अथ होवाच सत्ययज्ञं पौलुषिं..
उपनिषत् (खण्डः - १३)
वैश्वानरस्य चक्षुरादित्यनामकमिति निरूपणम्
अथ होवाच सत्ययज्ञं पौलुषिं प्राचीनयोग्य कं त्वमात्मानमुपास्स इत्यादित्यमेव भगवो राजन्निति होवाचैष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् तव बहु विश्वरूपं कुले दृश्यते ॥ १ ॥
प्रवृत्तोऽश्वतरीरथो दासीनिष्कोऽत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते चक्षुष्ट्वेतदात्मन इति होवाचान्धोऽभविष्यो यद्यन्मां नागमिष्यतः इति ॥ २ ॥ १३ ॥
भाष्यम्
............सर्वरूपातिदर्शनात् ॥ चक्षुस्तु विश्वरूपाख्यमादानादायुषामपि । आदित्याख्यं च सूर्यस्याप्याश्रयं सर्वदा स्मृतम् ॥
पदार्थकौमुदी
" सत्ययज्ञम् ' ' इति खण्डतात्पर्यमाह - सर्वेति ॥ विष्णोश्वक्षुः सर्वरूपातिदर्शनाद् विश्वरूपाख्यमादित्याख्यं चेत्यन्वयः आदित्याख्यत्वे निमित्तान्तरमाह - सूर्यस्यापीति ॥
खण्डार्थः
अथौपमन्यवोपदेशानन्तरं सत्ययज्ञं पौलुषिं प्रत्युवाचेत्यादिकं समानम् । प्राचीनयोग्य अनादियोग्यतावान् । आदित्यमेवाऽदानादादित्यनामक- मादित्यस्थमेव | सर्वरूपातिदर्शनाद् विश्वरूपाख्यः । बहुविश्वरूपमित्युक्तं विशदमाह ।। १ ।।
प्रवृत्त इति ।। चक्षुस्तु चक्षुरेव || २ ||
॥ इति त्रयोदशः खण्डः ॥