ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीव ..

उपनिषत् (खण्डः - ६)

चित्ताभिमान्यनेर्थ्यानाभिमानिवरुणस्याऽधिक्यकथनम्

ध्यानं वाव चित्ताद्भूयो ध्यायतीव पृथिवी ध्यायतीव द्यौर्ध्यायतीवान्तरिक्षं ध्यायन्तीवापो ध्यायन्तीव पर्वता ध्यायन्तीव देवमनुष्यास्तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादांशा इवैव ते भवन्त्यथ येऽल्पाः कलहिनः पिशुना उपवादिनस्तेऽथ ये प्रभवो ध्यानापादांशा इवैव ते भवन्ति ध्यानमुपास्स्वेति ॥ १ ॥

स यो ध्यानं ब्रह्मेत्युपास्ते यावत् ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्तेऽस्ति भगवो ध्यानाद् भूय इति ध्यानात् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥६॥

भाष्यम्

.. .............तस्माद् वरुण एव च ॥ ध्यानस्य देवता चासौ तन्नामा च निधानतः । सत्यानृतविवेकार्थं …….

पदार्थकौमुदी

ध्यानं वाव चित्ताद् भूयः' इत्येतद्व्याचष्टे - तस्मादिति ॥ एवेति प्रसिद्धार्थं व्यावर्तयति । तस्मादग्नेर्वरुणो मुक्तौ वर इत्यर्थः । तत्र ध्यानशब्दं द्वेधा घटयतिध्यानस्येति ।। सत्यानृतविवेकार्थं ब्रह्मणा निधानतश्च तन्नामा ध्याननामेत्यर्थः । षष्ठः खण्डः ।।

खण्डार्थः

ध्यानं ध्यानाभिमानी वरुणश्चित्ताद् भूयः । तस्य सर्वगतत्वरूपं महिमानमाह - ध्यायतीवेति । पृथिव्यादिशब्दास्तदभिमानिदेवतापराः । ध्यायतीव न बहुभाषिणीत्यर्थः । देवा एव मनुष्यत्वं प्राप्ता देवमनुष्याः । तस्माद् ध्यानस्य श्रेष्ठत्वादिह लोके ये मनुष्याणां मध्ये धनैर्विद्यया गुणैर्वा महत्तां प्राप्नुवन्ति ते ध्यानापादंशा इवैव भवन्ति । ध्यान- स्याऽपादनं ध्यानापात् । ध्यानलाभ इति यावत् । तस्यांशो येषां ते तथोक्ताः । ध्यानलाभैकदेशवन्त इवैव । नतु पूर्णध्यानवन्त इव । अतो ध्यानमेव श्रेष्ठमित्यर्थः । किञ्च येऽल्पाः क्षुद्राः कलहिनः कलहशीलाः । पिशुनाः परदोषोद्भासकाः । उपवादिनः परदोषसामीप्ययुक्तवदन- शीलास्तेऽथ ये प्रभवः प्राप्तमहत्त्वास्ते च ध्यानापादशा इवैव भवन्ति ॥ १ ॥

ध्यानं ब्रह्मेत्युपास्ते । सः ध्यानवतो ह लोकानभिसिद्ध्यतीति ग्राह्यम् ॥२॥

।। इति षष्ठः खण्डः ।।