अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ ..
उपनिषत्( खण्डः-५)
उद्गीथः प्रणवश्चैक एव
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इत्यसौ वाऽऽदित्य उद्गीथ एष प्रणव ओमिति ह्येष स्वरन्नेति ॥ १ ॥
सूर्यकिरणगतवायौ भगवदुपासनाफलकथनम्
एतमु एवाहमभ्यागासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच रश्मींस्त्वं पर्यावर्तयताद् बहवो वै ते भविष्यन्तीत्यधिदैवतम् ॥ २ ॥
इन्द्रियगतवायौ भगवदुपासनाफलकथनम्
अथाध्यात्मं य एवायं मुख्यप्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति ॥ ३ ॥
एतमु एवाहमभ्यागासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच प्राणांस्त्वं भूमानमभिगायताद् बहवो वै ते भविष्यन्तीति ॥ ४ ॥
अग्निस्थभगवदुपासनया सामगानदोषस्य प्रायश्चित्तनिरूपणम्
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथः इति होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरतीत्यनुसमाहरतीति ॥ ५ ॥ खण्डः ५ ॥
भाष्यम्
आदित्यसंस्थितो वायुः प्रणवस्तद्गतो हरिः । प्रकृष्टत्वाच्च नेतृत्वाद् गतित्वादखिलस्य च ।। उद्गीथ उच्चैर्गेयत्वात् स एव पुरुषोत्तमः । स एव प्राणगो देहे ओमित्येव सदा जपन् || एत्येष भगवान् विष्णुर्ध्यायन्नेकं तमक्षरम् । एकपुत्रो मुक्तिमेति ध्यायन् प्राणेषु रश्मिषु । बहुपुत्रो विमुक्तः स्यात् तस्माद् ध्यायेत् तथा परम् ||' इति च । प्राणस्थं भूमानमभिगाय दुरुगीतमनुसमाहरति । अनुरूपमेव करोति । होतृसदनस्थमग्निस्थं भगवन्तं ध्यात्वा । 'अन्यथागानजं दोषमग्नौ ध्यात्वा हरिं परम् । अपाकरोति तस्मात् तं ध्यायेदेवाग्निगं सदा ॥' इति त्रैविद्ये ॥ ५ ॥
पदार्थकौमुदी
इदानीमधिदैवमध्यात्मं च मुख्यप्राणे उद्गीथस्योपास्त्यन्तरं तत्फलं चाऽख्यायिकयाऽऽह – अथ खल्विति ।।
तत्रोद्गीथप्रणवयोराभेदपरं मन्त्रमुदाहृत्य क उद्गीथः प्रणवश्चेत्या - शङ्कायां “असौ वा आदित्य उद्गीथः, एष प्रणवः" इत्यादित्यस्यो- द्गीथत्वं प्रणवत्वं चोच्यते । तत् पूर्वोक्तिविरुद्धमित्यतस्तद्वाक्यं प्रमाणेनैव व्याचष्टे - आदित्येति । तद्गतो हरिः प्रणव इति सम्बन्धः । नचैव- मादित्यशब्दस्य लक्षितलक्षणाप्रसङ्गः । अव्यक्ताधिकरणन्यायेनाऽदित्य- शब्दस्य वायुभगवतोरेव मुख्यत्वात् । आदित्यस्थो हरिरित्येव कुतो न व्याख्यायते । किं वायुग्रहणेनेति चेन्न । पूर्वं वायुस्थत्वेनैव भगवदुपास्तेः प्र (स्तुत) कृतत्वात् । अध्यात्मप्रकरणे "य एवायं मुख्यप्राणस्तमुद्गीथ- मुपासीत’” इति वक्ष्यमाणत्वेनाधिदैवप्रकरणेऽपि वायुस्थत्वेनैवोद्गीथो- पास्तेर्वक्तव्यत्वाच्च । हरौ प्रणवशब्दं निर्वक्ति प्रकृष्टत्वाच्चेति ।। श्रुतावुद्गीथस्य प्रणवत्वोक्तेः कथमेतदित्यत उद्गीथशब्दवाच्योऽपि स एवेत्याह उद्गीथ इति ।। अध्यात्मप्रकरणे “अथाध्यात्मम्’” इत्यस्यानन्तरं ‘‘अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ: " इति मन्त्रोदाहरणरूपमुत्तरवाक्यं संयोज्यम् । अधिदैवप्रकरणे तथोक्त- त्वात् । उत्तरत्रोक्तेर्व्यर्थत्वाच्च । तदनन्तरम् “अयं वै मुख्यप्राण उद्गीथ एष प्रणवः” इति मन्त्रव्याख्यानरूपं वाक्यमधिदैवप्रकरणवदत्रापि ग्राह्यमिति भावेन तद्वाक्यं व्याचष्टे - स एवेति ।। (यो) देहे प्राणगः स एव हरिः प्रणव उद्गीथश्चेति सम्बन्धः । स्थानभेदेन भेदशङ्कां निवर्तयितुं " स एव " इत्युक्तम् । अधिदैवाध्यात्मप्रकरणगतम् " ओमिति ह्येष स्वरन्नेति'' इति वाक्यं व्याचष्टे – ओमित्येवेति ॥ अधिदैवाध्यात्म- प्रकरणयोरादित्यदेहस्थवायुगतभगवदुपासकस्य फलं "एतमु एवाह- मभ्यगासिषं तस्मान्मम त्वमेकोऽसि " इत्युत्तरवाक्यानुसारेणाऽह ध्यायन्निति । भगवद्ध्यानस्यैकपुत्रत्वरूपैहिकमात्रफलकत्वानुपपत्तेः " मुक्तिमेति'' इत्युक्तम् । एवमुत्तरत्रापि । " रश्मींस्त्वं पर्यावर्तयतात्" ‘“प्राणांस्त्वं भूमानमभिगायतात्" इति वाक्यानुसारेणाऽदित्यरश्मीतर- प्राणस्थितवायुगतभगवदुपासकस्य फलमाह ध्यायन्निति ॥ " त्रिमुक्त" इत्यत्र वीत्युपसर्गेणाऽनन्दाधिक्यं फलमाह । “य एवायं मुख्यप्राणस्तमुद्गीथमुपासीत" इत्यध्यात्मप्रकरणवदधिदैवप्रकरणेऽपि " एष प्रणवः" इत्यनन्तरं " य एवासावादित्यस्तमुद्गीथमुपासीत" इति वाक्यं ग्राह्यमिति भावेन तदुभयमपि वाक्यं व्याचष्टे – तस्मादिति ।। तथा आदित्ये रश्मिषु देहे प्राणेषु च विद्यमानवायुगतत्वेन । अनेना- धिदैवाध्यात्मप्रकरणयोः ‘“ य एवामी रश्मयस्तमुद्गीथमुपासीत” “य एवेमे प्राणास्तं भूमानमभिगायतात्'' इति वाक्यमध्याहर्तव्यमिति सूचयति ।
“प्राणास्त्वं भूमानमभिगायतात्" इत्येतद्वाक्यं सामानाधिकरण्येन भूम्नः प्राणाभेदप्रतीतिनिरासाय व्याचष्टे - प्राणस्थमिति ॥ श्रुतौ त्वमिति युष्मच्छन्दश्रवणादभिगायतादिति प्रथमपुरुषप्रयोगानुपपत्तिरित्यतः मध्य- मपुरुष एवायमिति भावेन “अभिगाय ' ' इत्युक्तम् । अभिगानं कुर्वित्यर्थः ।
“होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरति" इति वाक्यं होतृषदनाद् हौत्रात् कर्मणो दुरुद्वानमनुसन्धत्त इति व्याख्याननिरासाय व्याचष्टे दुरुगीतमिति ॥ अनुरूपमेव करोति || प्रतिकूलं यथा न भवेत् तथा करोतीत्यर्थः । ध्यात्वाऽनुरूपमेव करोतीत्यन्वयः । अनेन होतॄणां सदनमाश्रयोऽग्निः तत्स्थो भगवान् होतृषदनशब्दाभिधेयः । पञ्चमी ल्यब्लोपनिमित्तेत्युक्तं भवति । परोक्त एवार्थः किं न स्यादित्यतः स्वोक्तार्थे प्रमाणमाह – अन्यथेति ॥
इति पञ्चमः खण्डः ।।
खण्डार्थः
प्रणवोपास्तिरुद्गीथोपास्तिश्च प्रागुक्ता । तत्र प्रणवोद्गीथयोर्भेदशङ्का- वारणायाभेदपरं मन्त्रमुदाहरति अथ खल्विति || मन्त्रारम्भ- द्योतनार्थमेतत् । य उद्गीथः स एव प्रणवः । नेदं य इन्द्रः सोऽर्जुनः" इत्यादिवदिति भावेनोक्तम् यः प्रणवः स उद्गीथ इति ॥ मन्त्रोदाहरणसमाप्तिद्योतनायेतिशब्दः । क उद्गीथः कश्च प्रणवो ययोरभेदो बोध्यत इत्यत उद्गीथप्रणवशब्दार्थमाह - असौ वा आदित्य इति ।। असावादित्य आदित्यनामाऽऽदित्यगतो मुख्यवायुस्तद्गतो हरिरेवोद्गीथ उद्गीथनामा उच्चैर्गेयत्वात् । एष आदित्यस्थमुख्यवायुगत एव प्रणव इत्युच्यते । प्रकृष्टत्वानेतृत्वाद् गतित्वादखिलस्य । किं तत इत्यतोऽत्र "य एवासावादित्यस्तमुद्गीथमुपासीत' इति वक्तव्यम् । अध्यात्मप्रकरणे तथा वक्ष्यमाणत्वात् । आदित्यस्थमुख्यवायुगतस्य भगवतः प्रणवनामकत्वे युक्तिमाह – ओमितीति । हि यस्मादेष आदित्यस्थमुख्यवायुगतो विष्णुरोमिति स्वरन् इतरजनशिक्षणायोमिति स्वात्मनं जपनेति तस्मादेष प्रणव इत्यर्थः । एवं ध्यायन्नेकं तमक्षरम् एकपुत्रो मुक्तिमेतीति वक्तव्यम् । तथा, य एवामी रश्मयस्तमुद्गीथमुपासीत । एवं रश्मिषु वायुगतत्वेन भगवन्तं ध्यायन् बहुपुत्रो विमुक्तः स्यादित्यपि वक्तव्यम् ॥ १ ॥
आदित्यस्थवायुगतभगवदुपास्तावेकपुत्रत्वं तद्रश्मिस्थवायुगतभगव- दुपास्तौ बहुपुत्रत्वं भवतीत्यत्र विश्वासजननायाऽख्यायिकामाह एतमिति । कुषीतकस्यापत्यं पुमान् कौषितकिः स्वपुत्रमुवाच । किमिति ? एतमेवाऽदित्यस्थमुख्यवायुगतमेव विष्णुं, नत्वादित्यरश्मिस्थवायुगत- महमभ्यगासिषं सम्यग्गानं कृतवान् । सम्यगुपास्तिं कृतवानिति यावत् । तस्मान्मम त्वमेक एव पुत्रोऽसीति । त्वं रश्मीन् आदित्यरश्मिस्थ- मुख्यवायुगतं भगवन्तं पर्यावर्तयतात् । पर्यावर्तयोपासनं कुरु । तथा सति बहवः पुत्रास्ते भविष्यन्ति । वै प्रसिद्धम् । इत्यधिदैवतं भगवदु- पास्तिफलमुक्तम् || २ ||
अधाध्यात्मं तदुपास्तिफलमुच्यत इति शेषः । “अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथः " इति मन्त्रोदाहरणरूपमुत्तरवाक्यमत्र संयोज्यम् । तदनन्तरम् ‘" अयं मुख्यप्राण उद्गीथ एष प्रणवः" इति मन्त्रव्याख्यानरूपं वाक्यं ग्राह्यम् । किं तत इत्यत आह- य एवायमिति ।। य एवायं मुख्यप्राणस्तं तत्रोद्गीथं भगवन्तमुपासीत । देहस्थमुख्यप्राण- गतस्य भगवतः प्रणवनामकत्वमुपपादयति- ओमिति ह्येष इति ॥ व्याख्यातम् || ३ ||
अत्रापि एवं ध्यायन्नेकं तमक्षरं एकपुत्रो मुक्तिमेतीति च वक्तव्यम् । तथा, य एवेमे प्राणास्तं भूमानमभिगायतात् । प्राणस्थत्रायुगतत्वेन भगवन्तं ध्यायन् बहुपुत्रो विमुक्तः स्यादित्यपि वक्तव्यम् । अत्राप्याख्या- यिकामाह एतमेवेति ।। व्याख्यातम् । त्वं प्राणानिन्द्रियगतमुख्य- प्राणस्थं भृमानं पूर्णगुणं भगवन्तमभिगायतात् । अभिगाय सम्यग् गानं कुरु । केनाभिप्रायेण ? मम बहवः पुत्रा भविष्यन्ति वै इत्यभिप्रायेणाभिगानं कुर्वित्यर्थः ॥ ४ ॥
दुरुद्गानहेतुकपापनिवृत्त्यर्थमुपास्तिमाह – होतृषदनादिति ॥ ल्यब्लोप- निमित्ता पञ्चमी । होतृसदनस्थमग्निस्थं भगवन्तं ध्यात्वा दुरुद्गीतं प्रामादिकं स्वरादिहीनमुद्गानमनुरूपमेव करोतीत्यर्थः । द्विरुक्तिः पूर्ववत् ।। ५ ।।
॥ इति पञ्चमः खण्डः ।।