मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ..
उपनिषत् ( खण्डः - १८ )
अध्यात्माधिदैवतयोः भगवदुपासना
मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ १ ॥
अध्यात्माधिदैवतयोहर रूपचतुष्टयम्
तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुःपादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः पादो वायुः पाद आदित्यः पादो दिशो पाद इत्युभयमेवादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ २ ॥
वागिन्द्रिये वासुदेवः
वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३ ॥
घ्राणेन्द्रिये सङ्कर्षणः
प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ४ ॥
चक्षुरिन्द्रिये प्रद्युम्नः
चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ५ ॥
श्रोत्रेऽनिरुद्धः
श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ६ ॥ १८ ॥
भाष्यम्
‘मनःसंस्थस्तु यो देवः साक्षान्नारायणः प्रभुः ।स एवाऽकाशसंस्थश्च मन आकाशनामकः ॥मननान्मन आकाश आसमन्तात् प्रकाशनात् । वासुदेवादिभेदेन स वागादिषु संस्थितः ॥ अग्र्यादिषु च तन्नामा वागादिस्थः स एव तु । अग्र्यादिस्थैः सहैवेशो भाति दुष्टांस्तपत्यथ ॥ एवं विद्वांस्तमीशेशं यशोज्ञानसुखात्मताम् । कीर्तिं च ब्रह्मसम्प्राप्त्या (१) वरतां मुक्तिगामपि । प्राप्य भाति तपत्यद्धा स्वाज्ञानादिकमेव च ।। ' इति च ॥ १८ ॥
पदार्थकौमुदी
लब्धायुषः पुरुषस्य तत्सार्थक्यार्थमध्यात्ममधिदैवतं (२) च भगवदु- पास्तिं तत्फलं चाऽह—मनो ब्रह्मेत्यादिना ॥ अत्रान्तःकरणादिक- मब्रह्मैव ब्रह्मतयोपास्यमुच्यत इति परव्याख्यानमप्रामाणिकं प्रमाणविरुद्धं चेत्याशयेन “आकाशो ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च " इति वाक्यमप्रतीतेः प्रमाणेनैव व्याचष्टे – मनःसंस्थ इत्यादिना ॥ तुशब्दो विशेषार्थः । तमेवाऽह - साक्षादिति ॥ साक्षादनन्याधीनत्वेन मनःसंस्थो न रुद्रादिरिवेति । मनोनामक इत्यपि ग्राह्यम् । “स एव ' इत्युक्त्या स्थानभेदेन भेदशङ्का परिहृतेति ज्ञातव्यम् । तथा चाध्यात्मं मनोनामकस्य भगवतोऽधिदैवमाकाशे मनआकाशनामकं रूपद्वयमस्तीत्युक्तं भवति ।
ब्रह्मणः मनआकाशनामकत्वं केन निमित्तेनेति जिज्ञासायामाह - मननादित्यादिना ॥ आ इत्यनुवादेन समन्तादिति व्याख्यानम् “तदेतच्चतुष्पात्’’इत्यादिकम् अध्यात्मं जडवागादिपरम्, अधिदै चाग्यादिदेवतामात्रपरमितिं प्रतीतिनिरासाय व्याचष्टे - वासुदेवादीति तन्नामा तत्तन्नामा । ‘“वागेव ब्रह्मणचतुर्थः पादः । सोऽग्निना" "प्रा एव ब्रह्मणश्चतुर्थः पादः । स वायुना'' इत्यादिवाक्यचतुष्टयतात्पर्यमाह वागादिस्थ इत्यादिना ॥ अत्रापि " स एव ' इत्यनेन स्थानभेदनिमित्त भेदशङ्कापरिहारः । तुशब्दः स्वस्य स्वसाहित्योपपादकविशेषार्थः तमेवाह - ईशोऽघटितघटकशक्तिमानिति ॥ " सह " इत्यनेनाग्निने त्यादितृतीया सहार्थ इत्युक्तं भवति । “तपति' इत्यस्य कर्मानुक्तेस्त दाह - दुष्टानिति ॥ अथशब्दः समुच्चयार्थः । " भाति च तपति च इत्यादिफलप्रतिपादकवाक्यचतुष्टयं व्याचष्टे - एवमित्यादिना || कीर्ति शब्दा पुनरुक्ततया यशःशब्दमनुवदंस्तदर्थमाह – ज्ञानेति ॥ " ब्रह्म वर्चसेन" इत्यस्यार्थः – ब्रह्म सम्प्राप्त्येत्यादि । " वर्" इत्यस्य वरणेने त्यर्थमभिप्रेत्याह – सम्प्राप्येति । तस्यैव भावप्रधानत्वमभिप्रेत्या र्थान्तरमाह – वरतामिति ॥ नन्विदं प्रतिदिनमपि सुषुप्तावस्त्यतो विद्याफलमित्यतश्च सुइत्यस्य तात्पर्यमाह - मुक्तिगामिति || आवि भूतामित्यर्थः । तथाच ब्रह्मणो विष्णोर्वरणेन प्राप्त्या चायितं संपादित माविर्भूतं वरत्वं ब्रह्मवर्चसमित्युक्तं भवति । तथोक्तमैतरेयभाष्ये परब्रह्मणी विष्णोर्वरणादेव सम्यक् चायितं स्वरूपमिति । तपति चेति सम्बन्धः ।। खं० १८ ॥
खण्डार्थः
मननान्मनोनामा साक्षान्मनः संस्थो नारायणो ब्रह्मेत्युपासीतेत्यध्यात् देहमधिकृत्य वर्तमानब्रह्मविषयकमुपासनं निरूपितम् । अथाधिदैव देवतामधिकृत्य वर्तमानब्रह्मविषयमुपासनमुच्यत इत्यर्थः । आसमन्तात् प्रकाशनादाकाशनामा तन्नामकदेवसंस्थो नारायणो ब्रह्मेत्युपासीत । पूर्वोपासनापेक्षयेयमुपासनाऽतिशयितेत्याशयेनाऽह – आकाश इति ।। योऽसौ मनःसंस्थो नारायणः स एवाऽकाशस्थो मनआकाशनामकः । अत आकाशे मनआकाशनामकोभयरूपसद्भावात् " आकाशो ब्रह्म" इत्यनेनाध्यात्ममधिदैवतं चेत्युभयं रूपमादिष्टं भवति ॥ १ ॥
तद् अध्यात्ममेतद् अधिदैवं यद् ब्रह्म तच्चतुष्पात् चत्वारः पादा यस्येति चतुष्पात् । सुदेवादिरूपचतुष्टयोपेतमित्यर्थः । अध्यात्मं तावत् पाद- चतुष्टयमाह – वाक् पाद इत्यादिना ॥ वचनाद् वाङ्नामा वाक्संस्थो मनोगतनारायणस्य पादो वासुदेवनामांशः, प्राणः प्रकृष्टनेतृत्वात् प्राणनामा प्राणसंस्थस्तस्यैव पादोंऽशः सङ्कर्षणाख्यः, चष्ट इति चक्षुर्नामा तत्संस्थः पार्दोऽशः प्रद्युम्नाख्यः शृणोतीति श्रोत्रनामा तत्संस्थः पादशाऽनिरुद्धाख्यः, इत्याध्यात्मं मनःसंस्थभगवदंशाश्चत्वारो निरू- पिताः । अथाधिदैवतम् आकाशादिगतभगवदंशा निरूप्यन्त इत्यर्थः । अग्निरङ्गनेतृत्वादग्निनामा तत्संस्थो वासुदेव: पाद एकोऽशः । आयु- ज्ञनिस्वरूपत्वाद् वायुनामा तत्संस्थः सङ्कर्षणोऽपरः पादः । आदानादादित्यनामा तत्संस्थः प्रद्युम्नोऽन्यः पादः । धर्मज्ञानातिदेशनाद् दिङ्नामाऽनिरुद्धश्चतुर्थः पादः । अत्रापि पूर्वपादचतुष्टयज्ञानापेक्षयै- तत्पादचतुष्टयज्ञानमतिशयितम् । अग्न्यादौ वागादिसंस्थानामपि क्रमेण सद्भावादित्याशयेनाऽह् - इतीति ॥ " अग्निः पादः" इत्यादिना - ध्यात्मं बागादिसंस्थं पादचतुष्टयम् अधिदैवतमग्र्यादिसंस्थं पादचतुष्टय- मित्युभयमादिष्टमुपदिष्टं भवति ।। २ ।।
तदेव विशदयति - वागेवेति । वाङ्नामा योऽयं ब्रह्मणः चतुर्थः पादो वासुदेवः स एवाग्निसंस्थोऽग्निना तन्नामकेन ज्योतिषा ज्योतिर्मयेन वासुदेवेन सह भाति तपति च दुष्टान् । एवंवेत्तुः फलमाह - भातीत्या- दिना ॥ योऽधिकारी एवमुक्तरीत्या वेदोपास्ते सः कीर्त्या यशसा ज्ञानसुखात्मकेन ब्रह्मवर्चसेन ब्रह्मणो विष्णोर्वरणेन सम्प्राप्तिरूपेण चायितम् आविर्भूतं वरत्वं मुक्तिगं यत्तेन च भाति तपति चाज्ञानादिकम् || 3 ||
एवं यः प्राणचक्षुःश्रोत्रसंस्थस्तन्नामा सङ्कर्षणादिः स एव वाय्वादिस्थः सन् वाय्वादिनामकेन सङ्कर्षणाद्याख्येन ज्योतिषा सह भातीत्यादि योज्यम्। शिष्टं समानम् ।। ४-६ ।।
।। इति अष्टादश: खण्ड: ।।