स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः ..

उपनिषत् (खण्डः -२)

मुक्ताकाङ्क्षितं सकलं सुलभ्यमिति निरूपणम्

स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ॥ १ ॥

अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ २ ॥

अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ३ ॥

अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ४ ॥

अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ५ ॥

अथ यदि गन्धमाल्यलोककामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतः तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ६ ॥

अथ यद्यन्नपालोककामो भवति सङ्कल्पादेवास्यान्नपाने समुत्तिष्ठतः तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ७ ॥

अथ यदि गीतवादित्रलोककामो भवति सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतः तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८ ॥

अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ९ ॥

यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेवास्य समुत्तिष्ठति तेन सम्पन्नो महीयते ॥ १० ॥ २ ॥

भाष्यम्

यथा बिम्बानुसारेण प्रतिबिम्बप्रकाशनम् || खण्डः -२ ॥

पदार्थकौमुदी

सत्यत्वमुक्तं मुक्तकामस्य । अनेनैव " स यदि पितृलोककामो भवति’'इत्यादिखण्डतात्पर्यमप्युक्तमिति ज्ञातव्यम् । तदेव दृष्टान्तेन यति यथेति । बिम्बानुसारेण बिम्बधर्मानुसारेण । द्वितीयः खण्डः ॥ २ ॥

खण्डार्थः

यं यमन्तमभिकामा भवन्ति ' इत्युक्तं मुक्तस्य भगवत्प्रसादाधीनं सत्यकामत्वमेव विशदयति- स यदीत्यादिना । सः मुक्तो यदि पितॄणां विष्णुलोको भवेत् । तदनन्तरं तदेव लोकोऽपि मम भवेदिति पितृलोककामो भवति तदाऽस्य मुक्तस्य सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति । संसारान्मुक्ताः सन्तः पुरतः स्थिता भवन्ति । ततश्च तेन पितृलोकेन तदवलोकनेन लोकवद्भिः पितृभिरिति यावत् । सम्पन्नो युक्तः सन् महीयते स्वावरैः पूज्यते । एवमन्यत् ॥ १ ॥

अत्र पित्रादयः स्वचरमजन्मकालीना इति सम्प्रदायविदः । ते च योग्या एव विवक्षिताः । अयोग्यत्वे कामनायोगात् । गन्धमाल्यादयस्तु तत्कालीना एव कामनया लभ्यन्ते । अत्र च लोकशब्देन दर्शनपर्यायेण भोगरूप एवार्थो विवक्षितः । नतु विष्णुलोकोऽपीति ध्येयम् ॥ २-९ ॥

एवं कुतूहलात् किञ्चिद् विशदमुक्त्वा गौरवभयात् पुनरुपसंहरति-- यं यमिति ॥ १० ॥

॥ इति द्वितीयः खण्डः ॥