अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म..
|| अथ श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे श्रीराघवेन्द्रयतिकृते अष्टमाध्याये प्रथमः खण्डः ॥
उपनिषत्
( हृत्कमले भगवदुपासना )
ॐ अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
पूर्वत्र सर्वगतत्वादिसर्वगुणैर्भूमादिरूपो विष्णुरुपास्य इत्युक्तम् । स च न सर्वमुमुक्षुभिरुपासितुं शक्य इति सर्वमुमुक्षुसाधारणमुपास्यरूपं निरूपयत्यत्राध्याये - अथ यदिदमिति । विद्यान्तरारम्भेऽथशब्दः । अत्र ब्रह्मपुरशब्दः कर्मधारयः षष्ठीतत्पुरुषश्च तन्त्रेणोपात्तो ज्ञेयः । पुरशब्दः ‘पृ पालनपूरणयोः’ इत्यतो 'ऋदोरप्' इत्यप्प्रत्यये ऋकारस्य चोकारे, पुरमिति रूपम् | बृहत्त्वात् पूर्णगुणत्वाद् ब्रह्म । पूर्णकामत्वात् पुरम् | ब्रह्म च तत् पुरं च ब्रह्मपुरं ब्रह्माख्यं पूर्णवस्तु, तस्मिन् ब्रह्मपुरे हरौ तदाधारत्वेन वर्तमाने । ब्रह्मणः पुरमिति व्युत्पत्त्या ब्रह्मपुरशब्दितेऽस्मिन् देहे यदिदं दहरं दभ्रमल्पं पुण्डरीकं कमलरूपं वेश्म गृहमस्ति, अस्मिन् दहरपुण्डरीकरूपवेश्मनि अन्तराकाशो भूताकाशो वर्तते । तस्मिन् पुण्डरीकान्तःस्थदहराकाशेऽन्तः यद् वर्तते तद् वस्तु अन्वेष्टव्यम् । तद् व्यनक्ति – तद्वावेति ।। तद्वाव तदेव विजिज्ञासितव्यं श्रवणमननध्यानैर्विषयीकर्तव्यम् । इदमेवान्वेषणं नाम नान्यदित्यर्थः। इति गुरुर्ब्रूयादित्यर्थः॥१ ॥
उपनिषत्
तं चेद्ब्रूयुर्यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति स ब्रूयात् ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तमेवं वक्तारं गुरुं शिष्याः यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः तत्राऽकाशे किं विद्यते किन्नामकं किंमहिमकं यदन्वेष्टव्यमित्याद्युक्तं त्वयेति चेद् ब्रूयुः ॥ २ ॥
उपनिषत्
यावान् वा अयमाकाशस्तावनेषोऽन्तर्हृदय आकाश उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितमिति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
स एवं तैरुक्तो गुरुर्ब्रयात् - यावानित्यादि । अन्तर्हृदये हृद्ययत इति हृदयशब्दोक्ते पुण्डरीकवेश्मस्थदहराकाशेऽन्तः आकाशः आ समन्तात् काशते दीप्यत इति वा, आ समन्तात् कं सुखमश्नात्यनुभवतीति वा, आ समन्तात् कान् कामान् शुभभोग्यान् अश्नातीति वा आकाशनामा हरिर्वर्तत इति किनामकमित्यस्योत्तरं ब्रूयात् । अयं बाह्यः बहिर्विद्यमानः आकाशनामा हरिर्यावान् देशकालगुणैर्यावद्व्याप्तिमान् तावानेष हृत्पुण्डरीकस्थाकाशगतो हरिरिति किंममिक इत्यस्योत्तरं ब्रूयादित्यर्थः । तस्य सर्वाधारत्वादिमहिमान्तरं चाऽह उभे अस्मिन्निति ॥ हृत्पद्मस्थभूताकाशगते आकाशाख्ये हरावित्यर्थः । न्यायविवरणादौ तु अन्तर्हृदय इत्यतः पूर्वं तस्येति शेषः । यो भगवानन्वेष्टव्यतयोक्तः किम्भूतः स इति पृष्टश्च तस्य हरेर्हृदये यावान् वा अयमाकाशस्तावान् सर्वोऽप्याकाशी विद्यते । अस्मिन्नुभे इत्यादीत्युक्तम् । अत्र द्यावापृथिव्यादिशब्देन तदभिमानिग्रहः । उभे इत्युक्तिर्मुक्तामुक्त- रूपवर्गद्वयग्रहणाय । तदेव विशदमाह यच्चास्येति । अस्य संसारिणः उपकारित्वेनेह यदुक्तं द्यावाभूम्यादिकं यच्चास्य संसारिणोऽनुपकारित्वेन नास्त्यविद्यमानमिवोच्यते मुक्तद्यावापृथिव्यादिकमिति यावत् । तदपि अत्र पुण्डरीकस्थाकाशगते हरौ समाहितं वर्तत इति स ब्रूयादिति पूर्वेणान्वयः || 3 ||
उपनिषत्
( अनित्यहृदयस्थोऽपि भगवान् नित्यः )
तं चेद्ब्रूयुरस्मिंश्चेदिदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदैतज्जरावाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
उक्तं सर्वाधारत्वमाहात्म्यमाक्षिप्य समाधत्ते - तं चेदिति । एवमुक्त- वन्तमाचार्यं शिष्याश्चेद् ब्रूयुः । किमिति ? ब्रह्मपुरे कर्मधारयाश्रयेण तन्त्रेण प्रागुक्ते ब्रह्मपुराख्ये, षष्ठीतत्पुरुषाश्रयणेन ब्रह्मपुरपदोक्तदेहगत- हृत्पुण्डरीकस्थाकाशगते अस्मिन् हरौ यदिदं द्यावाभूम्यादिकं सर्वं समाहितं सर्वाणि भूतानि समाहितानि । सर्वे च कामाः समाहिताः चेत् तर्हि यदा एतद् ब्रह्मणः पुरेत्युक्तब्रह्मशब्दितं शरीरं कर्म, जराऽवाप्नोति एतत् शरीरं कर्तृ प्रध्वंसते वा नाशमाप्नोति वा ततो देहनाशानन्तरं किमतिशिष्यत इति चेद् ब्रूयुरिति पूर्वेणान्वयः ॥ ४ ॥
उपनिषत्
स ब्रूयान्नास्य जरयैतज्जीर्यति न वधेनास्य हन्यत एतत् सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिता एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
स एवमुक्तो गुरुर्ब्रूयात् । किमिति ? अस्य ब्रह्मपुरशब्दितदेहस्य जरया एतद् ब्रह्मपुरशब्दितं ब्रह्म द्वयोरपि प्राक् तन्त्रेण ब्रह्मपुरपदेन समासभेदेन प्रकृतत्वात् । न जीर्यति अस्य वधेनैतत् न हन्यते । एतद् ब्रह्मपुरं कर्मधारयाश्रयेणोक्तं ब्रह्मपुराख्यं ब्रह्म सत्यं नित्यम्, अतः सर्वाधारत्वं तस्य युक्तमिति भावेनोपलक्षणतयाह अस्मिन् कामा समाहिता इति ।। नास्य जरयैतज्जीर्यतीत्युक्तं प्रपञ्चेनाऽह - एष आत्मेत्यादिना ॥ विजिघत्सः विगतबुभुक्षः । तदाह सूत्रे - ' दहर उत्तरेभ्यः' (ब्र.सू. १.३.१४) इति । तस्य मुक्ताश्रयत्वादिमहिमान्तरं चाऽह यथा हीति । यथा यथायोग्यमेव यथानुशासनं भगवदाज्ञानुसारेण प्रजाः इह मुक्तौ भगवति वा अन्वाविशन्ति प्रविशन्ति । न केवलं प्रवेशमात्रम्, यं यमन्तं देशमभिकामाः प्राप्तीच्छवो भवन्ति मुक्ताः । यं यमन्तमित्युक्तं व्यक्ति यं जनपदं यं क्षेत्रभागं क्षेत्रप्रदेशं तं तमेवोप- जीवन्त्येतत्प्रसादादेवेत्यर्थः । उपलक्षणमिदम् । समस्तकामितभोगा- नेतत्प्रसादादुपजीवन्तीत्यर्थः
॥ ५ ॥
उपनिषत्
तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते तद्य इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान् कामां स्तेषां सर्वेषु लोकेष्वकामचारो भवत्यथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान् कामां स्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ६ ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
दहराकाशस्थस्याक्षय्यफलहेतुज्ञानविषयत्वमाहात्म्यं च व्यतिरेका- न्वयाभ्यामाह— तद्यथेति ॥ तन्निदर्शनं यथां । इह लोके कर्मचितः कर्मसम्पादितो लोको गृहारामादिः क्षीयते । एवमेवामुत्र ( १ ) पुण्यचितः यज्ञादिपुण्यसम्पादितः स्वर्गादिलोकोऽमुत्र परत्र क्षीयते । केषामित्यत आह- तत् तत्र जनेषु ये इह लोके आत्मानं भगवन्तमननुविद्य अज्ञात्वा, एतांश्च सत्यान् कामान् सत्यकामत्वादिप्रागुक्तात्मगुणान् चाननुविद्य ये व्रजन्ति तेषामिति पूर्वत्रोत्तरत्र चान्वेति । अथेत्यर्थान्तरे || ६ || १ ||
॥ इति प्रथमः खण्डः ॥
अथ द्वितीयः खण्डः
उपनिषत्
(मुक्ताकाङ्क्षितं सकलं सुलभ्यमिति निरूपणम् )
अथ यदि मातृलोककामो भवति सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति तेन मातृलोकेन सम्पन्नो महीयते ॥ २ ॥
अथ यदि भ्रातृलोककामो भवति सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ॥ ३ ॥
अथ यदि स्वसृलोककामो भवति सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ॥ ४ ॥
अथ यदि सखिलोककामो भवति सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ॥ ५ ॥
अथ यदि गन्धमाल्यलोककामो भवति सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतः तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ॥ ६ ॥
अथ यद्यन्नपालोककामो भवति सङ्कल्पादेवास्यान्नपाने समुत्तिष्ठतः तेनान्नपानलोकेन सम्पन्नो महीयते ॥ ७ ॥
अथ यदि गीतवादित्रलोककामो भवति सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतः तेन गीतवादित्रलोकेन सम्पन्नो महीयते ॥ ८ ॥
अथ यदि स्त्रीलोककामो भवति सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ॥ ९ ॥
छान्दोग्योपनिषत्खण्डार्थः
यं यमन्तमित्युक्तं सत्यकामत्वं विशदमाह-स यदीत्यादिना ॥ स ब्रह्मज्ञानी पितृलोककामो भवति पितृदर्शनेच्छावान् भवति । अस्य ज्ञानिन एवमिच्छावतः सङ्कल्पादेवेच्छामात्रादेव पितरः समुत्तिष्ठन्ति पुरतः उपस्थिता भवन्ति । तेन पितृलोकेन पितृदर्शनेन सम्पन्नो युक्तो महीयते । एवमग्रेऽप्यर्थो ध्येयः । तथाच सूत्रं 'सङ्कल्पादेव च तच्छ्रुतेः'
(ब्र. सू. ४. ४. ८) इति ॥ १-९ ॥
उपनिषत्
यं यमन्तमभिकामो भवति यं कामं कामयते सोऽस्य सङ्कल्पादेवास्य समुत्तिष्ठति तेन सम्पन्नो महीयते॥ १० ॥२ ॥
छान्दोग्योपनिषत्खण्डार्थः
यं यमन्तं देशम् अभिकामो भवति स देशः सङ्कल्पादेव समुत्तिष्ठति ।। १० ।। इति द्वितीयः खण्डः ॥
।। इति द्वितीयः खण्डः ॥
अथ तृतीयः खण्डः
उपनिषत्
( 'संसारे आकाङ्क्षितं सर्व कुतो न लभ्यते' इति प्रतिपादनम् )
त इमे सत्याः कामा अनृतापिधानास्तेषां सत्यानां सतामनृतमपिधानं यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
मुक्तस्योक्तं सत्यकामत्वं प्राग् विद्यामानमेव मुक्तावभिव्यज्यत इति वाच्यम् । तत्र किमावरणमित्यपेक्षायामाह - त इम इति ॥ तइमेक् व्यक्ताः सत्याः कामाः मुक्तेः पूर्वम् अनृतापिधानाः । तद् व्यनक्ति-तेषां सत्यकामानां सतां प्राग् विद्यमानानामनृतमनाद्य- ज्ञानमपिधानमाच्छादनमिति । कुत एतदित्यत आह- यो यो हीति ।। हि यस्माद् अस्यानृतापिहितसत्यकामस्यामुक्तस्य पुंसः यो यः पिता भ्रात्रादिर्वा इतो लोकात् प्रैति तं प्रेतं पित्रादिकं दर्शनाय द्रष्टुम् इह लोके न लभते न शक्तो भवति । तस्मादनृतापिंधाना इति । अज्ञानाच्छादित- सत्यकामत्वादेव प्रेतपित्रादिदर्शनं न लभते संसारिजीव इत्यर्थः ।। १ ।।
उपनिषत्
( मुक्तिनैजसुखानुभूतिरेव )
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दतेऽत्र ह्यस्यैते सत्याः कामा अनृतापिधानास्तद्यथापि हिरण्यनिधिं निहतमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमाः सर्वा प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
अनृतनिवृत्तौ तु सर्वाभीष्टप्राप्तिरित्याह- अथेति । अर्थान्तरे । अनृतनिवृत्त्यनन्तरमिति वा । अस्य मुक्तस्य इह लोके ये च जीवाः जीवन्तः पित्राद्याः ये च प्रेताः मृताः तद्दर्शनादिकं न लभते । यद्यदन्यच्चेच्छन् इह संसारदशायां न लभते तत्सर्वमंत्र वैकुण्ठादिविष्णुलोके गत्वा विन्दते लभते । अज्ञानावृतत्वमेव व्यक्तमाह- अत्र हीति । अत्र संसारे सत्याः कामाः अनृतापिधानाः । ब्रह्मणः हृत्पद्माकाशेऽनुपलम्भान्नास्ति ब्रह्मेति शङ्कां सदृष्टान्तं निराह— तद्यथेति ॥ तन्निदर्शनं यथा । हिरण्यनिधिम् अपिनिहितम् अक्षेत्रज्ञा हिरण्यनिक्षेपस्थलमजानन्तः उपर्युपरि सञ्चरन्तोऽपि न विन्देयुर्न पश्यन्ति । एवमेवेमाः संसारिण्यः सर्वाः प्रजाः अहरहः प्रत्यहं एतं ब्रह्मलोकं, कर्मधारयः, सर्वाश्रयं ब्रह्म सुप्तौ गच्छन्त्योऽपि न विन्दन्ति न जानन्ति । तत्र हेतुमाह- अनृतेन हि प्रत्यूढाः । अज्ञानेनाऽच्छादिता हि ॥ २ ॥
उपनिषत्
स वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयमहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
यतोऽतः स वा एष आत्मा हृदि विद्यमानो नोपलभ्यत इत्यर्थः । तदाह सूत्रे ‘गतिशब्दाभ्याम्’(ब्र.सू. १३.१.१५ ) इति । पूर्वत्र किमत्र विद्यत इत्यत्र किन्नामकमिति कृतप्रश्नस्याऽकाश इत्येकं नामोक्तम् । निरुक्तिपूर्वं नामान्तरं चाऽह - तस्येति ॥ तस्य हृत्पुण्डरीकाकाशान्तर्वर्तिनः हृदयनाम्नः हृदि अयते गच्छति वर्तत इत्येतदेव निरुक्तं निर्वचनमवयवार्थकथनमिति यावत् । तस्मादेवं निर्वचनवत्त्वाद् हृदयमितिनामकमित्यर्थः । निरुक्तिपूर्वं हृदयनामकरिज्ञानिनः फलमाह- अहरिति ।। अहरहर्वै एवंवित् स्वर्गं लोकं विष्णुलोकमेति ।। ३ ।।
उपनिषत्
( परमात्मनः पूर्णानुग्रहादेव मुक्तिरिति कथनम् )
अथ य एष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥४॥
छान्दोग्योपनिषत्खण्डार्थः
ज्ञानसामर्थ्यादेव मुक्तो भवति किमित्यतो भगवत्प्रसादादित्याह - अथेति ।। य एष सम्प्रसादः, सम्यक् प्रसादो यस्यासौ सम्प्रसादः भगवत्प्रसादवान् ज्ञानी अस्माच्छरीरात् समुत्थाय परञ्ज्योतिरूपसम्पद्य प्राप्य स्वेन रूपेण ज्ञानानन्दादिशुद्धरूपेणाभिनिष्पद्यते । परञ्ज्योति - रित्युक्तः क इत्यत आह एष आत्मेति । एष परञ्ज्योतिः शब्दोक्तः आत्मा परमात्मा न सन्निहितो जीव इत्युवाच ह रमादेवी मन्त्रद्रष्ट्रीत्यर्थः । तदाह सूत्रे ‘अन्यार्थश्च परामर्श:' (ब्र.सू.१.३.२०) इति । आत्मानं विशिनष्टि – एतदमृतमभयमेतद् ब्रह्मेतीति ।। चोवाचेत्यर्थः । तस्य नामान्तरं चाऽह – तस्य हवा इति ॥ तस्य हवा एतस्य ब्रह्मणः सत्यमिति नाम भवति ॥ ४ ॥
उपनिषत्
( सत्यशब्दवाच्यो मुक्तामुक्तनियामको भगवान् )
तानि ह वा एतानि त्रीण्यक्षराणि सत् ति यमिति तद्यत् सत् तदमृतमथ यत् ति तन्मर्त्यमथ यद्यं तेनोभे यच्छति यदनेनोभे यच्छति तस्माद्यमहरहर्वा एवंवित् स्वर्गं लोकमेति ॥ ५ ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
तन्नाम निर्वक्ति तानीति ।। कथमित्यत आह- सत् ति यमिति त्रीण्यक्षराणीत्यन्वयः । अक्षराणामर्थमाह - तद्यदिति । तत् तत्राक्षर- त्रयमध्ये यत् सदित्यक्षरं तदमृतं मुक्तजातवाचकम् । अथ यत्तीत्यक्षरं तन्मर्त्यं संसारिजीववाचि । अथ यद् यमित्यक्षरं तेनाक्षरेण उभे मुक्तामुक्तजाते सत्तीतिशब्दाभ्यामुक्ते यच्छति नियच्छति नियमयतीति ह्येषोऽर्थ उच्यत इत्यर्थः । तस्मान्नियन्तृत्वाद् यमिति ज्ञानिनः फलमाह-अहरहरिति । एवं मुक्तनियन्तृत्वेन सत्यशब्दार्थं जानन् भगवल्लोकमेतीति || ५ || इति तृतीयः खण्डः ।।
|| इति तृतीयः खण्डः ।।
अथ चतुर्थः खण्डः
उपनिषत्
( निर्दुःखभगवत्प्राप्तितः दुःखनाश इति कथनम् )
अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसम्भेदाय नैतंसेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
हृत्पद्मस्थस्य हरेर्जिज्ञास्यत्वे महिमान्तरमाह- अथेति । य आत्मा प्रागुक्तः । स विधृतिर्धारणक्षमः सेतुः 'षिञ् बन्धने' सितमस्मिन् जगदिति सेतुराश्रयः । एषां प्रमाणप्रमितानां लोकानामसम्भेदायासाङ्कर्याय सेतु - रित्यन्वयः । एतं सेतुं हरिम् अहोरात्रे न तरतः नातिक्रामतः । अहोरात्रे एवातीत्य वर्तत इत्यर्थः । अहोरात्राभ्यामतार्यत्वं व्यनक्ति न जरेत्यादिना । एनमाप्नोतीति योज्यम् ॥ १ ॥
उपनिषत्
तस्माद्वा एतं सेतुं तीर्त्वाऽन्धः सन्ननन्धो भवति विद्धः सन्नविद्धो भवत्युपतापी सन्ननुपतापी भवति तस्माद्वा एतं सेतुं तीर्त्वाऽपि नक्तमहरेवाभिनिष्पद्यतेऽसकृद्विभातो ह्येवैष ब्रह्मलोकः ॥२॥
छान्दोग्योपनिषत्खण्डार्थः
अतः आत्मतः सर्वे पाप्मानो निवर्तन्ते सर्वपापरहित इति यावत् । कुतः ? अपहतपाप्मा ह्येष ब्रह्मलोकः ब्रह्माख्यो लोको हरिरित्यर्थः । तदाह सूत्रे ' धृतेश्व महिम्नोऽस्यास्मिन्नुपलब्धेः ' (ब्र. सू. १.३.१६ ) इति । तस्य सर्वपापास्पृष्टत्वमुपपादयति - तस्मादिति || अपहतपाप्मनः प्रसादादेव खलु एतं सेतुं प्राप्तुमन्यत् संसारं तीर्त्वा प्रागन्धः सन्ननन्धो भवतीत्यादि । विद्धः दुरुक्त्यादिवेधवान् उपतापी रोगवान् । तस्माद्वा सर्वपाप- हीनभगवत्प्रसादादेवैतं सेतुं गन्तुमन्यत् तीर्त्वा वर्तमानस्य नक्तं रात्रिरप्यहरेव निष्पद्यते । तत्र कारणमाह- असकृद्विभातो ह्येवैष ब्रह्मलोक इति ।। हरिरित्यर्थः (१) ॥ २ ॥
उपनिषत्
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ३ ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
एतस्य ज्ञानफलत्वात् तत्राभ्यर्हितसाधनापेक्षायामाह तद्य इति ॥ तत् तत्र जनेषु मध्ये य एवैतं ब्रह्मलोकं भगवन्तं ब्रह्मचर्येण मनोवाक्कर्मभिः ब्रह्मणि वेदे चरणेन वर्तनेनानुविन्दन्ति जानन्ति प्राप्नुवन्ति वा तेषामेवैष ब्रह्मलोकः भगवल्लोकः सर्वेषु लोकेषु कामचारो भवतीति || ३ || इति चतुर्थः खण्डः ।।
|| इति चतुर्थः खण्डः ।।
अथ पञ्चमः खण्डः
उपनिषत्
( ब्रह्मचर्य स्वरूपकथनम् )
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वाऽऽत्मानमनुविन्दते ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
ज्ञानस्य श्रवणादिरूपब्रह्मचर्यं साधनं चेद विविदिषन्तीत्यादिना यज्ञादेर्ज्ञानसाधनत्वोक्तिः कथमित्यतस्तत्सर्वं ब्रह्मचर्यमेवेत्याह – अथ यद् यज्ञ इति ।। अथ ज्ञातव्यान्तरमुच्यत इत्यथपदस्यार्थः । यज्ञ इति यदाचक्षते प्राज्ञाः तद् ब्रह्मचर्यमेव ब्रह्मज्ञानसाधनीभूतं मनोवाक्कर्मभि- ब्रह्मणि चरणमेव । कथम् ? याति जानाति ज्ञं भगवन्तमिति यज्ञ इति व्युत्पत्तेरिति भावेन यज्ञपदं व्युत्पाद्य दर्शयति- ब्रह्मचर्येणेति ।। यज्ञपदगतं य इत्येतदनूद्यार्थमाह- यो ज्ञातेति ।। ज्ञमित्यस्यार्थस्तमिति ।। अनुविन्दते जानातीति । एतेन याति जानाति ज्ञं येन ब्रह्मचर्येणेति व्युत्पत्तिः सूचिता । यदिष्टमिष्टिरित्याचक्षते ब्रह्मचर्यमेव तत् । कथमित्यतो व्युत्पाद्य दर्शयति- ब्रह्मचर्येण हीति । अनेनाऽत्मज्ञानमुद्दिश्य यजतेऽनेन ब्रह्मचर्येण हरिमिति व्युत्पत्त्या ब्रह्मचर्यमेवेष्टमिति व्युत्पत्तिः सूचिता । एवमग्रेऽपि योजना ध्येया । ब्रह्मचर्येण ह्येवेत्यादिना सतो हरितः त्राणम् अयते लभते येन ब्रह्मचर्येण तत् सत्त्रायणमिति व्युत्पत्तिः सूचिता । ब्रह्मचर्येण ह्यात्मानमनुविद्य ज्ञात्वा मनुते मननं करोतीत्यनेन मनुते अवगच्छत्यनेन ब्रह्मचर्येणेति मौनं ब्रह्मचर्यमित्युक्तं भवति ।। १ ।।
उपनिषत्
अथ यत्सत्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्येमेव तद्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
।। एष ह्यात्मेति ।। यमात्मानं हरिं ब्रह्मचर्येणानुविन्दते जानाति एष आत्मा तस्य ज्ञानिनां न नश्यति । इष्टप्रदो भवतीति यावत् । ' तस्याहं न प्रणश्यामि' इति गीतोक्तेः । एतेन अनाशकमयते लभते येन तद् ब्रह्मचर्यमनाशकायनमित्युक्तं भवति । अरण्यौ अरण्यनामको समुद्रावयते प्राप्नोति येन ब्रह्मचर्येण तदरण्यायनमिति व्युत्पत्तिः प्रागिवोह्येति भावेन तामप्रदइर्यारण्यौ कौ ? कुत्रत्या ? यत्प्राप्तिसाधनं ब्रह्मचर्यमित्यत आह-अरश्चेति || अरश्च ण्यश्चेतिसञ्ज्ञकौ द्वौ चिदानन्दरसात्मकौ अमृतमयौ समुद्र ब्रह्मलोके श्वेतद्वीपे इतः भूलोकात् तृतीयस्यां तृतीयायां दिवि शब्दिते ब्रह्मलोके वर्तेते इत्यर्थः । समुद्रप्रसङ्गादन्यदप्याह तदिति ॥ तत् तत्र ब्रह्मलोके ऐरं सुरामयं मदीयं मदकारि सरश्च विद्यते । तत् तत्र सोमसवनोऽमृतस्राव्यश्वत्थस्तिष्ठति ।। तत् तत्र ब्रह्मणः अपराजिता - नाम्नी पू: नगरी वर्तते । प्रभुविमितं प्रभुपरिमाणसमपरिमाणं हिरण्मयं पर्यर्कं चास्ति ॥ २ ॥
उपनिषत्
अथ यदनाशकायनमित्यचक्षते ब्रह्मचर्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते ।
( अद्भुतं श्वेतद्वीपाख्यं विष्णुधाम )
अऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेवतत् । अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् ॥ ३ ॥
तद्य एवैतावरं च वै ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ४ ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
तत् तत्र लोके ये अरं च ण्यं चार्णवौ ब्रह्मलोके वर्तमानौ ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः । तेषां सर्वेषु लोकेषु कामचारो भवतीति । तदाह 'गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ' ( ९ ) (ब्र.सू.१.३.१५) इति || ४ ||
।। इति पञ्चमः खण्डः ।।
अथ षष्ठः खण्डः
उपनिषत्
( हृदयस्थनाडीषु भगवद्रूपोपासना )
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येत्यसौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
हृदयस्थोपास्तिप्रकारं विविच्याsह - अथ या इत्यादिना ॥ अथेति विद्यान्तरे | हृदयस्य हृदयनाम्नो हृद्गतस्य हरेः पञ्चरूपस्याधिष्ठानभूताः या एता नाड्यः हृत्पुण्डरीकस्य परितः स्थिताः सुषुम्ना, नान्दिनी, पिङ्गला, वज्रिका, इडा इतिनाम्यः ताः पञ्चनाड्यः पिङ्गलस्य पिङ्गलवर्णस्याणिम्नः सूक्ष्मतमस्य सङ्कर्षणस्य शुक्लस्य श्वेतवर्णस्याणुतमस्य वासुदेवस्य नीलस्य नीलसवर्णस्याणिम्नोऽनिरुद्धस्य पीतस्य पीतवर्णस्य प्रद्युम्नस्याणिम्नो रोहितस्य रक्तवर्णस्याणिम्नो नारायणस्य अधिष्ठानभूतास्तिष्ठन्तीति जिज्ञासितव्यमित्यर्थः । तत्रायं विवेकः । रोहितवर्णो नारायणो हृन्मध्य- गतसुषुम्नायां तिष्ठति । शुक्लो वासुदेवः अग्रतः स्थितनान्दिन्याम् । पिङ्गलः सङ्कर्षणस्तु पश्चिमभागस्थपिङ्गलाख्यायाम् । पीतः प्रद्युम्नस्तु वामभागस्थ - वज्रिकारख्यायाम् । नीलोऽनिरुद्धस्तु दक्षभागस्थेडायां तिष्ठतीति । तन्त्रसारे तु चतुर्थे,
मध्ये सुषुम्ना विज्ञेया वज्रिकाख्या प्रकाशिनी ।। वैद्युता ब्रह्माडीति सैव पञ्चप्रभेदिनी ।। पृष्ठवामाग्रदक्षान्तर्भेदास्ते च क्रमेण तु ।। हरिः न्निल: सितः पिङ्गो लोहितश्चात्र केशवः ।। 'प्रद्युम्नादिस्वरूपेण ध्येयः'
इत्युक्तम् । आदित्येऽपि पिङ्गलादिपञ्चरूपी तिष्ठतीत्याह- असाविति । आदित्वादादित्यनामाऽऽदित्यमभिव्याप्य स्थितो हरिः पिङ्गलः सङ्कर्षणः, एष शुक्लो वासुदेवः, एष नीलोऽनिरुद्धः, एष पीतः प्रद्युम्नः, एष लोहितो नारायणः
॥ १ ॥
उपनिषत्
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुष्मादादित्यात् प्रतायन्ते त आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्तेऽमुष्मिन्नादित्ये सृप्ताः ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
न केवलं हृद्गतस्य हरेरादित्यस्थता, किन्तु तद्रश्मिषु व्याप्तता चास्तीत्याह– तद्यथेति ।। तन्निदर्शनं यथा । महापथो महान् मार्गः इमं सन्निहितममुं विप्रकृष्टं चेत्युभौ ग्रामावाततो व्याप्तः सन् गच्छति, एवमेता आदित्यस्याऽदित्यस्थस्याऽदित्यनाम्नो हरेः रश्मयः आदित्यरश्मिषु व्याप्ताः सन्तः इमं जीवममुमादित्यं चेत्युभौ लोकौ गच्छन्तीति । उक्तगतिप्रकारं विशदमाह– अमुष्मादिति || अमुष्मादादित्याद् ये रश्मयः प्रतीयन्ते तत्र प्रतीयन्त इत्यर्थः । ते आसु नाडीषु सृप्ताः व्याप्ताः । आभ्यो नाडीभ्यो ये रश्मयः प्रतीयन्ते तत्रत्या इति यावत् । ते अमुष्मिन्नादित्ये सृप्ताः व्याप्ताः ॥ २ ॥
उपनिषत्
(हृदयस्थभगवद्रूपं प्राप्तवतो न पापलेप इति निरूपणम् )
तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सृप्तो भवति तं न कश्चन पाप्मा स्पृशति तेजसा हि तदा सम्पन्नो भवति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
हृद्गतनाडीस्थभगवन्तं प्राप्तस्य पापालेपमहिमानमाह - तद् यत्रेति ॥ तत् तदा । यत्र हरौ एतत्सुप्तः एष जीवः सुप्तः समस्तः उपसंहृतेन्द्रियः अत एव बाह्यविक्षेपाभावात् सम्प्रसन्नः सम्यक् प्रसन्नः स्वप्नं स्वाप्नवस्तुजातं न विजानाति तदा आसु नाडीषु सुषुम्नाख्यनाडीस्थे हरौ सृप्तः प्राप्तो भवति । तदाह सूत्रे ‘तदभावो नाडीषु तच्छ्रुतेरात्मनि ह' (ब्र. सू.३.२.७.) इति । नाडीष्विति बहुवचनं प्रतिदेहापेक्षया । तं नाडीस्थभगवति सृप्तं पाप्मा पापं न स्पृशति संसृष्टं न भवति । तत्र हेतुः तेजसा हरिणा तदा सृप्तो हि यस्मात् सम्पन्नः तस्मादिति || 3 ||
उपनिषत्
अथ यत्रैतदबलिमानं नीतो भवति तमभित आसीना आहुर्जानासि मां जानासि मामिति स यावदस्माच्छरीरादनुत्क्रान्तो भवति तावज्जानाति ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
नाडीस्थभंगवदुपासनस्य फलमाह-अथ यत्रेति । अर्थान्तरे अथ- पदम् । यत्र यदा एतद् एष द्वतेश्वरोपासको ज्ञानी अबलिमानं ज्वरादिना दौर्बल्यं नीतः प्राप्तो भवति मुमूर्षुर्भवतीति यावत् । तमुपतापिनमभितः परिवार्य आसीनाः सन्तो ज्ञातयो जानासि मामित्याहुः वदन्ति । स एवं तैः पृष्टः यावद् यदाऽस्माच्छरीरादनुत्क्रान्तोऽनिर्गतो भवति तावत् तदा जानाति ॥ ४ ॥
उपनिषत्
(सुषुम्नानाडीत उत्क्रमणं मुक्तेद्वरिम् )
अथ यत्रैतस्माच्छरीरादुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वं आक्रमते स ओमिति वा होद्वा मीयते स यावत् क्षिप्येन्मानस्तावदादित्यं गच्छत्येतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथ यत्र यदा एतद् एषः शरीरादुत्क्रामति अथैतैर्नाडीगतैः रश्मिभिरूर्ध्वम् आक्रमते गच्छति । तदाह सूत्रे ' रश्म्यनुसारी' (ब्र.सू.४.२.१८) इति । स ऊर्ध्वमाक्रममाणः ओमितिवाहा ओमिति - नामक हरिवाहकेन वायुनोद्वामीयते भद्रीक्रियते स वायुः यावद् यदा ज्ञानिनं नेतुं मनः क्षिपेत् कुर्वन् भवति तावत् तदाऽऽदित्यं गच्छति जीवः प्राप्नोति । आदित्यगतिः कुत इत्यत आह- एतद्वै आदित्यमण्डलं वै ब्रह्मलोकद्वारं विदुषां प्रपदनं प्राप्यम् अविदुषां निरोधः ॥ ५ ॥
उपनिषत्
( उक्तार्थे मन्त्रकथनम् )
तदेष श्लोकः शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वंङ्गन्या उत्क्रमणे भवन्ति उत्क्रमणे भवन्ति ॥ ६ ॥ ६ ॥
छान्दोग्योपनिषत्खण्डार्थः
हृदयस्थोपासको नाडीस्थरश्मिभिर्गच्छन् सूर्यद्वारा मुक्तो भवतीत्युक्तार्थे मन्त्रमाह- तदेष इति ॥ तत्र उक्तेऽर्थे | हृदयस्य हृदयमभिव्याप्य स्थिताः, तासां मध्ये मूर्धानमभिव्याप्य निस्सृता स्थिता । विष्वगुत्क्रमणे लोकान्तरगमने । अन्या मूर्धन्यनाडीतोऽन्याः । तदाह सूत्रकारः 'हार्दानुगृहीतः शताधिकया' (ब्र. सू. ४.२.१७ ) इति । द्विरुक्तिरादरार्थी
|| ६ || इति षष्ठः खण्डः ।।
अथ सप्तमः खण्डः
उपनिषत्
( इन्द्रविरोचनौ प्रति चतुर्मुख ब्रह्मकृतोपदेशः )
य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति स सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
ब्रह्मचर्यादिज्ञानसाधनमनुतिष्ठतां सर्वेषामस्ति ज्ञानोदय इत्यतो योग्यस्यैव नाऽयोग्यस्येत्येतदाख्यायिकयाऽह् य आत्मेति ॥ अन्वेषणं नाम श्रवणादिरूपजिज्ञासैवेति भावेनोक्तं स विजिज्ञासितव्यः' इति । योऽधिकारी तमुक्तरूपमात्मानमन्विष्य विजिज्ञास्य विजानात्यपरोक्षतः स ज्ञानी सर्वांश्च लोकानित्यादि प्रजापतिर्ब्रह्मोवाच
।। १ ।।
उपनिषत्
तद्धोभये देवासुराः अनुबुबुधिरे ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानितीन्द्रो ह वै देवानामभिप्रवव्राज विरोचनोऽसुराणां तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तद् उभये देवाश्चासुराश्चेति द्वौ वर्गों अनुबुध्य ज्ञात्वोचुर्ह । किमिति ? हन्त तमित्यादि ॥ हन्त हर्षे । देवानामर्थे इन्द्रो असुराणामर्थे, विरोचन- श्वाभिप्रवव्राज जगाम । तौ ह द्वावसंविदानौ अन्योन्यप्रीतिरहितौ समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥२॥
उपनिषत्
तौ ह द्वात्रिंशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमूषतुस्तौ ह प्रजापतिरुवाच किमिच्छन्ताववास्तामिति तौ होचतुर्य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानातीति ह भगवतो वचो हरन्तो वेदयन्ते तमिच्छन्ताववास्तमिति ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
तौ यद् यदा द्वात्रिंशतं द्वात्रिंशद्वर्षाणि ब्रह्मचर्यं ब्रह्मज्ञानमुद्दिश्योषतुः वासं कृतवन्तौ । तदा तौ ह किमिच्छन्तौ अवास्तं वासमकुरुतमिति प्रजापतिरुवाच । ताविन्द्रविरोचनावूचतुः । किमिति ? य आत्मेत्यादिकं भगवतो महानुभावस्य तव वचो बाक्यं हरन्तो व्यवहरन्तो जनाः वेदयन्ते बोधयन्ति । इममात्मानं ज्ञातुमिच्छन्ताववात्स्वेति (१) । अवात्समिति पाठे प्रत्येकमन्वयः । वासं कृतवन्तौ स्व इत्यर्थः ।। ३ ।।
उपनिषत्
तौ ह प्रजापतिरुवाच य एषोऽन्तरक्षिणि पुरुषो दृश्यते एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेत्यथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इत्येव उ एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ॥ ४ ॥ ७ ॥
छान्दोग्योपनिषत्खण्डार्थः
तौ ह प्रजापतिरुवाच । किमिति ? तदाह - य एष इति । दृश्यते दिव्यदृष्ट्या । चक्षुर्गतं प्रतिबिम्बमेवात्मेति मन्वानो विरोचनः पुनः पृच्छति – अथ योऽयमिति ॥ परिख्यायते प्रतीयते । आदर्शे दर्पणे परिख्यायत इत्यन्वेति । एष अबादिस्थितप्रतिबिम्बरूपः । कतम इति प्रश्नस्योत्तरमेष अक्षिगत एव सर्वेषु स्थलेषु परिख्यायत इति । अन्तेषु स्थलेषु । इन्द्रस्तु प्रतिबिम्बादन्यदेव ब्रह्मेति जानन्नपि अज्ञवद् विरोचनवदेव प्रश्नादिकमकरोदिति ज्ञेयम् ॥ ४ ॥
॥ इति सप्तमः खण्डः - ७ ॥
अथ अष्टमः खण्डः
उपनिषत्
( विरोचनस्यायथार्थज्ञानमुत्पन्नम् - इति निरूपणम् )
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आलोमभ्य आनखेभ्यः प्रतिरूपमिति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
तत्त्ववेदिविवक्षया दिव्यदृष्टिगोचरोऽक्षिगत एव भगवान् सर्वस्थलेषु परिख्यायत इति ब्रह्मणोक्तेऽपि सर्वत्राक्ष्यबादौ स्थितः प्रतिबिम्ब एवाऽत्मेति व्यजानाद् विरोचनः । तत्त्वं ज्ञातुं योग्यताऽवश्यमपेक्षितेति भावेन प्रतिबिम्बो बिम्बगुणेन गुणी बिम्बदोषेण दुष्टः स कथं ब्रह्म स्यादिति भावेनाऽह उदशरावेति । उदकपूर्णशरावे आत्मानं स्वशरीरमवेक्ष्याऽत्मनः सम्बन्धि यद् विजानीथः पश्यथः तन्मे ब्रूतमिति प्रजापतिरुवाचेत्यर्थः । एवमुक्तौ तावुदशरावे आत्मनोऽवेक्षाञ्चक्राते । तौ ह प्रजापतिरुवाच किं पश्यथः ? इति । तौ होचतुः सर्वमेवेदम् (१) । तद् व्यनक्ति - हे भगवः! आवाम् आलोमभ्य आनखेभ्यः लोमनखाद्युपेतं प्रतिरूपं प्रतिबिम्बभूतमात्मानं शरीरं पश्याव इति होचतुः ॥ १ ॥
उपनिषत्
तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
तौ ह प्रजापतिः पुनरुवाच । किमिति ? साध्वलङ्कृतौ परिष्कृतौ अनुलेपादिमन्तौ भूत्वा । शिष्टं स्पष्टम् ॥ २ ॥
उपनिषत्
तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृताविति एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
यथैवेदमिति सामान्येनोक्तं व्यनक्ति- साध्वलङ्कृतावित्यादि ॥ स्वः भवावः इमौ प्रतिबिम्बौ । हे भगवन् ! इति होचतुरित्यन्वयः । एवं देहगुणेन गुणोपेतः तथा तुल्यन्यायतया तद्दोषेण दोषयुक्त एषः प्रतिबिम्ब: आत्मा एतदमृतमभयमिति काकुस्वरेण प्रजापतिरुवाच ह । कथमात्मा कथममृतमभयमित्यर्थः । एवं काक्वोक्तमजानन्तौ ताविन्द्रविरोचनौ यथास्थितप्रतिबिम्बमेव ब्रह्मेति जानन्तौ शान्तहृदयौ ब्रह्मवेदिनौ प्रवव्रजतुर्जग्मतुः ॥ ३ ॥
उपनिषत्
तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वाऽसुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुरान् जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महय्यन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
गच्छन्तौ तावन्वीक्ष्य प्रजापतिः स्वस्य मध्यस्थतां ज्ञापयन्नुवाच । किमिति ? आत्मानम् अनुपलभ्य तस्य विवरणं अननुविद्याज्ञात्वा व्रजतः सकाशाद् यतरे ये एतदुपनिषदः एतद्रहस्योपदेशवन्तः भविष्यन्ति, देवा वा असुरा वा ते पराभविष्यन्ति पराजयवन्तो भवन्तीत्युवाचेति पूर्वेणान्वयः । स एवमुक्तो विरोचनः शान्तहृदयो मयाऽऽत्मा ज्ञात इति बुद्धिमानेबासुरान् जगाम । तेभ्यः एताम् उपनिषदं प्रतिबिम्बमेव ब्रह्म देहालङ्कारादौ सति ब्रह्मण एव तद् भवतीत्येतद् रहस्यं प्रोवाच । तदेव विशदमाह– आत्मैवेति ।। स्वदेह एव महय्यः पूज्यः । आत्मानमेव देहव महयन् पूजयन् । इति प्रोवाचेत्यन्वयः ॥ ४ ॥
उपनिषत्
तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणां ह्येषोपनिषत् प्रेतस्य शरीर भिक्षया वसनेनालङ्कारेणेति संस्कुवर्न्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ ५ ॥ ८ ॥
छान्दोग्योपनिषत्खण्डार्थः
तस्माद् देह एव पूज्य इत्यस्यासुरपक्षत्वादेव । अपि अद्यापीहाददान- मश्रद्दधानमयजमानं यज्ञादिकमकुर्वन्तं स्वात्मभोगमात्रासक्तं जनमाहुः प्राज्ञाः । अयमासुरस्वभावो बत कष्टमिति । एषोपनिषद् यज्ञाद्यननुष्ठाना- दिकमसुराणां रहस्यम् । हि यतोऽत इति विरोचनेनोपदिष्टा असुरा अद्यापि प्रेतस्य शरीरं भिक्षया अन्नपानेन गन्धमाल्यादिना वसनेनालङ्कारेण, इतिशब्द आद्यर्थः । अलङ्कारादिना संस्कुर्वन्ति भूषयन्ति । एते प्रेतदेहमलङ्कुर्वन्तो जना अमुं लोकं परलोकं जेष्यन्तः प्राप्स्यन्त इति मन्यन्ते ॥ ५ ॥ ८ ॥
॥ इति अष्टमः खण्डः ॥
अथ नवमः खण्डः
उपनिषत्
( इन्द्रकृत निरन्तराध्ययनम् )
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
अथानन्तरम् इन्द्रो देवानप्राप्यैव एतद् वक्ष्यमाणं भयं ददर्श । तदाह - यथैव खल्वयमिति ।। अयं प्रतिबिम्ब: स्रामे कुष्ठादिना विवर्णे, परिवृक्णे च्छिन्नावयवे अत्र प्रतिबिम्बं ब्रह्मेत्यत्र भोग्यमुपादेयं न पश्यामीत्यालोच्य ।। १ ।।
उपनिषत्
नाहमत्र भोज्यं पश्यामीति स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन् पुनरागम इति स होवाच यथैव खल्वयमस्मिञ्छरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोज्यं पश्यमीति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
समित्पाणिः स इन्द्रः पुनः प्रजापतिमेयाय प्राप । तं हेत्यादि व्यक्तम् । आगमः आगतवानसीत्युवाचेत्यन्वयः । स इन्द्र उवाच । तदाह- यथैवेति । अयं प्रतिबिम्ब: । पश्यामीत्युवाचेन्द्र इति पूर्वेणान्वयः । प्रजापतिराह-एवमेवेत्यादिना ॥ २ ॥
उपनिषत्
एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिंशतं वर्षाणीति स हापराणि द्वात्रिंशतं वर्षाण्युवास तस्मै स होवाच ॥ ३ ॥ ९ ॥
छान्दोग्योपनिषत्खण्डार्थः
एतं तु वक्ष्यमाणं तु । स इन्द्रः । तस्मै इन्द्रायोवाच ब्रह्मा ।। ३ ।। ९ ।।
।। इति नवमः खण्डः ।।
अथ दशमः खण्डः
उपनिषत्
( तत्त्वज्ञानप्राप्तौ योग्यताऽऽवश्यकीति कथनम् )
य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श तद्यदपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
तदाह-य एष इति ।। य एष भगवान् स्वप्ने कण्ठदेशे स्वप्नावस्थायां स्वाप्नपदार्थप्रदर्शकः सन्महीयमानः महीयमानः
पूज्यमानश्चरति, एष आत्मेत्याद्युवाच । स इन्द्रः । ब्रह्मोक्तं स्वप्नावस्थाप्रवर्तकं जानन्नप्य- सुरमोहनाय स्वप्ने दृश्यो जीव एवाऽत्मेत्युवाच । प्रजापतिरिति मन्वान इव देवानप्राप्यैवैतद् भयं ददर्श । तदाह - तद् यदपीति ॥ यद्यपीदं शरीरमन्धं स्रामं चेदपि स स्वप्ने महीयमानो जीवोऽन्धादिर्न भवति । अस्य देहस्य दोषवधादिना न दोषवधादिभाक् । तत् तर्ह्यपि ॥ १ ॥
उपनिषत्
न वधेनास्य हन्यते नास्य स्रामेण स्रामो घ्नन्ति त्वेवैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोज्यं पश्यामीति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
एनं स्वप्ने महीयमानं स्वप्नद्रष्टारं घ्नन्ति तु घ्नन्तीव, विच्छादयन्तीवादन्तीव, अप्रियवेत्तेव अप्रियं लब्धेव, अप्रियं वेदितेति वा भवति । अत्र ब्रह्मोक्तेऽर्थे । भोग्यमुपादेयम् ॥ २ ॥
उपनिषत्
स समित्पाणिः पुनरेयाय त ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राब्राजी: किमिच्छन् पुनरागम इति स होवाच तद्यदपीदं भगवः शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ३ ॥
न वधेनास्य हन्यते नास्य साम्येण स्रामो घ्नन्ति वैनं विच्छादयन्तीवाप्रियवेत्तेव भवत्यपि रोदितीव नाहमत्र भोग्यं पश्यामीत्येवमेवैष मघवन्निति होवाचैतं वेव भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिशतं वर्षाणीत स हापराणि द्वात्रिशतं वर्षाण्युवास तस्मै स होवाच ॥ ४ ॥१० ॥
छान्दोग्योपनिषत्खण्डार्थः
स समित्पाणिरित्यादि पूर्ववद् व्यक्तम् || ३ - ४ |
।। इति दशमः खण्डः ।।
अथ एकादश: खण्ड:
उपनिषत्
( एकशतवर्षावधिकः इन्द्रकृतगुरुकुलवासः )
तद्यत्रैतत्सुप्तः समस्तः सन् प्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यमीति ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
तस्मै स होवाचेत्युक्तम् । किमुक्तमिन्द्राय प्रजापतिनेत्यत आह तद्यत्रेति ।। तदेतत् स एष जीवो यत्र यस्मिन् हरौ सुप्तः स्वापं प्राप्तः, समस्तः उपसंहृतेन्द्रियः, अत एव सम्प्रसन्नः प्रसादयुक्तः स्वप्नं न विजानाति सुषुप्तिं प्राप्नोतीत्यर्थः । एष आत्मेत्युवाच ब्रह्मा । स इन्द्रः सुप्त्यवस्थाप्रवर्तको भगवान् जीवादन्योऽस्ति आत्मेति ब्रह्मोक्तं जानन्नप्यसुरमोहाय जीवादन्यं न पश्यामि यत्र सुप्तो जीव एष आत्मेति कथमुवाच ब्रह्मेति जीवादन्यमपश्यन्निव अजानन्निव च । देवानप्राप्यैवैतद् भयं ददर्श । तदाह– नाहमिति ।। अहं खलु सुप्तः अयमहमस्मीति न जानाति न जानामि । व्यत्ययात् (१) । एवं ब्रह्मणोक्तप्रकारेणाधि- करणभूतमात्मानं न जानामि । इमानि भूतानि च नो एव जानन्त्यतो १. ‘व्यत्ययो बहुलम्’इति पाणिनिवचनाद् उत्तमपुरुषार्थे प्रथमपुरुष इत्यभिप्रायः ।नास्त्येवाऽधारभूत आत्मेति । तर्हि अस्तु जीवः परमात्मनि सुप्तावेकीभूत इति । यद्यपीतो एकीभूतो भवति तर्हि शं सुखं विनैव स्यात् सुप्तौ सुखानुभवहीन एव स्यादिति यावत् । नच वाच्यं सुखानुभवहीनः स्यादिति । एतावन्तं कालं सुखमहमस्वाप्सम् ' ' इति सुप्त्युत्थितस्य परामर्शो न स्यात् । अत्र ब्रह्मोक्तेऽर्थे भोग्यमुपादेयम् ॥ १ ॥
उपनिषत्
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः किमेवेच्छन् पुनरागम इति स होवाच नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यमीति ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
इत्यालोच्य । समित्पाणिरित्यादि प्राग्वद् व्यक्तम् ॥ २ ॥
उपनिषत्
एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद् वसापराणि पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास तान्येकशतं सम्पेदुरेतत् तद्यदाहुरेकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास तस्मै स होवाच ॥ ३ ॥ ११ ॥
छान्दोग्योपनिषत्खण्डार्थः
एतस्मादात्मनोऽन्यत्र अन्यत् नो एव नैवास्त्युपदेष्टव्यम्, एतं त्वेव ते भूयः पुनः अनुव्याख्यास्यामीति योज्यम् । तानि इन्द्रेण प्रजापती ब्रह्म- ज्ञानार्थमुषितानि वर्षाणि एकशतं एकोत्तरशतं सम्पेदुः सम्पन्नान्यभूवन् । एकशतं वर्षाणि मघवान् प्रजापती ब्रह्मचर्यमुवासेति यदाहुः प्राज्ञाः, तदेतत् पूर्वोक्तप्रकारेण ज्ञातव्यम् ।। ३ ।।
॥ इति एकादश: खण्ड: ।।
॥ अथ द्वादश: खण्ड: ।।
उपनिषत्
( सति शरीराभिमाने दुःखमवर्जनीयम् )
मघवन् मर्त्यं वाव इदं शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ १ ॥
छान्दोग्योपनिषत्खण्डार्थः
" य एषोऽन्तरक्षिणि'' इत्यादिना जीवस्य जाग्रत्स्वप्नसुषुप्त्यव- स्थाप्रवर्तको हरिरित्युपदिश्य प्रकारान्तरेण तस्य जीवाद् वैलक्षण्य- मुपपादयति- मघवन्नित्यादिना ॥ तत्र तावद् जरामृत्युपरीत- शरीरवत्त्वतद्राहित्यलक्षणं जीवब्रह्मणोर्वैलक्षण्यमादावाह-- मघव-न्निति || हे मघवन्निदं जीवशरीरं मृत्युना आत्तं व्याप्तमतो मर्त्यं विनाशि | तच्छरीरको जीवोऽपि विनाश्येव । तद् जीवशरीरं अशरीरस्य प्राकृतदेहहीनस्यात एवामृतस्याविनाशिन आत्मनो हरेरधिष्ठानम् । जीवेशयोः प्रियाप्रियस्पृष्टत्वतदस्पृष्टत्वरूपं वा लक्षणान्तरमाह-आत्त इति ।। सशरीरो जीवः प्रियाप्रियाभ्यां परेण प्राप्यसुखदुःखाभ्यामात्तः आक्रान्तः । प्रसिद्धमेतदित्याह-न हवा इति ॥ अपहतिर्हानिर्नास्ति | हवै प्रसिद्धम् । वावेत्यवधारणे । अशरीरं सन्तं हरिं नैव स्पृशत इति वैलक्षण्यमित्यर्थः ।। १।।
उपनिषत्
( प्राकृतशरीररहितभगवत्सकाशादेव मुक्तिः )
अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादकाशात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ २ ॥
छान्दोग्योपनिषत्खण्डार्थः
जीवन्मुक्तान् वाय्वादीनपि प्रियाप्रिये न स्पृशतः, किमु विष्णु- शरीरम् ? इति भावेनाऽह - अशरीरो वायुरिति ॥ वायुर्मुख्यवायुः अशरीरः । अभ्रम्, आप्नोति व्याप्नोति जगदित्य शब्दितेन हरिणा भ्रियमाणत्वादभ्रं ब्रह्मा, विशेषेण द्योतत इति विद्युन्नाम्नी भारती, स्तनयित्नुः सर्वशब्दमानित्वात् स्तनयित्नुनाम्नी सरस्वती, इत्येतानि त्रीण्यशरीराणि । वायुश्वाशरीरः । वाय्वादयश्वत्वारो देहवन्तोऽपि तदभिमानाभावादशरीराण्येव । तादृशान्यपि प्रियाप्रिये न स्पृशतः किमु परेशमिति वाक्यशेषः । अत्र, यद्यपि ब्रह्मवाय्वोः परेणेयं भगवता प्राप्यं प्रियमस्ति, भारतीसरस्वत्योस्तु भगवत्प्राप्यं स्वस्वभर्तृप्राप्यं चास्ति सुखं, तथाऽपि तदन्येन प्राप्यं सुखं नेति प्रियस्पृष्टिश्चतुर्णां नेत्युक्तम् । मुक्तोऽपीशप्रसादादेव भोगान् भुङ्क्ते । अतोऽपि जीवेशयोर्वैलक्षण्य- मित्याह - तद्यथेति ॥ तन्निदर्शनं यथा । एतानि वाय्वभ्रविद्युत्स्तनयित्नु- शब्दितानि अमुष्मादाकाशात् परमात्मनः समुत्थाय उत्पद्य परञ्ज्योतिः परमात्मानमेवोपसम्पद्य स्वेन रूपेण निजानन्दानुभवरूपेणाभिनिष्पद्यन्ते ॥ २ ॥
उपनिषत्
एवमेवैष सम्प्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स यत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वाऽज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥ ३ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवमेवैष ज्ञानी जीवः सम्प्रसादः सम्यक् भगवत्प्रसादयुक्तः अस्माच्छरीरात् समुत्थाय परञ्ज्योतिरूपसम्पद्य स्वेन रूपेण निजा-नन्दानुभवरूपेणाभिनिष्पद्यते । उक्तवैलक्षण्यसिद्धमर्थमाह-- स इति । यं प्राप्य मुक्तोऽभूत् स परञ्ज्योति शब्दोक्त उत्तमः पुरुषः । स मुक्तो जीवः तत्र भगवल्लोके पर्येति परितः सञ्चरति । कथम् ? जज्ञन् भक्षयन् क्रीडन्नित्यादि । ज्ञातिभिः सहमुक्तैरज्ञातिभिः पूर्वमुक्तैर्वयस्यैः सखिभिः । तदाह् सूत्रकारः- “उत्तराच्चेदाविर्भूतस्वरूपस्तु' (ब्र. सू. १ - ३ – १९ ), ‘विहारोपदेशात्’(ब्र.सू २.३.३३ ) इति च । रमणातिशयप्रकारमाह- नोपजनमिति ।। उपजनं परिसरवर्तिजनम् । शरीरं स्वशरीरं च न स्मरन् रमत इति रमणातिशयोक्तिः । पूर्वं तदेतच्छरीरमशरीरस्याऽत्मनोऽ- धिष्ठानमित्युक्तम् । तत्र जीवो वा चक्षुरादिर्वाऽस्तु तदधिष्ठातेत्यतो जीवस्यासामर्थ्याच्चक्षुरादेः करणत्वान्नाधिष्ठातृत्वमिति सदृष्टान्तमाह- स यथेति । आचरणे रथप्रवर्तने स बुद्धिस्थः प्रायोग्यः सारथिः याने यथा नियुक्तः एवमेवायं प्राणो मुख्यवायुरस्मिन् शरीरे तत्प्रवर्तनाय युक्तः सारथित्वेन नियुक्तः । विष्णुस्तु रथिकवद् देहाधिष्ठातेत्युक्तमेव । जीवस्तु अन्यरथगवत् तिष्ठतीति भावः || 3 ||
उपनिषत्
(इन्द्रियेषु भगवदुपासना )
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणमथ यो वेदेदमभिव्याहराणीति स आत्माऽभिव्याहाराय वागथ यो वेदेदं शृणवानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ४ ॥
छान्दोग्योपनिषत्खण्डार्थः
चक्षुरादेरन्यप्रयोज्यत्वरूपकरणत्वान्न देहाधिष्ठातृत्वमिति भावेन तस्य करणत्वमाह अथ यत्रैतदिति । एतचक्षुर्यत्र यदधीनं सद् रश्मिभि-राकाशमनुविषण्णमभिव्याप्तमस्ति स चाक्षुषः चक्षुः स्वामी पुरुषः हरिः देहाधिष्ठाता रथिकवदिति भावः । दर्शनाय चक्षुःकरणमिति यावत् । नतु देहाधिष्ठात्रिति भावः । भगवान् स्वरूपेन्द्रियैः सर्वभोगान् भोक्तुं शक्तोऽपि लीलया जीवदेहमधिष्ठाय स्वकीयेन्द्रियमिलितैर्जीव देहगतचक्षुरादीन्द्रियैः पुरुषभोग्यविषयान् सर्वान् भुत इति तात्पर्यं ज्ञेयम् । “ज्योतिराद्यधिष्ठानं तु तदामननात् " ( ब्र. सू. २. ४.१५ ) इत्यत्र चक्षुरादिकरणानां भगव- दीयत्वसमर्थनात् । अथ यो देहाधिष्ठाता विष्णुः इदं सुगन्धं जिघ्राणीति वेद स आत्मा देहस्वामी । गन्धाय तस्य गन्धज्ञानाय प्राणमित्यर्थः । एवमग्रेऽपि ज्ञेयम् ॥ ४ ॥
उपनिषत्
अथ यो वेदेदं मन्वानीति स आत्मा ( मननाय मनो ) ऽस्य दैवं चक्षुः स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते ॥ ५ ॥
छान्दोग्योपनिषत्खण्डार्थः
स आत्मेत्यनन्तरं मननाय मन इति पूरणीयम् । न केवलं देहाधिष्ठातृत्त्वमात्रं, किन्तु मनआदीन्द्रियाण्यप्यधिष्ठाय भोगान् भुङ्क्त इति भावेनाऽह – दैवं मनः दैवं चक्षुरिति । देवाधिष्ठितमित्यर्थः । यद्वा, दैवं तत्तदभिमानिदेवाधिष्ठितमित्यर्थः । अन्येन्द्रियेभ्यो जीवेन्द्रियेभ्यः अनयोः परमात्मेन्द्रियाभिमानिनोर्दीप्यमानत्वाद् एते दैवमनश्चक्षुषी भगवतो विषयभोगे मुख्यकारणमित्याह – स वा एष इति ॥ ५॥
उपनिषत्
य एते ब्रह्मलोके तं वा एतं देवा आत्मानमुपासते तस्मात् तेषां सर्वे च लोकाः आत्ताः सर्वे च कामाः सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥ ६ ॥ १२ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवं हरिरेव जीवशरीरमधिष्ठाय सारथ्यदिरूपान् प्राणादीन् नियमयतीत्येवमुपासकस्य फलमितिहासपूर्वमाह य एत इति । ब्रह्मलोके य एते देवाः तमेवमात्मानमुपासते । तेषु देवेषु रमत इत्यन्वयः । तस्माद् तदुपासनावत्त्वात् तेषां सर्वे लोका आत्ता प्राप्ताः । योऽधिकारी तमात्मानमनुविद्य शास्त्रतो विचार्य विजानात्यपरोक्षतः स ज्ञानी सर्वान् लोकान् सर्वांश्च कामानाप्नोतीति प्रजापतिनोक्तं सर्वमनूद्योपसंहर- त्युपनिषत्-इति ह प्रजापतिरुवाचेति ।। ६ ।।
।। इति द्वादश: खण्ड: ।।
॥ अथ त्रयोदशः खण्डः ॥
उपनिषत्
( मोक्षप्रार्थना )
श्यामाच्छबलं प्रपद्ये शबलाच्छयामं प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामीत्यभिसम्भवामीति ॥ १३ ॥
छान्दोग्योपनिषत्खण्डार्थः
एवं शरीरहृद्गतस्योपास्तिमुक्त्वा तत्साध्यां तद्योग्यानां विश्वरूपोपास्तिमाह– श्यामादिति ।। श्यामाद् हृद्गतरूपात् तदुपासनयेति यावत्, शबलं शबलवर्णं चक्षुर्गतं विश्वरूपं प्रपद्ये उपास्य ज्ञातवानस्मि । शबलाद् विश्वरूपानुग्रहात् श्यामं गतं प्रपद्ये उपास्य ज्ञातवान् प्राप्नुयामिति वा । एवं गताक्षिस्थयोरुपास्तिमुक्त्वा तत्प्रार्थनाप्रकारमाह- अश्व इवेति ॥ अश्वो रोमाणीवाहं पापं विधूय राहोर्मुखाचन्द्र इव शरीरं धूत्वा प्रमुच्य कृतात्माऽहमकृतं नित्यं ब्रह्मलोकमभिसम्भवामीति । द्विरुक्तिरादरार्था ॥ १ ॥
॥ इति त्रयोदशः खण्डः ॥
।। अथ चतुर्दशः खण्डः ।।
उपनिषत्
( यशः प्रार्थना )
आकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवानि ब्राह्मणानां यशो राज्ञां यशो विशां यशोऽहमनुप्रापत्सि स हाहं यशसां यशः श्वेतमदत्कमदत्कं श्वेतं लिन्दु माऽभिगां लिन्दु माऽभिगाम् ।। १ ।। १४ ।।
छान्दोग्योपनिषत्खण्डार्थः
पूर्वं “यावान् वा अयमाकाशः " इति व्याप्तो हरिः प्रकृतः । तदुपास्तिमाह – आकाश इति ।। आ समन्तात् काशते प्रकाशत इत्याकाशनामा हरिः नामरूपयोर्निर्वहिता शब्दप्रपञ्चार्थप्रपञ्चयोर्निर्वोढा वै नाम प्रसिद्धम् । यत् ते नामरूपे अन्तरा विना वर्तते तद् ब्रह्म तदमृतं आत्मा इत्युपासितव्यमित्यर्थः । तदाह सूत्रे - " आकाशोऽर्थान्तर- त्वादिव्यपदेशात् " ( ब्र.सू. १.३.४१ ) इति । तत्प्रार्थनाप्रकारमाह- प्रजापतेरिति । भगवतः सभां वेश्म च प्रपद्ये । ब्राह्मणानां मध्ये यशो यशस्वी भवामि, राज्ञां यशो यशस्वी विशां यशोऽहमनुप्रापत्सि प्राप्नुयाम्, स हाहं सोऽहं यशसां यशः यशस्विनां यशोदा अहं स्याम् । यद्वा यशस्विनां यशोदातृ श्वेतं श्वसनम् इतं प्राप्तं श्वसने स्थितम् । 'श्वसनगम्' इति कचिद् भाष्यपाठः । तदा वायुगमित्यर्थः । अदत्कं अनुभूयमान- सुखोपेतं लिन्दुं रतिप्रदं हरिम् आभिगामभ्यगां प्राप्तवानस्मीति चतुर्मुख उवाचेति याज्यम् । द्विरुक्तिरादरार्था || १ || इति चतुर्दशः खण्डः ॥
|| इति चतुर्दशः खण्डः ॥
।। अथ पञ्चदशः खण्डः ।।
उपनिषत्
( सम्प्रदायप्राप्तशास्त्रश्रवणादितः शाश्वतमोक्षलाभनिरूपणम् )
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषणाभिसमावृत्य कुटुम्बी शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधदात्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्याहिंसन् सर्वाणि भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते ।। १ ।। खण्डः १५ ।।
॥ इति श्रीमच्छान्दोग्योपनिषदि अष्टमोऽध्यायः ॥ ।। इति श्रीमच्छान्दोग्योपनिषत् सम्पूर्णा ॥
छान्दोग्योपनिषत्खण्डार्थः
आदरजननाय एतदुपनिषत्प्रवर्तकानाह श्रुतिः - तद्वैतदित्यादिना ॥ तदेतद् ब्रह्मा भगवान् प्रजापतये चतुर्मुखाय, स च स्वायम्भुवमनवे, स च प्रजाभ्य उवाचेत्यर्थः । एवं परम्परागतत्वादद्यतनोऽपि मुमुक्षुरेतदभ्यासी स्यादित्याशयेनैतदुपनिषदभ्यासिनो फलमाह- आचार्येत्यादिना यमनियमोक्तिपूर्वमपुनरावृत्तिरूपं आचार्यकुलाद् वेदमधीत्य सहार्थतोऽध्ययनं कृत्वा यथाविधानं गुरोः कर्म अतिशेषेण निश्शेषेण अभिसमावृत्य समाप्य, कुटुम्बे गृहस्थाश्रमे वर्तमानः शुचौ देशे स्वाध्यायमधीयानः, धार्मिकान् धर्मसम्बन्धिनो विदधद् विशेषेण धारयन्, आत्मनि परमात्मनि सर्वेन्द्रियाणि सम्यक् प्रतिष्ठाप्य सर्वेन्द्रियाणि विषयेभ्यः प्रत्याहारेण निरुध्य बहिर्वृत्तिचित्तं परमात्मनि सम्यक् प्रतिष्ठाप्येति ` यावत् । तीर्थेभ्यः शास्त्रोक्तेभ्यः यत्र यज्ञादौ हिंसा शास्त्रोक्ता ततोऽन्यत्र सर्वभूतान्यहिंसन् स खलु कुटुम्बी यावदायुषं एवं वर्तयन् वर्तमानः ब्रह्मलोकमभिसम्पद्यते । नच पुनरावर्तते, तत्रैव निजानन्द- मनारतमनुभवन्नास्त इति । पुनरुक्तिरादरार्थी । एतच्च कृत्स्न- गृहस्थाश्रमधर्मोपेतदेवविषयम् । तदाह सूत्रे - " कृत्स्नभावात्तु गृहिणीप- संहारः”(ब्र.सू.३-४–४७ ) इति || १ || इति पञ्चदशः खण्डः ।।
इति छान्दोग्योपनिषद्भाष्याद्युक्तार्थसङ्ग्रहः ।
राघवेन्द्रेण यतिना कृतः सज्जनसंविदे ||
समस्तगुणपूर्णेन श्रीप्राणपतिनेरितः ।
यदवोचमहं तेन प्रीणातु पुरुषोत्तमः ।।
॥ इति श्रीमच्छान्दोग्योपनिषदर्थसङ्ग्रहे सुधीन्द्रगुरुपादशिष्य- राघवेन्द्रयतिकृते अष्टमोऽध्यायः सम्पूर्णः ||
|| श्रीकृष्णार्पणमस्तु ||