असौ वा आदित्यो देवमधु ..
अथ तृतीयाध्यायस्य प्रथमः खण्डः
मधुविद्यानिरूपणम्
उपनिषत् (खण्डः - १)
॥ हरिः ॥ ॐ असौ वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनवंशोऽन्तरिक्षमपूपो मरीचयः पुत्राः ॥ १ ॥
भाष्यम्
'य आदित्यगतो विष्णुः स एव मधुनामकः । मदधिर्मध्विति प्रोक्तो मदः सुखमिहोच्यते ॥
अ इत्याधिक्यमुद्दिष्टं मद् ज्ञानततिरुच्यते । तद्वत्ता ततिरुद्दिष्टा तेनानुभव ईरितः ॥ अधिकोsनुभवो यस्य सर्वस्मादीप्सितादपि । सोऽयं मद इति प्रोक्तः सर्वं हि सुखसाधनम् ॥ तत्पूर्णो मधुनामा स्यात् तृतीयोऽतिशयार्थकः । देवानामुपजीव्यत्वात् स देवमधुनामकः ।। आदित्वाच्च ततत्वाच्च (१) ज्ञानरूपत्वतस्तथा । आदित्य इति सम्प्रोक्तः प्रसिद्धमधुवन्च्च सः ॥ तिरोवंशादिसंयुक्तो द्युनाम्नी च द्युसंस्थिता । प्रकाशादिगुणैः श्रीस्तु वायोराश्रयरूपतः ॥ तिरोवंश इति प्रोक्ता मध्वपूपस्तु मारुतः । तस्मिन् सन्निहितो विष्णुर्विशेषेण यतः सदा ।। सोऽन्तरिक्षमिति प्रोक्तः स्वान्तस्सम्यग्घरीक्षणात् । अन्तरिक्षस्थितश्चासौ वस्वाद्या मधुकारिणः || तत्पुत्रास्तु मरीच्याद्याः सूर्यरश्मिषु संस्थिताः । तिर्यक् स्थित्वा वशे कुर्याद् यस्माद् देवी रमा हरिम् ॥ भक्त्यैवातस्तिरोवंशस्तिर्यक्त्वं प्रणतिः स्मृता । तिर्यक् स्थित्वा स्वसंस्थं तु वशीकुर्याद् यतस्ततः ।। वंशस्तिरश्चीनोऽन्योऽपि यस्मिन्नाप्यमुपस्थितम् । सोऽपूप आप्यो भगवान् मध्वाज्यादिप्रसिद्धगम् ।।
पदार्थकौमुदी
सूर्यादिस्थं हरिं नानारूपं वस्वादिसेवितम् ॥ सूर्यादिपालितद्वारं वन्देऽध्यात्माधिदैवगम् ॥ १ ॥
पूर्वाध्यायान्ते वसुरुद्रादित्यानां प्रातः सवनाद्याधिपत्यमस्तीत्युक्तम् । तच्च तैर्न स्वमहिम्ना प्राप्तमिति वक्तुं तदुपास्यस्याऽदित्यान्तर्गतस्य भगवतो महिमानं निरूपयत्यस्मिन्नध्याये – असौ वा आदित्यो देवमध्वित्यादिना ॥ काव्यवदादित्यस्य प्रसिद्धमधुसाम्यमेवात्रोच्यत इति व्याख्याननिरासाय ब्रह्मविद्यात्वं सम्पादयन् खण्डपञ्चकं प्रमाणेनैव ब्याचष्टे आदित्यगत इत्यादिना । स एव न त्वन्य इत्यर्थः । अनेन श्रौतो वैशब्दो व्याख्यातः । केन निमित्तेन भगवान् मधुनामेत्यत आह - मदधिरिति ॥ मदो धीयते ऽस्मिन्निति मदधिः । मदाश्रय इति यावत् । स एव मध्विति प्रोक्त इत्यर्थः । निर्वचनत्वाद् दशब्दस्य लोप इकारस्योकार इति भावः । मदशब्दस्य मत्ततार्थतत्वप्रतीतिवारणाय विक्षितार्थमाह मद इति । एवं सङ्क्षेपतो मधुशब्दं निरुच्य तद्विशदयितुं मदपदेन कथं सुखं लब्धमित्यतस्तावदक्षरार्थकथनपुरःसरं तद्दर्शयति - अ इतीति ॥ मदशब्दान्तर्गतेन अ इत्यनेनेत्यर्थः ॥
ज्ञानततिरिति ॥ " माङ् माने" इति धातोर्मशब्दस्य ज्ञानवाचित्वात् । तनु विस्तार इति धातोश्च तकारस्य ततिवाचित्वादित्यर्थः । नन्वेवमाधिक्येन ज्ञानस्य ततिरित्यर्थो लब्धः । नच सुखं तादृशमित्यत आह तद्वत्तेत । नात्र ज्ञानस्य ततिरिति विवक्षितम् । अपि तु ज्ञानेन तति: पूर्णत्वमिति । तथाच ज्ञानवत्त्वं लब्धम् । तदपि विषयत्वेनैव विवक्षितमिति भावः ।
नन्वथापीदमयुक्तम् । सर्वेप्सितादाधिक्येन भ्रमादिसाधारणपरोक्ष- ज्ञानमात्रविषयस्य सुखत्वासम्भवात् । साक्षिभास्यत्वात् तस्येत्यत आह · तेनेति ।। ज्ञानशब्देनेत्यर्थः । अनुभवः साक्षी । केचित्तु ज्ञानवत्त्वमेव विशदमाह - तेनेति ॥ तेन ज्ञानततिशब्दस्य ज्ञानवत्त्वार्थकत्वेन अनुभवोऽनुभवविषयः ज्ञानततिशब्दार्थ ईरित इत्यर्थ इत्याहुः । अक्षरार्थमुक्त्वा पदार्थमाह- अधिक इति ।। अधिकः । आधिक्येन सर्वस्मादीप्सितादिति योग्यतया सम्बध्यते । सोऽयं मद इति प्रोक्तः । " सुखमेव हि तथाविधम् ' ' इति शेषः । एतदुपपादयितुं वनितादेर्विषयस्य न तथात्वमित्याह - सर्वं हीति । सर्वं वनितादि हि यस्मात् ।। सुखसाधनम् । सुखोपाधिकत्वेनैव ज्ञायते । तस्मादुक्तं युक्तमित्यर्थः । एवं मदशब्दार्थमुक्त्वा मधुशब्दार्थमाह – तत्पूर्ण इति ॥ तच्छब्देन मदपरामर्शः । ननु मदधिरेव मध्वित्युक्तरीत्या मदाश्रयत्वमात्रं लभ्यते । नतु तत्पूर्णत्वम् । तद्वाचकाभावादित्यत आह तृतीय इति ॥ इकारापेक्षया तृतीय उकारस्तदादेशभूतोऽतिशयार्थकः पूर्णत्ववाची - त्यर्थः । " तृतीयोऽतिशये' इति महाव्याकरणसूत्रादिति भावः । एवं मधुशब्दं निरुच्येदानीं देवमधुशब्दार्थमाह देवानामिति । उप- जीव्यत्वं षष्ठ्यर्थ इति भावः ।
प्रसिद्धादित्यप्रतीतिवारणायाऽदित्यशब्दमपि भगवति निर्वक्ति- आदित्वादिति ॥ " आदित्वात्" इत्यादिशब्दार्थः । " आततत्वात् " इति तकारार्थः । ‘ज्ञानरूपत्वतः " इति यकारार्थः । नन्वेवं मधुशब्द- स्य भगवन्मात्रपरत्वे ‘‘तस्य द्यौरेव तिरश्चीनवंश : " इत्यादिना प्रसिद्ध- मध्वपेक्षितसाम्योक्तिरयुक्ता स्यादित्यतस्तदपि विवक्षितमित्याह प्रसिद्धेति || शब्दो व्याख्यानान्तरसमुच्चयार्थः । देवानां मध्विव मध्विति तर्पकत्वेन साम्यान्मधुत्वमत्रेति ज्ञातव्यम् । यस्मात् सः प्रसि- द्धमधुवत् तस्मात् तिरोवंशादिसंयुक्तो वाच्योऽतस्तदत्रोच्यत इत्यर्थः । " तस्य द्यौरेव तिरश्चीनवंशः" इत्येतदचेतनस्य द्युलोकस्यैव तिरोवंशत्वमुच्यत इति प्रतीतिवारणाय व्याचष्टे – नाम्नी ॥ प्रकाशादिगुणैर्घनाम्नी श्रीस्तु श्रीरेव न लोकः । तर्हि कथं लोके वृत्तिरित्यतस्तत्सम्बन्धादित्यभिप्रेत्याह - घुसंस्थितेति । एवमुत्तर- त्रापि द्रष्टव्यम् । सा च तिरोवंश इति प्रोक्ता तिरोवंशशब्दवाच्या तत्स्थानीया चेत्यर्थः । तदपेक्षितं साम्यमाह - वायोरिति । वायोश्चा- पूपत्वेन वक्ष्यमाणत्वादपूपाश्रयत्वेन साम्यमिति भावः । " अन्तरिक्ष- मपूपः " इति वाक्यमचेतनमात्रपरत्वपरिहाराय व्याचष्टे - मध्वपूप इति ॥ अन्तरिक्षापूपशब्दवाच्यो मारुतो मध्वपूपत्वेन विवक्षित इत्यर्थः । तस्य प्रसिद्धापूपसाम्यमाह तस्मिन्निति ॥ मधुत्वेन विवक्षितविष्णुस्थानत्वान्मधुस्थानत्वेन साम्यमिति भावः । मारुत-
स्यान्तरिक्षशब्दवाच्यत्वं केन निमित्तेनेत्यत आह सइति । स मारुतः मरीचयः पुत्रा इत्येतत् । मरीचयो रश्मयः । रश्मिस्था आपो भौमा इति व्याख्याननिरासाय सम्यग् व्याख्यातुं तदपेक्षितमाह - स्वाद्या इति ।। आद्यपदेन रुद्रादित्यादयो ग्राह्याः । वक्ष्यन्त इति शेषः । इदानीं तद्वाक्यं व्याख्याति – तत्पुत्रा इति । अनेन मरीचयः सूर्यमरीचिस्थाः मरीच्याद्या ऋषयः पुत्राः भ्रमरपुत्रस्थानीया इति व्याख्यातं भवति । “सूर्यरश्मिषु संस्थिताः" इति नाडीस्थत्वेन साम्यमुपपादयितुम् । श्रियस्तिरोवंशस्थानीयत्वे तच्छब्दनिर्वचन-लब्ध- धर्मेणापि साम्यमाह – तिर्यक् स्थित्वेति । किं बलाद् वशे कुर्यादि- त्यत उक्तम् भक्त्यैवेति ॥ तिरोवंशस्तच्छब्दवाच्या तत्स्थानीया चेत्यर्थः । केयं देव्यास्तिर्यक् स्थितिरित्यत आह - तिर्यक्त्वमिति ॥ साम्योपपादनाय प्रसिद्धवंशेऽपि तच्छब्दं तथैव निर्वक्ति – तिर्यक् स्थित्वेति ।। स्वसंस्थं मध्वपूपम् अनेन वशयतीति वंश इति निर्वचनं सूचितम् । अन्यद् योग्यतया लब्धमिति द्रष्टव्यम् । वंश इत्युच्यत इति शेषः । मारुतस्य प्रसिद्धापूपसाम्ये यन्मध्वाश्रयत्वं निमित्तमुक्तं तदप्य- पूपशब्दनिर्वचनलब्धमेवेत्याह- यस्मिन्निति ।। अपशब्दार्थः - आप्य- मिति ।। अनेन अप् आप्यम् । उप उपस्थितं यस्मिन्नसावपूर्ण इति निर्वचनं कृतं भवति । नन्वेतावताऽपि मधुभूतविष्णुस्थानत्वं कथं लब्धमित्यत आह आप्य इति ।। मुक्तैः प्राप्यत्वादिति भावः । साम्यमुपपादयितुं प्रसिद्धमध्वपूपेऽप्येतदेव निर्वचनमित्यभिप्रेत्य तत्र विवक्षितमाप्यमाह - मध्वाज्यादीति | आज्यादिमधु प्रसिद्धगम् । प्रसिद्धमध्वपूपगमित्यर्थः । आप्यशब्दो लिङ्गव्यत्ययेनानुवर्तते । अब्वि- कारत्वादिति भावः ।