ऋतुषु पञ्चविध सामोपासीत वसन्तो हिङ्कारो ग्रीष्मः ..
उपनिषत् (खण्डः -५ )
ऋतुषु भगवदुपासना
ऋतुषु पञ्चविध सामोपासीत वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत् प्रतिहारो हेमन्तो निधनम् || १ |
कल्पन्ते हास्मै ऋतव ऋतुमान् भवति य एतदेवं विद्वान् ऋतुषु पञ्चविध सामोपास्ते ॥ २ ॥ ५ ॥
भाष्यम्
हेमन्तशिशिरयोरैक्येन पञ्चत्वम् । 'ऋतुनामानमृतुगमृतत्वाद् (१) ऋतुनामकः ॥ इत्युपासीत यो विष्णुं पञ्चात्मानममुष्य हि । मोक्षादीन् कल्पते चास्य ऋतुसंस्थो जनार्दनः । रक्ष्यत्वात् तेन तद्वांश्च सदैव स्यादुपासकः ।।' इति च । ‘वासस्य सुखकारित्वाद् वसन्तः पुरुषोत्तमः । नीरादेर्गरणाद् ग्रीष्मो वर्षणाद् वर्ष उच्यते ।
शं रातीति शरत् प्रोक्तो हेमन्तो हिमकारणात् ॥' इति च ॥५॥
पदार्थकौमुदी
सर्वासामपामुत्पत्त्यादि ऋत्वधीनमिति ऋतुषु भगवदुपास्ति- कर्तव्यतामाह - ऋतुष्विति ॥ ननु ऋतूनां षट्त्वान्मूर्तीनां पञ्चत्वात् कथम् “ऋतुषु पञ्चविधम्" इत्युक्तिरित्यत आह- हेमन्तेति ॥ ऐक्येनैक्यविवक्षया । अयमपि खण्डो भगवत्पर इति ज्ञापनाय पूर्ववत् " कल्पन्ते हा स्मा ऋतवो ऋतुमान् भवति' इत्यादिफलवाक्यं प्रमाणेन व्याचष्टे – ऋतुनामानमिति । ऋतुत्वाद् ऋतूनां ऋतुत्वप्रदत्वादित्यर्थः । सर्वशास्त्रावगतत्वादिति वाऽर्थः । अमुष्य विष्णोः । पञ्चात्मानं पञ्च- स्वरूपम् । ‘“कल्पन्ते हास्मा ऋतवः" इत्यत्र मोक्षादीनिति शेषोक्तिः । कल्पते दातुं समर्थो भवति । अस्योपासकस्येत्यनेनास्मा इति चतुर्थी षष्ठ्यार्थेत्युक्तं भवति । प्रसिद्धमत्त्वमृतुनामकभगवद्वत्त्वं वा सर्वसाधा- रणमिति कथमिदं फलमित्यत उक्तम्- रक्ष्यत्वादिति ॥ हिङ्कारादि- नामकप्रद्युम्नादीनां वसन्ताद्यभेदोऽभिधीयत इति भ्रान्तिनिरासाय भगवति वसन्तादिशब्दनिर्वचनपरं प्रमाणमेवोदाहरति वासस्येति । स्ववासस्य जीवसुखकारित्वादित्यर्थः । वसतेः पचाद्यच् वसतीति वसः तनोतेरौणा- दिको डप्रत्ययः । तनोतीति तः । “वर्णागमो वर्णविपर्ययश्च” इत्यादिना पूर्वपदस्य नकारागमः । "नीरादेः" इत्येतस्य वर्षणादित्यनेनापि सम्बन्धः । राति ददाति । रा दान इत्यतो डत् । हिमं तनोतीति हेमन्तः ॥ ५ ॥ इति पञ्चमः खण्डः | | ( १ )