समस्तस्य खलु साम्ना उपासनं साधु ..

अथ द्वितीयाध्यायस्य प्रथमः खण्डः

॥ हरिः ॐ ॥

साधु सामपदयोः समानार्थकत्वम्

ॐ समस्तस्य खलु साम्ना उपासनं साधु यत्खलु साधु तत्सामेत्याचक्षते यदसाधु तदसामेति ॥ १ ॥

तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपागादित्येव तदाहुः ॥ २ ॥

अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ ३ ॥

स य एतदेवंविद्वान् साधु सामेत्युपास्तेऽभ्याशो ह यदेनं साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ ४ ॥ खण्डः १ ॥

भाष्यम्

समस्तस्य पूर्णस्य साधुत्वात् सामनाम्नो विष्णोरुपासनं साधु । सारत्वेन मेयं साम । सारत्वेन धार्यं साध्वित्येक एवार्थः ।

साधुत्वात् सामनामानं समस्तगुणपूर्तितः ।

समस्तं य उपासीत नारायणमनामयम् ।

(१) सर्वसाम्नां देवतेति स मुक्तः साधुधर्मभाक् ॥' इति साम- संहितायाम् ।। १ ।।

पदार्थकौमुदी  

प्रद्युम्नादिस्वरूपेण हिङ्काराद्यभिधं परम् ॥ समस्तसामगं वन्दे सामनामानमीश्वरम् ॥

सामैकदेशोद्गीथस्तोभनिष्ठामुपास्तिमुक्त्वा पञ्चभक्तिकसप्तभक्तिक- समस्तसामनिष्ठामुपास्तिमाहानेनाध्यायेन । तत्र समस्तस्यैव साम्न उपासनं कर्तव्यमिति भावेनैतत् स्तौतिसमस्तस्येति प्रथमखण्डेन ॥ तत्राऽदि- वाक्यं समस्तस्य साम्नः सामवेदस्योपासनं पठनादि साध्वित्युच्यत इति प्रतीतिनिरासाय व्याचष्टेसमस्तस्येति ॥ साधु शोभनमित्यर्थः । साधुत्वं कथं सामशब्दप्रवृत्तिनिमित्तमित्यतः साधुसामशब्दयोरेकार्थत्वादिति भावेन तदुभयं निर्वक्तिसारत्वेनेति ॥ सेत्यस्य सारत्ववाचकत्वादि- त्यर्थः । अनेनयत् खलु साधु तत् सामेत्याचक्षतेइति श्रुतौ यत् साधुसामशब्दयोः पर्यायत्वमुक्तं तद् विवृतं भवति ।समस्तस्य खलु साम्नःइत्युपक्रमवाक्यस्योक्त एवार्थ इति भावेनस य एतदेवं विद्वान् साधु सामेत्युपास्तेऽभ्याशो ह यदेनं साधवने धर्मा आच गच्छेयुः " इत्युपसंहारवाक्यं व्याचष्टे - साधुत्वादिति ॥सर्वसाम्नां देवता इतिसामनामानम् इति सामशब्दस्यार्थान्तरम् ॥

खण्डार्थः

समस्तस्य पूर्णस्य खलु वै साम्नः सामनाम्नो विष्णोरुपासनं साधु । कः सामशब्दार्थः ? यद्विशिष्टतया भगवदुपासनं साध्वित्यतः साधुत्वमेव सामशब्दार्थः । साधुसामशब्दयोः पर्यायत्वादिति भावेन तयोः पर्यायत्वं वृद्धप्रयोगेण समर्थयतेयत् खल्विति ।। यत् खलु साधु तत् सामेत्या- चक्षते विद्वांसः । यदसाधु तदसामेत्याचक्षते । अतस्तयोः पर्यायत्वमिति भावः ।। १ ।।

ननु विद्वांसोऽप्येवं किमर्थमाचक्षत इत्यतस्तत्रापि मूलभूतप्रयोग- दर्शनादित्याहतदुतेति ।। यद्वा, साधुसामशब्दयोरेकार्थत्वे वृद्धप्रयोगा-न्तरमाह - तदुतेति । तदुत तत्रैव साधुसामशब्दयोरेकार्थत्व एवाऽन्येऽपि विद्वांस आहुः । किमाहुरित्यत आह - साम्नेति ॥साम्नैनं भगवन्त- मुपागात्इति मन्त्रो यदाहं तत्साधुनैनमुपागादित्येवाऽहेत्याहुः ।असाम्नैनमुपागात्इति मन्त्रो यदाह तदसाधुनैनमुपागादित्येवाऽ- हेत्याहुः । एवं च सामासामशब्दयोः साधुत्वासाधुत्वार्थकत्वेन व्याख्यानात् साधुसामशब्दयोरेकार्थत्वमिति भावः ॥ २ ॥

तत्रैव वृद्धान्तराणामपि प्रयोगं दर्शयति अथेति ॥ अथशब्दः पूर्वप्रयोगविच्छेदप्रदर्शकः । अप्युत अपि चाऽहुः । प्रकारान्तरेणापि ज्ञानिन आहुरित्यर्थः । साम नोऽस्माकं बत भवेदिति मन्त्रो यद् यस्मात् सामशब्दार्थः साधु . भवति तत् तस्मात् साधु बतेत्येवाऽहेत्याहुः ।असाम नो बत" इति मन्त्रो यद् यस्माद् असाधु असामशब्दार्थो भवति तत् तस्मादसाधु बतेत्येवाऽहेत्याहुः । अत्रापि सामासामशब्दयोः साधुत्वा- साधुत्वार्थकत्वेन व्याख्यानात् साधुसामशब्दयोः पर्यायत्वमिति भावः । एवं साधुत्वार्थकसामनामकत्वेन भगवदुपासकस्य फलमाह - स य इति ॥ स प्रसिद्धो योऽधिकारी एतत्समस्तं सामैवं साधुत्वेन सामनामकतया विद्धान् साधु सामेत्युपास्ते एनमुपासकं प्रति साधवो धर्मा आगच्छेयुश्च उप च नमेयुरचञ्चलास्तिष्ठन्ति । उपनमेयुश्च भोग्यत्वेनोपतिष्ठन्तीति वा ।। ३-४ ।।

|| इति प्रथमः खण्डः ||