स य इदमविद्वानग्निहोत्रं जुहोति ..
उपनिषत् (खण्ड: - २४)
ज्ञानपूर्वककर्मणः फलप्रदत्त्वनिरूपणम्
स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात् तादृक् तत् स्यात् ॥ १ ॥
अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥
तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मनः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ३ ॥
तस्मादु हैवंविद्यद्यपि चण्डालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य तद्वैश्वानरो हुतं स्यादिति तदेष श्लोकः ॥ ४ ॥
यथेह क्षुधिता बाला मातरं पर्युपासते । एवं सर्वाणि भूतान्याग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत ॥ इति ॥ ५ ॥
॥ इति श्रीमच्छान्दोग्योपनिषदि पञ्चमोऽध्यायः ॥ ५ ॥
भाष्यम्
वैश्वानरज्ञानयोग्याः साक्षादेव सुराः स्मृताः ।तस्मात्तेषां फलं सर्वमन्येषां तु स्वयोग्यतः ।
इति वैश्वानरविद्यायाम् ।
वैश्वानरो विष्णुरेव
'को न आत्मा किं ब्रह्म' ' सोऽयमात्मा चतुष्पात् ' । 'स्थुलभुग् वैश्वानरः प्रथमः पादः । ॐ 'वैश्वानरः साधारणशब्दविशेषात् ' ॐ । 'अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ' इत्यादेश्च वैश्वानरो विष्णुरिति सिद्धम् ॥
'स वायुः स आकाशः' 'वायुश्वाऽकाशश्चाधितिष्ठतः । इति वचनाद्वायो रूपमन्याधिष्ठितमाकाशाख्यं वायोः स्वरूपमिति
विज्ञायते । 'आकाशनामा विघ्नेशो वायुश्चाऽकाशकः स्मृतः । आकाश इति लक्ष्मीश्च तथाऽऽकाशो हरिः स्वयम् ॥' इति
शब्दनिर्णये ।
'सुतेजोविश्वरूपादिभेदेनाङ्गानि मापतेः । अभिन्नान्यपि कथ्यन्ते लोकदृष्टिविभेदतः' इति च ॥ २४ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छान्दोग्योपनिषद्भाष्ये पञ्चमोऽध्यायः ॥ ५॥
पदार्थकौमुदी
नरादिसुरान्तानां सम्यग्ज्ञानं किमेकप्रकारम् ? नेत्याह- वैश्वानर-ज्ञानेति । अत्र ज्ञानमुपासनम् | साक्षान्मुख्यतः । तत्कुत इत्यत आह— तस्मादिति । तस्मादेव फलं श्रुत्युक्तम् ।
एवं वैश्वानरविद्यायामेव वैश्वानरविद्याया भगवत्परतया व्याख्यात- त्वाद विष्णुरेव वैश्वानरः, न देवता भूतं चेत्युक्तम् । प्रकरणसमाख्याभ्यां चायं निश्चयो भवतीत्याह - को न इति ॥ " को न आत्मा किं ब्रह्म" इति विचारपूर्वकं वैश्वानरविद्याया आरभ्याधीत्वेन विष्णुप्रकरणत्वाच्च वैश्वानरो विष्णुरिति सिद्धम् । “अनात्तत्वादनात्मानः" इति वचनेन विष्णो- रन्येषामात्मत्वाद्यसम्भवादित्यर्थः । माण्डूके “स्थूलभुग् वैश्वानरः” इति विष्णौ वैश्वानरशब्दप्रयोगात् । अत्रापि वैश्वानरो विष्णुरिति सिद्धम् । नच तत्रापि विष्णुः कुत इति वाच्यम् । " सोऽयमात्मा" इत्युपक्रमेऽ- न्यत्रासम्भव्यात्मशब्दश्रवणेनास्य विष्णुप्रकरणत्वादिति भावः। ‘“आत्मानं वैश्वानरम्’” इत्युक्तो वैश्वानरो विष्णुरेव । अग्नाविष्णोः साधारणस्यापि वैश्वानरशब्दस्य विष्णावेव प्रसिद्धात्मश देन विशेषणादिति सूत्रार्थः । आदिपदेन "शीण द्यौः समवर्तत । चक्षोः सूर्यो अजायत । प्राणाद् वायुरजायत । पद्भ्यां भूमिः" इत्यादिपुरुष- सूक्तसमाख्याग्रहणम् । अत्रापि " मूर्धेव सुतेजा:" इत्यादिश्रवणात् । तथाचोक्तम् — पुरुषविधमपि चैनमधीयत इति ।। " वायुश्चाऽकाशश्चा- धितिष्ठतः " इत्युक्ताकाशो वायुरेवेत्युक्तम् । तच्छ्रौतार्थापत्त्या समर्थयते स वायुरिति ।। देवसुषिविद्यायां " स उदानः स वायुः स आकाशः” इत्यभेदवचनादाकाशस्तावद् वायुरेव । अत्र “वायुश्चाऽकाशश्च' 'इति भेदवचनादाकाशाख्यं बायो रूपमन्याधिष्ठितं, बायुस्तु केवलं वायोः स्वरूपमिति विज्ञायत इत्यर्थः । लक्ष्म्याविष्टत्वेन वायुराकाश इत्युक्तम् । तत्र लक्ष्मीवाय्वोराकाशनामकत्वेऽभिधानमाह- आकाशेति ॥ ननु भगवदङ्गानां परस्परं भेदाभावादन्योन्यनामवत्त्वाच्च कथं "मूर्धेव सुतेजा:”, “चक्षुर्विश्वरूपः " इत्यादिभेदेन व्यपदेश इत्यत उपासक-दृष्ट्यनुसारेणेति स्मृत्याऽऽह - सुतेज इति ।।
खण्डार्थः
एवं वैश्वानररूपं तद्विषयहोमप्रकारं च निरूप्य ज्ञानपूर्वहोम एवावश्यम्भावीति भावेन तदज्ञानेन होमेऽनर्थं तज्ज्ञानेन होमे फलं चाऽह- स य इति । सः प्रसिद्धो यः कश्चिदिदं वैश्वानरस्वरूपादिकमविद्वान् प्राणाग्निहोत्रं जुहोति । तस्य तदग्रिहोत्राख्यं कर्म यथाऽङ्गारानपोह्य भस्मनि जुहुयान्मूर्खस्तादृक् स्यात् ॥ १ ॥
अथ योऽधिकारी । एतद्वैश्वानरस्वरूपम् एवम् उक्तरीत्या विद्वान् प्राणाग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु स्थितेषु सर्वेषु भूतेषु तदन्तर्गतेषु सर्वेष्वात्मसु हुतं भवति ॥ २ ॥
ततः किमित्यतोऽनिष्टनिवृत्तिं फलमाह तदिति ॥ तन्निदर्शनं यथेषीकातूलं चाग्नौ प्रोतं प्रविष्टं प्रदूयेत परितप्तं भवेद् भस्मीभवेद् । एवं हास्य वैश्वानरज्ञानिनः सर्वे पाप्मानः प्रदूयन्ते विनश्यन्तीत्यर्थः । ज्ञानम- परोक्षं चेत् सर्वे पाप्मानोऽनारब्धाः । परोक्षं चेद् यथायोग्यम् । तस्मादु वैश्वानरज्ञानस्य सर्वपापक्षयहेतुत्वादेव हैवंवित् । यद्यपि चण्डालाय स्मरणायोग्यायापि स्वोच्छिष्टं प्रयच्छेत् तथाऽपि न तत् तस्य पापहेतुः । किन्तु तद्दत्तमुच्छिष्टमस्य चण्डालस्यान्तर्यामिणि वैश्वानरे आत्मन्येव हुतं स्यात् । वैश्वानरज्ञानपूर्वं कृतमग्निहोत्रं सर्वलोकस्थसर्वभूतान्तर्यामि- तृप्तिकरमित्येतच्छ्लोकेन द्रढयति - तदिति ॥ सर्वाणि भूतान्यभीष्टा - पेक्षा (क्षी) णि ।। ३-५ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य श्रीमच्छन्दोगोपनिषद्भाष्यस्य टीकायां श्रीमद्वेदव्यासतीर्थपूज्य- पादशिष्येण वेदेशभिक्षुणा विरचितायां पदार्थकौमुद्यां पञ्चमोऽध्यायः समाप्तः ।। ५ ।।