अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीत
उपनिषत् ( खण्ड:-३ )
अधिदैवं मुख्यप्राणे भगवदुपासना
अथाधिदैवतं य एवासौ तपति तमुद्गीथमुपासीत । उद्यन् वा एष प्रजाभ्य उद्गायत्युद्यंस्तमो भयमपहन्त्यपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १ ॥
शरीरस्थप्राणे सूर्यमण्डलस्थप्राणे च भगवदुपासना
समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं तस्माद्वा एतमिमममुं चोद्गीथमुपासीत ॥ २ ॥
व्याननामके वायौ भगवदुपासना
अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति स प्राणो यदपानिति सोऽपानोऽथ यः प्राणापानयोः सन्धिः स व्यानो यो व्यानः सा वाक् तस्मादप्राणन्ननपानन् वाचमभिव्याहरति या वाक् सा ऋक् तस्मात् अप्राणन्ननपानन् ऋचमभिव्याहरति या ऋक् तत्साम तस्मादप्राणन्ननपानन् साम गायति यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन् उद्गायति ॥ ३ ॥
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानन् तानि करोत्येतस्य हेतोर्व्यानमोवोद्गीथमुपासीत ॥ ४ ॥
उद्गीथाक्षरोपासना
अथ खलूद्गीथाक्षराण्युपासीतोद् गीथ इति प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो हि गिर इत्याचक्षतेऽन्नं थमन्ने हीदं सर्वं स्थितं द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य एवोद्वायुर्गीरग्निस्थं सामवेद एवोद्यजुर्वेदो गीर्ऋग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ ५ ॥
काम्यसाधकवस्तुषु भगवदुपासना
अथ खल्वाशीः समृदि्धरुपसरणानीत्युपासीत येन साम्ना स्तोष्यन् स्यात् तत्सामोपधावेद्यस्यामृचि तामृचं यदार्षेयं तमृषिं यां देवतामभिष्टोष्यन् स्यात् तां देवतामुपधावेद्येन च्छन्दसा स्तोष्यन् स्यात् तच्छन्द उपधावेद्येन स्तोमेन स्तोष्यमाणः स्यात् तं स्तोममुपधावेद्यां दिशमभिष्टोष्यन् स्यात् तां दिशमुपधावेदात्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥६॥ खण्डः ३ ॥
भाष्यम्
'आदित्यसंस्थितो नित्यं प्राणस्तपति नापरः । प्रकाशनं च तपनं काष्ठवत् सूर्यगं भवेत् ॥ सूर्यमण्डलगो वायुरुदयास्तमयोज्झितः । अपि प्रजाभ्य उद्यं चैवोद्गायति जनार्दनम् ॥ आदित्यमण्डलस्थश्च सर्वप्राणिगतस्तथा । वायुः समान एवायमुष्णोऽसावपि च स्फुटम् || तस्मादस्मिन्नमुष्मिन् वाऽप्युद्गीथाख्यं जनार्दनम् । उपासीत विमोक्षाय सर्वकामाप्तये तथा ।। ' इति च ।
केशवः स्वः स्वतन्त्रत्वात् तद्रतेर्मारुतः स्वरः ।शरीरस्थश्च सूर्यस्थः प्रतिप्रत्या (१) समन्ततः ।। मां प्रतीत्यत एवासौ प्रत्यास्वर उदाहृतः ।
त्रिविधप्राणादिपञ्चकनिरूपणम्
प्राणाद्यास्त्रिविधाः पञ्चप्रधानो वायुरेव च ॥ मुख्यपञ्चकरूपः सन् गरुडो मध्यपञ्चकः । अवमः पञ्चकस्त्वन्ये प्राणाद्यास्तस्य सूनवः ।। इति त्रेधा विभागोऽयं विभागोऽन्यश्चतुर्थकः । प्राणापानौ शेषवीन्द्रौ तथोदानसमानकौ || रुद्रेन्द्रौ तत्परः श्रेष्ठो वायुर्व्यान उदाहृतः । तस्मिन्नुद्गीथनामानमुपासीत हरिं परम् ।।
योऽसौ व्यानगतो विष्णुः स वागृक्सामगः सदा । उद्गीथे च स एवैकस्तस्माद् व्यानाद्धि तत्क्रियाः ॥ उद्गीथनामा भगवान् स्थितो व्यानादिपञ्चके । वीर्यवत् कर्मकृत् तस्माद् व्यान एव ह्युदाहृतः ।। तस्माद् व्यानगतं विष्णुमुपासीतैव नित्यशः । यद्यप्येको हि भगवान् सर्वदा सर्ववस्तुगः ॥ अनूनोद्रिक्तमहिमो निर्विशेषः सदैव च । तथाऽपि तत्क्रियाभेदान्नामरूपादिकं पृथक् ।। उच्यते ह्यपृथक्त्वेऽपि पूर्णैश्वर्यैकहेतुतः ।
अविशेषोऽपि भगवान् सर्वशक्तित्वहेतुतः ॥ विशेषहेतुकं सर्वं करोत्यविकृतः सदा । उद्गीथाक्षरगं चैव प्राणादिषु च संस्थितम् ॥ आशीः समृद्धिहेतुष्वप्यखिलेषु व्यवस्थितम् । एकमेव हरिं वेद यः स सर्वेष्टमाप्नुयात् ।।' इति च । 'उच्छब्दवाच्याः प्राणाद्या वागाद्या गीरितीरिताः । अन्नाद्यास्थमिति प्रोक्तास्तेषूद्गीथो हरिः स्थितः ।।' इति च (१) । आत्मानं परमात्मानमन्ततः सर्वोत्तमत्वेन सर्वत्रोपसृत्य ॥३॥
पदार्थकौमुदी
एवमध्यात्मं वायोः सर्वोत्तमत्वज्ञानपूर्वकं तस्मिंस्ततोऽप्युत्तमत्वे- नोपासनीयो भगवानित्युक्तम् । इदानीमधिदैवतं तथोद्गीथोपास्तिमाह - अथेत्यादिना ।। " तत्र य एवासौ तपति तमुद्गीथमुपासीत" इति वाक्यं सूर्यगे मुख्यवायावुद्गीथोपास्तिः कर्तव्येति प्राग् व्याख्यातम् । तदसत् । "य एवासौ तपति" इति तपनकर्तृत्वेन सूर्यस्यैव प्रतीत्या सूर्यान्तर्गतभगवदुपास्तिकर्तव्यताया एव प्रतीतेरित्यतस्तपनकर्तृत्वमपि सूर्यस्थप्राणस्यैव धर्मो न सूर्यस्येति प्रमाणेनैवाऽह - आदित्येति || अपर आदित्यः । किं तत्तपनमित्याशङ्कां परिहरन् तपनस्याऽदित्यस्थत्वगोचर- प्रमाणविरोधं च परिहरति - प्रकाशनमिति ॥ काष्टवत् काष्टगततपन-मिव ।
ननु यदि "य एवासौ तपति ' इत्यत्र सूर्यमण्डलगतो वायुरुच्यते तदोत्तरवाक्ये उद्यन्नित्युक्तिरयुक्ता स्यात् । सूर्यमण्डलस्य नित्योदितत्वेन तद्गतस्य तस्योदयास्तमयशून्यत्वादित्यतस्तदर्थमेव प्रजाभ्य इत्युक्तमि - त्याशयेन ‘“उद्यन् वा एष प्रजाभ्यः" इत्यादिवाक्यं व्याचष्टे – सूर्येति ॥ एवशब्देन वा इत्येतदवधारणार्थकमित्युक्तं भवति । गायत चशब्दान्वयः । तेन ‘“तमोभयमपहन्ति ' ' इति श्रुत्युक्तस्य समुच्चयः । जनार्दनमिति शेषोक्तिः ।
ननु “समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ ” इत्यत्र देह- सूर्यमण्डलयोरुष्णत्वेन साम्यमुच्यते । तथाच पूर्वं देहसूर्यमण्डलयो- रेवोद्गीथोपास्तिः कार्येति व्याख्येयमित्यतस्तद् यथावद्व्याचष्टे आदित्यमण्डलस्थ इति ।। चशब्दतथाशब्दौ परस्परसमुच्चये । द्वितीय- चशब्देन उष्ण इत्यस्यानुकर्ष: । अस्त्वेवं साम्यं किं तत इत्यतः प्राप्तं " तस्माद् वा एतमिमममुं चोद्गीथमुपासीत" इति वाक्यं सामानाधि- करण्यभ्रान्तिनिरासाय द्वितीयायाः सप्तम्यर्थत्वमभिप्रेत्य व्याचष्टे तस्मादिति । वाशब्दोऽवधारणार्थ उपासीत्यनेन सम्बध्यते । अपि- शब्दोऽस्मिन्नित्युक्तसमुच्चयार्थः । वा इत्यनुवादेनापीति व्याख्यानं वा । श्रुतावुपासनफलानुक्तेस्तदाह विमोक्षायेति ॥ " स्वर इतीममाचक्षते स्वर इति प्रत्यास्वरः इत्यमुम् ' ' इति वाक्यं व्याचष्टे – केशव इति ।। शरीरस्थः सूर्यस्थमारुतः स्वर इत्युदाहृतः इति सम्बन्धः । असौ सूर्यस्थः प्रत्यास्वर उदाहृतः । तत्र प्रतीत्येतद् वीप्साभिप्रायमिति भावेन प्रतिप्रतीत्युक्तम् । आ इत्यनुवादेन समन्तत इति व्याख्यानम् । किं प्रतीत्यत उक्तम् – मामिति ॥ तथाच यतः आसमन्तान्मां प्रति वर्तत इत्युदाहृतोऽत एव प्रत्यास्वरः । नतु निमित्तान्तरेण । स्वनामकंविष्णु-रतत्वात् स्वर्ः प्रत्या चासौ स्वरश्चेति प्रत्यास्वर इत्यर्थः । “अथ यः प्राणापानयोः सन्धिः स व्यानः" इत्यत्र प्राणापानसन्धिप्रवर्तकत्वेन व्यानस्योत्तमत्वमुच्यते । तत्र कौ तौ प्राणापानौ ? न तावन्मुख्य- प्राणस्वरूपभूतौ । ताभ्यां तत्स्वरूपभूतव्यानस्योत्तमत्वासम्भवात् । अत एव न दासभूतौ । नापि प्राणापानौ दासभूतौ व्यानः स्वरूपभूत इति युक्तम् । भिन्नपञ्चकग्रहणायोगादित्यतोऽत्र विवक्षितप्राणादिस्वरूपं वक्तुं प्राणादिपञ्चकस्वरूपं तावदाह - प्राणाद्या इति ॥ प्राणाद्याः पञ्च त्रिविधा इत्यन्वयः । त्रैविध्यमेव दर्शयति मुख्येति ॥ मुख्यपञ्चकरूप एव सन्नस्ति । चशब्दोऽवधारणार्थो मध्यपञ्चक एवेत्येतेन सम्बध्यते । तुशब्दोऽवधारणार्थः । तस्य प्रधानवायोः । उक्तविभागस्य प्रकृतानुप- योगात् प्रकृतोपयुक्तविभागान्तरमाह - विभागोऽन्य इति ।। तमेव दर्शयति प्राणेति । तथाचात्र प्राणापानौ शेषवीन्द्रौ व्यानः श्रेष्ठो वायुर्विवक्षित इति नानुपपत्तिरिति भावः । अत एव तत्पर इत्युक्तम् ।
"अथ खलु व्यानमेवोद्गीथमुपासीत" इति वाक्यं सामानाधिकरण्ये- नाभेदोक्तिभ्रमनिरासाय व्याचष्टे - तस्मिन्निति । व्यान इत्यर्थः । श्रुतौ ‘“यो व्यानः सा वाक्’” ‘“या वाक् सर्क्” “यर्क् तत्साम’” ‘“यत्साम स उद्गीथ:’” इत्यत्र व्यानवाक्ऋक्सामोद्गीथनामभेद उच्यत इति प्रतीयते, तदसत् । तस्य बाधितत्वात् । नच व्यानस्यैव वागादिस्थत्वमुच्यत इति व्याख्येयम् । व्यानस्यापि स्वातन्त्रेण तत्क्रियाप्रवर्तकत्वाभावादित्यतस्तद् व्याचष्टे – योऽसाविति || व्यानगत इत्युक्त्या विशेषणीभूतव्यानस्यापि वागादिगतत्वं लभ्यते । अन्यथा व्यानस्य विशिष्टप्रतिमात्वानुप- पादकत्वेनास्यासाङ्गत्यापत्तेः । अत एव " व्यानाद्धि तत्क्रिया" इति वक्ष्यति । उद्गीथे च गतः । उद्गीथो नाम सामभेदः । स्थानभेदेन भेदशङ्कानिरासायैक इत्युक्तम् ।
‘“तस्मादप्राणन्ननपानन्वाचमभिव्याहरति" इत्यादि “ उद्गायति” इत्यन्तं वाक्यं व्याचष्टे – तस्मादिति ॥ तत्क्रियाः वागूगभिव्याहरण- सामगानोद्गानरूपक्रिया इत्यर्थः । तस्मादित्युक्तं हेतुं विवृण्वन्नुत्तरत्रापि हेतुमाह – उद्गीथनामेति ॥ अत्र व्यानशब्देन पृथक्स्थितो व्यान उच्यते आदिपदेन वागुक्सामोद्गीथगतं व्यानरूपचतुष्टयं ग्राह्यम् । तथा च भगवतो वागादिचतुष्टयगतव्यानगतत्वं पूर्वत्र हेतुः । तेन तस्मादित्येतद् विष्ण्वा- विष्टस्य व्यानस्य वागादिगतत्वादिति विवृतम् । पृथस्थितव्यानगतत्वं तूत्तरत्र हेतुरिति बोध्यम् ।
" अतो यान्यन्यानि वीर्यवन्ति कर्माणितानि करोति' इति वाक्यं व्यानस्य स्वातन्त्र्येण वीर्यवत्कर्मकर्तृत्वमुच्यत इति भ्रमनिरासाय व्याचष्टे - वीर्यवदिति ॥ यस्माद् व्यानगतो भगवांस्तस्मादित्यर्थः । एवशब्देन प्राणापानव्यवच्छेदः । एतस्य हेतोः "व्यानमेवोद्गीथमुपासीत" इति वाक्यं सामानाधिकरण्यभ्रमनिरासाय व्याचष्टे तस्मादिति ॥ " उपासीतैव" इत्युक्त्या श्रुतावेवशब्दो भिन्नक्रम इत्युक्तं भवति । श्रुत्यनुसारात् प्राणापानव्यवच्छेदाय व्यानगतमेवेति वा सम्बन्धः ।
ननु तत्र तत्र स्थितानि भगवद्रूपाणि किं भिन्नान्यताभिन्नानि । आद्ये “स एवैकः” इत्युक्तविरोधः । द्वितीये नामरूपादिपार्थक्योक्तिविरोधः । किञ्च, वागादिंगतं रूपमृगादिगतरूपकार्यकारणासमर्थं न वा । आद्ये न्यूनोद्रिक्तमहिमत्वेन सविशेषत्वप्रसङ्गः । द्वितीये सर्वत्राविशिष्टत्वात् सर्वमप्यविशेषं कुर्यात् । कुर्वाणो वा जीववत् सुखदुःखादिविकारवांश्च स्यादित्याशङ्कच निराकरोति - यद्यपीत्यादिना || एकोऽभिन्नः । आद्यार्धेनाभेदपक्षोऽङ्गीकृतः । प्रामाणिकत्वज्ञापनाय हिशब्दः । द्वितीया-र्धेन सामर्थ्याभावपक्षमनभ्युपगमेन पराचष्टे । निर्विशेषश्चेत्यन्वयः । अभेदपक्षोक्तं दोषं परिहरति तथाऽपीति । तथाऽपीत्यस्य विवरणम्- अपृथक्त्वेऽपीति ।। नामरूपादिकं पृथगुच्यत इत्यत्र हेतुः - तत्क्रिया - भेदादिति ।। तत्तत्क्रियाकर्तृत्वभेदादित्यर्थः । अपृथक्त्वे तदपि कथमित्यत उक्तम् - पूर्णेति ।। सामर्थ्य सद्भावपक्षोक्तदोषं परिहरति- अविशेषोऽ- पीति । सामर्थ्यविशेषशून्योऽपीत्यर्थः । विशेषहेतुकं सामर्थ्यविशेषोपेत- मिति यावत् । अविकृतो दुःखादिविकारशून्यः । “दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः” इत्यादिवाक्यमुद्गीथाक्षरादिमात्रोपास्त्योक्तं फलं भवतीति प्रतीतिनिरासाय व्याचष्टे – उद्गीथेति । एवशब्देनोद्गीथाक्षरव्यावृत्तिः । चशब्दौ परस्परसमुच्चये । उद्गीथाक्षराण्युपास्ते उद् गी थ इतीत्यत्रोद्गीथ इतीत्यस्य तात्पर्यम् – उद्गीथाक्षरगमिति । उद्गीथाक्षराणीत्यस्य तात्पर्यम् प्राणादिषु च संस्थितमिति ॥ “ आशी: समृद्धिहेतुष्वपि ''इत्यनेन " अथ खल्वाशीः समृद्धिः" इत्यादि व्याख्यातम् । "सर्वेष्टमाप्नुयात्" इत्यनेन “अभ्याशो ह यदस्मै स कामः समृद्ध्येत " इति वाक्यमपि व्याख्यातम् ।
ननु ‘“उद्गीथाक्षराण्युपास्ते" इत्युक्तोद्गीथाक्षरशब्दस्य " प्राणादिषु च संस्थितम्” इति व्याख्यानमयुक्तम् । पूर्वं " प्राण एवोद् वाग्गीरन्नं थम्" इत्यादिना प्राणादीनामेवोच्छशब्दादिवाच्यत्वेनोक्ततयाऽत्राप्यु- द्गीथाक्षरशब्देन तेषामेत्र ग्राह्यत्वात् । नह्यनुक्तस्य भगवतोऽनुवादे ग्रहणं सम्भवतीत्यतस्तानि पूर्ववाक्यान्यपि भगवत्परतया प्रमाणेन व्याचष्टे उच्छब्देति ।। “आत्मानं तत उपसृत्य " इति वाक्यमात्मशब्दस्य जीवाद्यर्थत्वप्रतीतिं निवारयन् व्याचष्टे आत्मानामिति । सर्वत्र सर्वोपास्तिषु उपसृत्य ज्ञात्वा || ३ || इति तृतीयः खण्डः ।।
खण्डार्थः
अथ, अध्यात्मं मुख्यप्राणे उद्गीथोपास्तिकथनानन्तरम् । अधिदैवतं मुख्यवायावुद्गीथोपास्तिरुच्यत इति शेषः । य एवासौ आदित्य संस्थितो मुख्यप्राणस्तपति तं तत्रोद्गीथं भगवन्तमुपासीत । तस्योद्गीथाख्यविष्णु- प्रेमास्पदप्रतिमात्वमुपपादयति उद्यन् वा इति । एष आदित्य संस्थितो मुख्यप्राणः स्वयमुदयास्तमयोज्झितोऽपि प्रजाभ्यः प्रजार्थमेवोद्यनुद्रायति जनार्दनमिति शेषः । उद्यन्नेव तमोऽन्धकारं तज्जन्यं भयं च प्राणिनामप- हन्ति । एवं ज्ञानिनः फलमाह - अपहन्तेति । य एवमुक्तरीत्याऽऽ - दित्यस्थं प्राणं वेद स तमसोऽज्ञानस्य तत्कृतभयस्य चापहन्ता भवति ह वै ॥ १ ॥
एवमध्यात्ममधिदैवतं च मुख्यप्राणे भगवदुपास्तिः कर्तव्येत्युक्तम् । तत्र नाध्यात्ममधिदैवतं च मुख्यप्राणे विशेषः । अतस्तत्रोभयत्रापि भगवदुपास्तिः कर्तव्येति भावेनाध्यात्ममधिदैवतं च तयोः साम्यमाह - समान इति ।। अयं देहस्थश्व असावादित्यस्थश्च मुख्यप्राणः समान एव वै । कथम् ? अयं देहस्थो मुख्यप्राण उष्णः असावादित्यमण्डलस्थ- श्वोष्णः। तदधिष्ठिते देहे मण्डले चौष्ण्यदर्शनात् । अस्त्वेवं साम्यं, किं तत इत्यत आह तस्मादिति ।। यस्मादध्यात्ममधिदैवतं च समान एव वायुस्तस्मादेव हेतोरेतमेतस्मिन् मुख्यवायाविममस्मिन् देहस्थे अमुष्मिन् सूर्यस्थे चोद्गीथमुपासीतेति योजना । अध्यात्ममधिदैवं च मुख्यप्राणस्य विशिष्टप्रतिमात्वे हेत्वन्तरमाह – स्वर इति । इमं देहस्थं मुख्यप्राणम् । स्वतन्त्रत्वेन स्वनामक विष्णुरतत्वात् स्वर इत्याचक्षते । अमुमादित्यस्थं स्वर इति प्रत्यास्वर इत्याचक्षते । आसमन्तान्मां प्रति वर्त इत्युक्तत्वात् प्रत्यास्वरनामकविष्णुरत्वात् स्वरः प्रत्या चासौ स्वरश्चेति प्रत्यास्वरः । तस्मादेतमिमममुं चास्मिन्नमुष्मंश्वोद्गीथमुपासीतैव ॥ २ ॥
इदानीं व्याननामकमुख्यप्राणनिष्ठतयोद्गीथोपास्तिमाह – अथेति ॥ अथ खल्विति पक्षान्तरद्योतकम् । व्यानमेव व्याननामकमुख्यवायावेवो- द्गीथमुपासीत । व्यानस्य भगवद्विशिष्टप्रतिमात्वोपपादनाय तन्माहात्म्यं वक्तुं तदुपयुक्तत्वेन प्राणापानस्वरूपमाह - यद्वा इति ।। यद् यः प्राणिति ऊर्ध्वप्राणनं करोति स प्राणो वै । यदपानिति योऽधोनयनं करोति सोऽपान इत्यर्थः । अत्र प्राणापानशब्दौ शेषवीन्द्रवाचकौ । यदर्थमेतदुक्तं तदाह - अथेति । य: प्राणापानयोः सन्धिः सन्धिप्रवर्तकः स व्यान इत्यर्थः । व्यानाख्यमुख्यवायोर्विशिष्टप्रतिमात्वोपपादनाय वागादिप्रवर्तकत्वं माहा- त्म्यान्तरमाह – यो व्यान इत्यादिना ।। यो व्यानो मुख्यवायुः । सा वाग् वागन्तर्गतो वाङ्नामा वाक्प्रवर्तकश्च । व्यानस्य स्वातन्त्र्येण वाक्- प्रवर्तकत्वं किमित्यतो नेत्याह – यो व्यान इति || यो व्यानो व्यानगतो विष्णुः । सा वाग् वाङ्नामा वाक्प्रवर्तको वागन्तर्गतश्च । अतो विष्ण्वाविष्टस्यैव व्यानस्य वाक्प्रवर्तकत्वमिति भावः । ननु व्यानस्यैव वाक्प्रवर्तकत्वं कुतः ? प्राणापानयोरेव तत्प्रवर्तकत्वं किं न स्यादित्यतो व्यतिरेकेण तदुपपादयति तस्मादिति । तस्माद् वाचो व्यान- प्रवर्त्यत्वादेवाप्राणन्ननपानन् प्राणापानाख्यशेषवीन्द्रव्यापारशून्यः प्राणा- पानी निरुद्धयेति यावत् । वाचमभिव्याहरति । अतो न प्राणापानौ वाक्प्रवर्तकौ किन्तु व्यान एवेति भावः ।।
या वाग् वाङ्नामा वागन्तर्गतो वाक्प्रवर्तको व्यानः सा ऋग् ऋङ्नामा ऋगन्तर्गतो ऋक्प्रवर्तकः । किं स्वातन्त्र्येण ? न । किन्तु या वाग् वाङ्नामा वाक्प्रवर्तको व्यानगतो विष्णुः सा ऋग् ऋङ्नामा ऋक्प्रवर्तक व्यानगतश्च । अतस्तदाविष्टस्यैव ऋक्प्रवर्तकत्वमिति योज्यम् । प्राणापानयोरेव ऋक्प्रवर्तकत्वं किं न स्यादित्यत आह तस्मादिति । पूर्ववदर्थः । या ऋग् ऋगन्तर्गतां ऋङ्नामा ऋप्रवर्तको व्यान: तत् साम सामनामकः सामान्तर्गतः सामप्रवर्तकश्च । किं स्वात- न्त्र्येण ? न । किन्तु या ऋग् ऋङ्नामा ऋक्प्रवर्तकव्यानगतो विष्णुस्तत् साम सामनामा सामप्रवर्तकव्यानगतश्च । प्राणापानयोरेव सामप्रवर्तकत्वं किं न स्यादित्यत आह – तस्मादिति । यत् साम सामनामकः सामगतः सामप्रवर्तको व्यानः स उद्गीथः उद्गीथो नाम सामभेदः । उद्गीथ- नामोद्गीथस्थस्तत्प्रवर्तकश्च । किं स्वातन्त्र्येण ? न । किन्तु यत्साम सामनामकः सामप्रवर्तकव्यानगतो विष्णुः स उद्गीथनामोद्गीथ- प्रवर्तकव्यानगतश्च । उद्गीथप्रवर्तकत्वं न प्राणापानयोरित्याह तस्मा- दिति । यद्यपि प्रागू वागुक्सामोद्गीथशब्दैर्द्विरूपसरस्वतीप्राणपरमात्मान एवोक्तास्तथाऽप्यत्र तेषामसम्भवाद् वेदग्र्वेदसामवेदोद्गीथसामभेदानां तदवान्तराभिमानिनां वा ग्रहणमिति ज्ञेयम् || ३ ||
न केवलं वागादिप्रवर्तक एव व्यानः किन्तु अतः पूर्वोक्तादन्यान्यपि यानि वीर्यवन्ति प्रयत्नाधिक्यसाध्यानि कर्माणि । कानि तानि ? यथाऽग्नेर्मथनं निर्घर्षेणोत्पादनमाजेर्मर्यादायाः सरणमत्रनमाजेः सङ्ग्राम- स्यार्थं सरणं गमनं वा । दृढस्य धनुष आयमनमाकर्षणमित्यादीनि । तान्यपि अप्राणन्ननपानन् करोति । अतो व्यान एव सर्वप्रवर्तकतया सर्वोत्तम इति भावः । किं तत इत्यत आह - एतस्येति । एतस्य पूर्वोक्तस्य तोस्सकाशाद् व्यानमेव व्यान एवोद्गीथं भगवन्तमुपासीत ॥ ४ ॥
इदानीमुद्गीथाक्षरप्रतिपाद्यप्राणादिस्थितभगवदुपास्तिमाह अथेति । उद्गीथाक्षराणि उद्गीथाक्षराप्रतिपाद्यदेवतासु स्थितानि भगवद्रूपाण्युपा- सीत । कान्युद्गीथाक्षराणीत्यत आह उद्गीथ इति ॥ कास्ता उद्गीथाक्षरदेवता यासु भगवदुपास्तिः कर्तव्येत्यत आह – प्राण एवेत्यादिना ।। प्राणो मुख्यप्राण एवोद् उच्छब्दवाच्यः । कुतः ? हि यस्मात् प्राणेनेदं जगदुत्तिष्ठति उत्पद्यते । वाक् सरस्वती गीः । कुतः ?
वाचो हि गिर इत्याचक्षते विद्वांसः । अन्नमन्नाभिमानिचतुर्मुखस्थम् “अन्नाभिमानी ब्रह्मैव प्राणो वायुरितीरितः" इति यत्रोक्तम् । कुत: ? अन्नेहीदं सर्वं जगत् स्थितम् ।
एवमुत्तरत्रापि द्र्यन्तरिक्षादिशब्दैस्तदभिमानिनो ग्राह्याः । उद्गीथा- क्षरवाच्यप्राणादिस्थितभगवदुपासकस्य फलमाह - दुग्ध इति ॥ योऽधिकारी एतानि एवमुच्छन्दादिवाच्यतया विद्वानुद्गीथाक्षराणि उद्गीथाक्षरवाच्यप्राणादिस्थितभगवद्रूपाणि उपास्ते, किमिति उद्गीथ इति उद्गीथाक्षराणीतिं यावत् । अस्मै उपासकाय वाग् वाङ्नामा भगवान् वाग्दोहं वाचःफलं दुग्धे । कोऽसौ वाग्दोहः यो वाचो दोहः श्रुत्यादिसिद्धो मोक्षादिलक्षणस्तमिति सम्बन्धः । स उपासकोऽन्नवानन्नादश्चा- न्नादनसमर्थश्च भवति || ५ ॥
इदानीमाशीः समृद्धिहेतुष्वपि भगवदुपास्तिमाह - अथेति || आशीः समृद्धिराशिषः काम्यस्य समृद्धिर्येन स आशीः समृद्धिः । कामसमृद्धिहेतुरुच्यत इति शेषः । सामादिस्थितानि भगवद्रूपाणि उप- सारयन्तीष्टमित्युपसरणानीत्युपासीत । उपास्तिप्रकारमेवाऽह - येनेति ॥ पुरुषों येन साना सामविशेषेण स्तोष्यन् स्तोत्रं करिष्यन् स्यात् तत्सामोपधावेद्आददीत । (तत्सामगं हरिं सर्वोत्तमत्वेन ज्ञात्वा तत्साम गायेदित्यर्थः । ) ।
यस्यामृचि आरूढेन साम्ना स्तोष्यन् स्यात् ताम् ऋचमुपधावेत् । यदार्पयं येनर्षिणा दृष्टं साम स्तोतुमिष्टं तमृषिमुपधावेत् । यां देवतामभिष्टोष्यन् स्यात् सम्यक् स्तोत्रं करिष्यन् स्यात् तां देवतामुप- धावेत् ।
येन छन्दसा गायत्र्यादिना स्तोष्यन् स्यात् तच्छन्द उपधावेत् । येन स्तोमेन गानविशेषेण वाक्यसमूहेन वा स्तोष्यमाणः स्यात् तं स्तोममुप- धावेत् । यां दिशं दिग्देवतामभिष्टोष्यन् स्यात् तां दिशम् उपधावेत् ।
ननु कथमेतद्भगवदुपासनम् ? यां देवतामिति स्वाभिप्रेत- यत्किञ्चिद्देवताया एव स्तुत्यत्वोक्तेरित्यतो न सर्वोत्तमत्वेनेतरदेवतास्तोत्रं कर्तव्यं किन्त्वित्यत आह आत्मानमिति ॥ काममभिलषितं ध्यायन्नप्रमत्तः प्रमादरहितः पुरुष आत्मानं परमात्मानम् अन्ततः सर्वोत्तमत्वेनोपसृत्य ज्ञात्वा स्तुवीतेतरदेवतामिति शेषः । कुत एवं ज्ञात्वा स्तोत्रं कर्तव्यमित्यत आह - अभ्याश इति । यद् यस्माद् यत्कामो यः कामो यस्य सो यत्कामः पुरुषः, सर्वोत्तमत्वेन भगवन्तं ज्ञात्वेतरदेवतां स्तुवीत । स काम अस्मै स्तावकायाभ्याशः शीघ्रं समृद्ध्येत सम्यक् परिपूर्णो भवति । तस्मादात्मानमन्तत उपसृत्य स्तुवीतेति सम्बन्धः । इतिशब्दो विद्यासमाप्त्यर्थः । खण्डत्रयस्याप्युद्गीथोपास्तिप्रति- पादकत्वनैकविद्यात्वात् । द्विरुक्तिस्तु पूर्वोक्त विद्यार्थावधारणार्थं । उक्तं
“अध्यायान्ते द्विरुक्तिः स्याद् वेदे वा वैदिकेऽपि वा । विचारो यत्र सज्ज्येत पूर्वोक्तस्यावधारणे ॥” इति । अत्राध्यायान्तेऽ- पीत्यपिशब्दसम्बन्धः । तेन विद्यान्तरस्य समुच्चय इति नानुपपत्तिरिति ज्ञेयम् । एवमुत्तरत्रापि ।। ६ ।।
।। इति तृतीयखण्डः ।।