ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम्

उपनिषत्(खण्डः- ४)

प्रणवोपासना, तत्फलं च

ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति तस्योपव्याख्यानम् । देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशंस्ते छन्दोभिराच्छादयन्यदेभिराच्छादयंस्तच्छन्दसां छन्दस्त्वं तान् उ तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि सामि्न यजुषि तेऽनुवित्त्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥ १ ॥ यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवं सामैवं यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरं स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥ २ ॥ खण्डः ४ ॥

।। २ ।। खण्डः ४ ॥

भाष्यम्

'स्वरतेस्तु स्वरो विष्णुस्तद्रतेर्वायुरुच्यते । वायुस्वरे स्वरं विष्णुमोमाख्यं समुपासिरे || देवास्तेनामृतं प्राप्ता मुक्त्याख्यं मृत्युवर्जिताः । मारणान्मृत्युरित्युक्ता दुर्गा तद्भयतः सुराः । ओमित्युपास्य तं विष्णुं परमामृतमापिरे ॥ ' इति सन्ध्याने (२) । ऊर्ध्वाः उत्तमाः ॥ ४॥

पदार्थकौमुदी

वायुगतत्वेन प्रणवोपस्तेः पूर्वं फलानुक्तेस्तामनुवदन् संसारनिवृत्ति- लक्षणं फलमाख्यायिकयाऽऽह - ओमित्येतदक्षरमित्यादिना ॥ तत्र ‘‘स्वरमेव प्राविशन्’’इत्यत्र स्वरशब्दः प्रणवपर इत्यसत् । ‘“एष उ स्वरो यदेतदक्षरमेतदमृतमभयम्इत्यक्षरत्वामृतत्वाभयत्वोक्तिविरोधात् । तेषां च ब्रह्मलिङ्गत्वात् । " तत् प्रविश्य देवा अमृता अभवन्इत्युक्तिविरोधाच्चेति भावेन प्रमाणेनैव स्वरशब्दार्थमाहस्वरतेरिति ।। तुशब्दोऽवधारणार्थः ।

तद्रतेः स्वतन्त्रत्वात् स्वनामक विष्णुरर्वायुः स्वर इत्युच्यत इत्यर्थः । अस्त्वेवं विष्णुर्वायुश्च स्वरनामकस्तथाऽपि "स्वरमेव प्राविशन्'' इत्युक्तः प्रवेशो न प्रसिद्ध एवोपपद्यते । " तत् प्रविश्य देवा अमृता अभवन्इत्युक्त्ययोगात् । अन्यथा सुषुप्तिप्रलययोरप्यमृतत्वापत्तेरित्यतस्तद्वाक्यं व्याचष्टे - वायुस्वर इति । अनेन स्वरमित्येतदावर्तनीयम् । तत्रैकं वायु- परम् । तदा द्वितीया सप्तम्यर्थे । द्वितीयं विष्णुपरम् । तदा द्वितीया यथाश्रुतैवेत्युक्तं भवति । " ओमित्येवातिस्वरति" इत्येतदनुरोधेन ‘“ओमाख्यम्’” इत्युक्तम् । प्राविशन् इत्यस्यार्थःसमुपासिर इति । " तत् प्रविश्य देवा अमृता अभवन्इति वाक्यं व्याचष्टे तेनेति ॥ उपासनेन । अमृतमिति भावप्रधानो निर्देशः । प्रसिद्धामृतव्यावृत्त्यर्थंमुक्त्याख्यम्" इत्युक्तम् । मृत्युवर्जिताः मृत्युनिमित्तभयवर्जिताः । अमृतशब्दस्यार्थान्तरकथनमेतत् । "देवा वै मृत्योर्बिभ्यतः" इत्यत्र मृत्युशब्दो यमपर इत्यसत् । सर्वदेवानां यमाद् भयाभावादित्यतोऽत्र विवक्षितं मृत्युशब्दार्थमाह- मरणादिति । खण्डतात्पर्यमाह तद्भयत इति ॥ " तेऽनुवित्त्वोर्ध्वाः" इत्यत्रोर्ध्वाः प्रांशव इत्यन्यथा- प्रतीतिनिरासार्थं तदनूध व्याचष्टेऊर्ध्वा इति ॥ मत्स्यः स्वमारकं न जानाति देवास्तु ज्ञातवन्त इत्यत्र हेतुतयोत्तमत्वस्यैव वक्तव्यत्वादिति भावः ।। इति चतुर्थः खण्डः ।।

खण्डार्थः

ॐ मित्येतदक्षरमित्यादिकमुक्तार्थम् ।

 देवा मृत्योः मारणान्मृत्युर्दुर्गा तस्या बिभ्यतः भीताः सन्तः त्रयीं विद्यां वेदविद्यां प्राविशन् वै । वेदाभिमानिदेवतारूपाधिष्ठाने भगवदुपास्ति- मनकुर्वन्नित्यर्थः । ततस्ते देवा: छन्दोभिः छन्दस्सु भगवदुपासनैरात्मन आच्छादयन् । तत्र ज्ञापकमाह - यदिति ।छन्दोभिराच्छादयन्इति यत् छन्दसां देवाच्छादकत्वं तदेव छन्दसां छन्दस्त्वं छन्दःशब्द- प्रवृत्तिनिमित्तम् । छन्दःशब्दप्रवृत्तिनिमित्तपर्यालोचनयैव छन्दसां देवा- च्छादकत्वं ज्ञायत इति भावः ।

मृत्युर्दुर्गा तांस्त्रयीविद्याप्रविष्टान् देवान् । तत्र, तस्यैव विबरणं ऋचि साम्नि यजुषि पर्यपश्यत् । कथम् ? यथा लोके कश्चन पक्षिविशेषो मत्स्यमुदके परिपश्येदेवं पर्यपश्यत् । ते देवा अस्मान् मृत्युर्दृष्टवानिति ज्ञातवन्त इति वक्तव्यम् । ते देवा यत ऊर्ध्वा उत्तमा अतोऽनुवित्त्वा मृत्युरस्मान् दृष्टवानिति ज्ञात्वा ऋचः साम्नो यजुषः, ल्यब्लोपनिमित्ता पञ्चमी । ऋगादिदेवतां परित्यज्य स्वरमेव प्राविशन् । द्वितीया सप्तम्यर्थे च । स्वतन्त्रत्वेन स्वनामकविष्णुरतेः स्वरनामके वायौ स्वरतेः स्वरनामकम् ओमाख्यं विष्णुं समुपासिर इत्यर्थः ॥ १ ॥

ऋगादिपरित्यागेन स्वरप्रवेशो देवैः कृत इत्यत्र ज्ञापकमाहयदा वा इति ॥ लोको यदा वा ऋचमाप्नोति तदा ओमित्येव स्वरति । एवं सामैवं यजुरिति । यदा साम यजुश्चाप्नोति तदा ओमित्येव स्वरतीत्यर्थः । केवलं ऋगादीनां रक्षणेऽशक्तत्वात् खल्विदानीमपि प्रणवपूर्वमृगादि जपतीति भावः। ‘“स्वरमेव प्राविशन्" इत्युक्तं विवरितुं स्वरशब्दार्थं तावदाह-एष इति ।। यदेतत् सर्वसन्निहितत्वादेतन्नामकमक्षरमविनाशिब्रह्म एष उ एष एव स्वरः । तन्महिमानमाह - एतदमृतमिति । एतद्ब्रह्मामृतं नित्य- मुक्तम् । अभयं भयशून्यमभयप्रदं वा । यद्यत्रापि मृत्युर्देवान् परिपश्येत् तर्हि को विशेषो ऋगादिभ्यः स्वरस्येत्यत आह- तत् प्रविश्येति ।। तदमृतत्वा- भयत्वादिविशिष्टमक्षरं स्वरशब्दवाच्यं प्रविश्योंनामकं भगवन्तमुपास्य देवा अमृता अभवन्नित्यर्थः ।

न केवलं देवानामेव प्रणवोपास्तिरमृतत्वप्रदा । अपि तर्ह्यद्यतनस्यापि तद्योग्यस्येत्याहस य इत्यादिना ॥ योऽधिकारी एतद् ओंनामकं ब्रह्मैवं देवानाममृतत्वप्रदत्वेन विद्वानक्षरमक्षरनामकं भगवन्तं प्रणौति प्रणवेन स्तौति स एतदेवाक्षरं स्वरं स्वरमणमोङ्काररूपस्वरवाच्यममृतत्तमभयं प्रविशति । किं ततः ? नहि तत्प्रवेश एव फलमित्यत आह तत्  प्रविश्येति ।। यत्तच्छब्दौ यथातथाशब्दार्थौ । यत्प्रविश्य देवा यथा अमृता अभवंस्तथा तत् परंब्रह्म प्रविश्यामृतो भवतीत्यर्थः ।। २ ।।

इति चतुर्थः खण्डः ॥ ४ ॥