ।। १६ ।।

छान्दोग्योपनिषत्खण्डार्थः

किमयमेव सर्वोत्तमः ? इत्यत उपासकवर्गेऽस्य सर्वातिशायित्वं उपास्यस्तु सर्वश्रेष्ठोऽन्योऽस्तीत्याह-एष त्विति ।।

तुशब्दोऽर्थान्तरवाची । यः सत्येन निर्दोषत्वनियामकत्वहेतुभ्यां सत्य- नामकेन हरिणा योऽतिवदति सत्याख्यं ब्रह्मैव सर्वातिशायीति वदति । एष तु वा अतिवादी अतिशयितवस्तुवादी । वै प्रसिद्धमेतत् । नाभवागादिपूर्वतनप्रकरणेष्विवात्र प्रश्नप्रतिवचनयोरश्रवणेऽप्यर्थान्तर- वाचिना तुशब्देन पूर्वप्रकरणविच्छेदसूचनेन 'अस्ति भगवः प्राणाद् भूयः ' इति प्राणाद्वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति सत्यं वावप्राणाद् भूय इति प्रश्नप्रतिवचनयोरध्याहार्यत्वादिति भावः । तदाह सूत्रे 'व्यतिहारो विशिषन्ति हीतरवत्' (ब्र.सू. ३.३.३८) इति । हे भगवो नारद ! सोऽहं सत्येनातिवदामि सत्याख्यं ब्रह्मैव सर्वातिशायीति वदामि । सत्यं त्वेव विजिज्ञासितव्यमित्युवाच कुमार इत्यर्थः । सत्यं सत्यनामकमहं विजिज्ञासे ज्ञातुमिच्छामीति नारदः । अत्र प्रकरणे तुशब्दः सोपपत्तिकमेव सत्यं विजिज्ञासितव्यमित्यादिरूपविशेषद्योतको न पूर्वत्रेवार्थान्तरद्योतक इति ज्ञेयम् । तदाह सूत्रे -सैव हि सत्यादयः' (ब्र.सू. ३.३.३९) इति । कुतो हेतोर्निर्दोषो नियामकश्च सन् सत्यनामा हरिः तं हेतुभूतं गुणं ज्ञातुमिच्छामीति प्रश्नाभिप्रायः ॥ १६ ॥

।। इति षोडशः खण्डः ॥

अथ सप्तदशः खण्डः

निषत्

(भगवान् सत्यज्ञानादिगुणपरिपूर्णः )

यदा वै विजानात्यथ सत्यं वदति नाविजानन्त्सत्यं वदति विजानन्नैव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ।। १ ।। १७ ।।

छान्दोग्योपनिषत्खण्डार्थः

स्वपरगताशेषविषयकज्ञानवत्त्वादुक्तरूपसत्यमासीदिति भावेन लोके विज्ञानसत्यवचनयोर्हेतुहेतुमद्भावमाह सनत्कुमारः - यदेति ॥ अन्वय- व्यतिरेकावुक्त्वा निगमयति - विजानन्नेवेति ॥ एवमग्रेऽपि । विज्ञानं त्वेवेति सोपपत्तिकं विज्ञानगुणात्मकत्वं सत्यनाम्नो हरेर्विजिज्ञासितव्य- मित्यर्थः । उक्तरूपविज्ञानवत्त्वं भगवतः केन गुणेन ? तं हेतुभूतं गुणं ज्ञातुमिच्छामीति भावेन पृच्छति विज्ञानं भगवो विजिज्ञास इति ॥ | ||

।। इति सप्तदश: खण्ड: ।।

अथ अष्टादश: खण्ड:

निषत्

( मननविज्ञानयोर्हेतुहेतुमद्भावनिरूपणम् )

यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति ।। १ ।। १८ ।।

छान्दोग्योपनिषत्खण्डार्थः

अशेषमन्तृत्वादेव सत्यनामा हरिर्विज्ञातेति भावेन मननविज्ञानयोर्हेतु- हेतुमद्भावमाह - यदा वा इति । मतिस्त्वेव मननगुणवत्त्वमेव सत्यस्य हरः सोपपत्तिकं विजिज्ञासितव्यमित्यर्थः । मतिमिति ॥ मननगुणवत्त्वे हेतुं विजिज्ञास इति नारदः ।। १ ।।

।। इति अष्टादश: खण्ड: ।।

अथ एकोनविंशः खण्डः

निषत्

यदा वै श्रद्दधात्यथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ॥१॥ १९ ॥

छान्दोग्योपनिषत्खण्डार्थः

आस्तिकत्वात् मत्यात्मा सत्यो हरिरिति भावेन तयोर्हेतुहेतुमद्भावमाह - यदा वा इति । श्रद्दधाति आस्तिको भवति । शिष्टस्य प्रागिवार्थो ध्येयः । श्रद्धा त्वेवेति ॥ सहेतुकमास्तिकत्वम् । श्रद्धां श्रद्धा हेतुगुणम् ||||१९||

इति  एकोनविंशः खण्डः

अथ विंशः खण्डः

निषत्

यदा वै निस्तिष्ठत्यथ श्रद्धधाति नानिस्तिष्ठञ्छ्रद्दधाति निस्तिष्ठन्नेव श्रद्दधाति निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञस इति ।। १ ।। २० ।।

छान्दोग्योपनिषत्खण्डार्थः

सुस्थिरत्वादास्तिक इति भावेन तयोः कार्यकारणभावमाह - यदा वा इति ॥ निस्तिष्ठति स्थिरो भवति । निष्ठा त्वेव सुस्थिरत्वमेव । निष्ठां निष्ठाहेतुगुणम् ॥ १ ॥ इति विंशः खण्डः ॥

अथ एकविंशः खण्डः

निषत्

यदा वै करोत्यथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिस्त्वेव विजिज्ञासितव्येति कृतिं भगवो विजिज्ञास इति ।। १ ।। २१ ।।

छान्दोग्योपनिषत्खण्डार्थः

सर्वकर्तृत्वादेव स्थिरत्वमिति भावेन तयोः कार्यकारणभावमाह-यदा वा इति । कृतिस्त्वेव कर्तृत्वं सहेतुकमेव । कृतिमिति कर्तृत्वहेतुगुणम् ?) ।। १ ।। इति एकविंशः खण्डः ॥

अथ द्वाविंशः खण्डः

निषत्

यदा वै सुखं लभतेऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ।। १ ।। २२ ।।

छान्दोग्योपनिषत्खण्डार्थः

पूर्णसुखोद्रेकादेव कर्तृत्वमिति भावेन तयोर्हेतुहेतुमद्भावमाह-यदा वा इति ।। सुखमेवेति सुखोद्रिक्तत्वहेतुम् || || ।। ।। इति द्वाविंशः खण्डः ।।

अथ त्रयोविंशः खण्डः

निषत्

(पूर्णसुखात्मकत्वं भगवतो लक्षणम् )

यो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ॥ १ ।। २३ ।।

छान्दोग्योपनिषत्खण्डार्थः

पूर्णगुणत्वादेव पूर्णसुखत्वमिति भावेन तयोर्व्याप्तिमाहयो वै भूमेति । भूमपदस्य बहुत्ववाचित्वेऽपि भावभवित्रोरभेदेनेह पूर्णगुण- रूपधर्मिपरत्वं ज्ञेयम् । यो भूमा पूर्णगुणः, तद् वै स एव विधेयापेक्षया नपुंसकम् । स सुखं पूर्णसुखरूपः अल्पेऽपूर्णगुणे सुखं पूर्णसुखं नास्ति । तदाह सूत्रे – 'भूमा सम्प्रसादादध्युपदेशात्' (ब्र.सू.१.३.८) इति । सत्यत्वादिगुणसप्तकस्यापि भूमशब्दितपूर्णगुणत्वस्य मूलहेतुत्वात् तस्य महिमानं पृच्छति - भूमानं भगवो विजिज्ञास इति । अत्र 'सैव हि सत्यादयः' इति, ‘भूमा सम्प्रसादात्' इति - अधिकरणद्वयेन सत्यादीनां सर्वेषां परमात्मत्वंव्यतिहार:' इत्यधिकरणेन तु प्राणात् सत्याद्यात्मनो भूम्न उत्तमत्वं च प्रकरणभेदाश्रयेण सिद्धम् । भूमेति सूत्रे भाष्योक्तदिशा प्राणस्य सत्याद्यात्मनो भूम्रश्च ब्रह्मत्वमेवेत्यङ्गीकारपक्षे प्राणपदेन प्राणमविहायैतदन्तर्यामितया हरेर्ग्रहणात् प्राणादप्युत्तमत्वसिद्धिः । प्राणानुक्तिदोषश्च नेति ज्ञेयम् । अत्र यद्यपि तारतम्योक्तिप्रस्तावे प्राणादनन्तरं सत्यात् पूर्वं प्रश्नप्रतिवचनाभ्यां श्रीतत्वमपि वक्तव्यम् । तथाऽपि 'नामादयस्तु बद्धत्वान्मोचकत्वात् परोऽपि च उभयोरप्यभावेन यथाव्यक्तं न तूदितम्' इति 'कामात्' (ब्र.सू. ३.३.४०) इति सूत्रभाष्यांक्तदिशा तदनुक्त्याशयो ध्येयः ।। १ ।। २३ ।।

।। इति त्रयोविंशः खण्डः ।।

अथ चतुर्विंशः खण्डः

निषत्

( स्वातन्त्र्यनित्यमुक्तत्वे अपि भगवल्लक्षणे )

यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽथ यत्रान्यत् पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यं स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिमि्न यदि वा न महिम्नीति॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

भूम्नो महिमानमाहयत्रेति । यस्मिन् वस्तुनि ज्ञाते अन्यत्रान्यद् वस्तु स्वातन्त्र्येण न पश्यति न शृणोति न विजानाति तदधीनमेवेत्येव जानाति स भूमेत्यर्थः । एवं महिमा भूम्नोऽन्यत्र नेत्याह यत्रेति ॥ यस्मिन् दृष्टे श्रुते विज्ञाते चान्यदस्वातन्त्र्येण पश्यति शृणोति विजानाति च तदल्पं लक्ष्म्यादि जगत् । महिमान्तरमाहयो वै भूमेति । श्रीतत्वमल्पं चेदपि हरिप्रियत्वबलाद् अमृतमेवेति ज्ञेयम् । तदाह सूत्रे 'समना चासृत्युपक्रमादमृतत्वं चानुपोष्य' (ब्र.सू. ४.२.७) इति । नारदः पृच्छतिस इति ।। स भूमा कस्मिन् प्रतिष्ठित इति । उत्तरमाह - स्वे महिति । प्रतिष्ठित इत्यनुषङ्गः । यदि वा स्वे महिम्न न प्रतिष्ठित इत्युच्यते ॥ १ ॥

निषत्

गोअश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति नाहमेव ब्रवीमीति होवाचान्यो ह्यन्यस्मिन् प्रतिष्ठित इति ॥ २ ॥ २४ ॥

छान्दोग्योपनिषत्खण्डार्थः

तदा गोअश्वम् द्वन्द्वैकवद्भावः सर्वत्र । गवाश्वादिकं महिमेत्याचक्षते । इतिवदहमेवं न ब्रवीमीति तमुवाच सनत्कुमारः । अन्योऽज्ञोऽन्यस्मिन् गवाश्वादौ भिन्नमहिम्नि प्रतिष्ठित इतिवदहं न ब्रवीमि किन्तु स्वे महिम्नि प्रतिष्ठित इत्येव ब्रवीमीति तमुवाचेत्यर्थः ।। २ ।। इति चतुर्विंशः खण्डः ।।

।। इति चतुर्विंशः खण्डः ।।

अथ पञ्चविंशः खण्डः

निषत्

( सर्वत्र व्याप्तत्वमपि भगवल्लक्षणम् )

स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदं सर्वमिति ॥ १ ॥

छान्दोग्योपनिषत्खण्डार्थः

भूम्नः स्वमहिमप्रतिष्ठितत्वोपपादनाय सर्वव्यापित्वरूपमहिमानमाह-स एवेति ।। स एवेदं सर्वं जगद् व्याप्य स्थित इत्युपसंहारः । स एव भूमैव । सामीप्यादिदंनामा । सर्वं पूर्ण इति वार्थः । तदाह सूत्रे – 'धर्मोपपत्तेश्च' (ब्र.सू. १.३.९) इति ॥ १ ॥

निषत्

( भगवतः सर्वेष्वपि रूपेषु तल्लक्षणानि समानानि )

अथातोऽहङ्कारादेश एवाहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वमिति ।

अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वमिति स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवत्यथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति तेषां सर्वेषु लोकेष्वकामचारो भवति ॥ २ ॥ २५ ॥

छान्दोग्योपनिषत्खण्डार्थः

अहङ्काराख्यमात्माख्यं च रूपद्रयं क्रमेणाऽह - अथात इति ।। अथ योग्याधिकारिणः अतः फलवत्त्वात् । यद्वा, अथेति रूपान्तरे अस्त-त्प्रसादाद् अहमित्याक्रियत इत्यहङ्कारनाम्नो जीवस्थानिरुद्धाख्यस्य हरेरादेश उपदेश उच्यत इत्यर्थः । तस्य ब्रह्मरूपत्वख्यापनाय भूमलक्षणं तस्मिन्नाहअहमेवेति ॥ अथात इति ॥ अथेति रूपान्तरापेक्षया । अतस्तत्प्रसादाद् आत्मनो व्याप्तस्य हरेरादेश उपदेश उच्यत इत्यर्थः । अत्र भूमा नारायण: अहङ्कारो जीवस्थोऽनिरुद्धः आत्मा व्याप्तो वासुदेव इति ज्ञेयः । आत्मापरोक्ष-ज्ञानिनो विपरीतज्ञानिनश्च फलमाह स वा एष इति । स प्रसिद्ध एष एव मुख्योऽधिकारी चतुर्मुखः एवं पश्यन् साक्षात्कुर्वन् तस्य साधने मननश्रवणे कुर्वन्निति भावेनोक्तम् - एवं मन्वान एवं विजानन्निति । आत्मरतिः आत्मना रतिर्यस्य स आत्मरतिः भगवद्रतिः, आत्मना क्रीडत इत्यात्मक्रीडः, स्त्रीरूपः सन् आत्मना मिथुनीभूत इत्यात्ममिथुनः, आत्मनाऽऽनन्दत इत्यात्मानन्दः स ब्रह्मा स्वराट्, स्वः परमात्मा प्रत्यक्षतो राट् नियन्ता यस्य स इति स्वराड् भवति । तस्य सर्वेषु लोकेषु कामचारो भवति ॥ २ ॥ इति पञ्चविंशः खण्डः ।।

॥ इति पञ्चविंशः खण्डः ।।

अथ षड्विंशः खण्डः

निषत्

(मुक्तो भगवत्कार्याणि साक्षात् पश्यति )

तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशाऽऽत्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः सङ्कल्पः आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मतो कर्माण्यात्मत एवेदं सर्वमिति ॥१॥

छान्दोग्योपनिषत्खण्डार्थः

आत्मज्ञानिनो महिमानमाह तस्य हवा इति । तस्य हवा एतस्यैवाऽत्मसाक्षात्कारादिमतश्चतुर्मुखादेरात्मतः प्राण इत्यादौ जायते पाल्यते लीयते नियम्यते चेति साक्षात्कारो भवतीति सर्वत्र शेषो ध्येयः । आत्मापरोक्षज्ञानी मुक्तः सन् प्राण- आशा - स्मर - आकाश-तेज-अप्- अन्न-बल-विज्ञान-ध्यान-चित्त-सङ्कल्प-मनो- वाक्-नाम-मन्त्र-कर्म- शब्दितानां मुख्यवायुप्रभृतीनां प्रागुक्तदेवानां जननादिकम् आत्मतो भवतीति पश्यतीत्यर्थः । न केवलमेतावत् । आत्मतः कृत्स्नजगत आविर्भावतिरोभावौ भवत इत्यपि तस्य प्रत्यक्षं भवतीत्यर्थः । इतिशब्दः समाप्तौ ।। १ ।।

निषत्

तदेष श्लोकः ॥

न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वश इति ॥

स एकधा भवति त्रिधा भवति पञ्चधा सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः ।

शतं च दश चैकं च सहस्राणि च विंशतिः ॥

आहारशुद्धौ सत्त्वशुदि्धः सत्त्वशुद्धौ ध्रुवा स्मृतिः ॥

स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षस्तस्मै मृदितकषायाय तमसः पारं दर्शयति देवर्षये नारदाय भगवान् सनत्कुमारस्तं स्कन्द इत्याचक्षते तं स्कन्द इत्याचक्षते ॥ २ ॥ २६ ॥

॥ इति श्रीमच्छान्दोग्योपनिषदि सप्तमोऽध्यायः ।।

छान्दोग्योपनिषत्खण्डार्थः

आत्मज्ञानिनः सर्वलोकेषु कामाचारित्वसिद्ध्यर्थं मृत्युदर्शनाद्यभावं श्लोकेनाऽह तदेष श्लोक इति । तत्र आत्मज्ञानिमाहात्म्ये, एष वक्ष्यमाणः श्लोको भवति । तमाह न पश्य इति । पश्यतीति पश्यो जीवः मृत्युं न पश्यति, न रोगं, नोत दुःखतां दुःखित्वम् । पश्यो जीवः सर्वं पूर्णं भगवन्तं आत्मतः प्राण इत्यादिनोक्तं सर्वमिति वा पश्यति सर्वं पूर्णं भगवन्तं प्राप्नोति । सर्वशः कामांश्चाऽप्नोतीत्यर्थः आत्मज्ञानिनोऽवस्थितिप्रकारमाह - स एकधेति । स आत्मापरोक्षज्ञानी एकधा भवति त्रिधा भवतीत्येवंरूपेण स्मृतः । स ज्ञानी शतं च दश च एकश्च सहस्राणि च पञ्चविंशतिंश्च भवतीत्यर्थः । भगवज्ज्ञान-सामर्थ्यादंशैर्नानारूपाणि धत्त इत्यर्थः । अविद्याविषकषायनिरसनहेतु- भूतभगवदापरोक्ष्यस्य स्थैर्येणावस्थितिकारणमाह - आहारेति ॥ गुरोः सकाशात् श्रवणरूपाहारशुद्धौ सत्त्वशुद्धिः सत्त्वशब्दितज्ञानशुद्धिः, सत्त्वशुद्धौ च ध्रुवा स्मृतिः स्थिरस्मृतिः, स्थिरस्मृतिलाभे च सर्वाविद्याकामकर्मादिग्रन्थीनां विप्रमोक्षः । तस्मै मृदितकषायायाप- गतसमस्ताविद्याकामकर्मादिरूपकषायाय नारदाय देवर्षये तमसः पारम् अविद्यायास्तीरं परमात्मस्वरूपं दर्शयति अदर्शयत् सनत्कुमारः । भगवानित्युक्त्या विष्णुरिति भ्रान्तिं निराह यस्तमिति । यो दर्शयति तं स्कन्द इत्याचक्षते । द्विरुक्तिः समाप्त्यर्था || || इति षड्विंशः खण्डः ।।

॥ इति श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते सप्तमोऽध्यायः ।।