स्मरो वा आकाशाद्भूयांस्तस्माद्यद्यपि ..
उपनिषत् (खण्डः - १३)
आकाशाभिमान्युमायाः सकाशात् स्मरणाभिमानी रुद्र उत्तमः
स्मरो वा आकाशाद्भूयांस्तस्माद्यद्यपि बहव आसीरन्नस्मरन्तो नैव ते कञ्चन शृणुयुर्न मन्वीरन्न विजानीरन् यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन् स्मरेण वै पुत्रान् विजानाति स्मरेण पशूं स्मरमुपास्स्वेति ॥ १ ॥
स यः स्मरं ब्रह्मेत्युपास्ते यावत् स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्तेऽस्ति भगवो स्मराद् भूय इति स्मराद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥१३॥
भाष्यम्
..........................तस्याश्चैव सदाशिवः । स्थिरस्मृत्यभिमानी स सममेव रतेः स्मरः ॥
पदार्थकौमुदी
" स्मरो वावाकाशाद् भूयान्" इत्येतद्व्याचष्टे - तस्या इति ॥ सदाशिव एव । स्मरशब्दं योजयति – स्थिरेति । सममेकप्रकारमेव । रतेर्भगवति रमणाच्च स्मर इत्यर्थः । त्रयोदशः खण्डः ।।
खण्डार्थः
स्मरः स्थिरस्मृत्यभिमानी रुद्र एवाऽकाशाद् भूयान् । तस्मात् स्मरस्य भूयस्त्वादेव यद्यपि लोके बहवः पुरुषाः आसीरंस्ते यदि न स्मरन्तस्तदा नैव ते कञ्चन शृणुयुर्न मन्वीरन्न विजानीरन् । यदा वै ते स्मरेयुरथ श्रवणादिव्यापारवन्तो भवेयुः । किञ्च स्मरेणैव पुत्रादिकं विजानाति उपास्ते । सस्मरवतो ह लोकानभिसिद्ध्यतीति ग्राह्यम् ॥ १ ॥ २ ।।
॥ इति त्रयोदशः खण्डः ।।