तान् होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं ..
उपनिषत् (खण्ड: - १८ )
हृत्कमले वैश्वानरः
तान् होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ १ ॥
तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धेव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्मात्मा सन्दोहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमानि बर्हिः हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ २ ॥ १८ ॥
उपनिषत् (खण्डः -१९ )
‘प्राणाय स्वाहा' इत्याहुतेः फलनिरूपणम्
तद्यद्भक्तं प्रथममागच्छेत् तद्धोमीयं स यां प्रथमामाहुतिं जुहुयात् तां जुहुयात् प्राणाय स्वाहेति प्राणः तृप्यति॥ १ ॥
प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यति आदित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्यौश्चादित्यश्चाधितिष्ठतस्तत् तृप्यति तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ २ ॥ ॥ १९ ॥
भाष्यम्
प्राणश्चक्षुस्तथाऽऽदित्य इत्येका देवता स्मृता । पूर्वद्वारपतिर्विष्णोः............ ।।
पदार्थकौमुदी
“तद्यद्भक्तम्” इति खण्डे प्राणाहुतितृप्यतयोक्तानां प्राणचक्षु- रादित्यानां भेदे “अथ योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः स आदित्यः " इति देवसुषिविद्योक्तविरोध इत्यत आह- प्राण इति || अत एवोत्तरत्र " द्यौश्वादित्यश्च" इति आदित्यस्यैवानुवाद इति भावः ।
खण्डार्थः
एवं प्रत्येकमुपदिश्य तान् ब्राह्मणान् होवाच । एते वै खलु यूयमिम- मात्मानं वैश्वानरं पृथगिव विद्वांसोऽन्नमत्थ । भगवदङ्गानां भेदाभावादिवशब्दः । इदानीं समग्रात्मोपासकस्य फलमाह - यस्त्विति ॥ यस्त्वधिकारी एतमात्मानं वैश्वानरं भगवन्तमन्तः प्रादेशमात्रं तावन्मात्र- परिमाणकम् । तथाचोक्तम् - " हृद्यपेक्षया तु मनुष्याधिकारत्वात्" ( ब्र. सू. १-३-२५) इति । अभि अभितो वि विगतं मानं मर्यादा यस्य तमभिविमानं सर्वगतम् । “मानं ज्ञानं लयश्चेति मर्यादा चेति कथ्यते" इति वचनात् । एवं वक्ष्यमाणरीत्योपास्ते सः सर्वेषु लोकेषु स्थितेषु सर्वेषु भूतेषु तदन्तर्गतेषु सर्वेष्वात्मसु अन्नमत्ति | देवतापेक्षयैतत् ॥ १ ॥
भगवदङ्गानामुक्तं नामधेयं सर्वथा मनसि धार्यमित्याशयेन तदनुवदन् समग्रं वैश्वानरमुपदिशति- तस्येति ॥ प्रकृतवैश्वानरे होमं वक्तुं तदपेक्षितमाह – उर एवेति ॥ वेदाद्यभिमानिदेवतास्तस्योरःप्रभृतिषु तिष्ठन्तीत्यर्थः ॥ २ ॥ इति अष्टादशः खण्डः ॥ १८ ॥
होमशेषमेव वक्ति - तदिति । तत् तदा भोजनवेलायां यद् भक्तमन्नं प्रथममागच्छेदास्यं प्रति तद्धोमीयं होमद्रव्यं सः भोक्ता यामाहुतिं प्रथमां जुहुयात् तां जुहुयात् “प्राणाय स्वाहा'' इति अनेन मन्त्रेण आहुति - तृप्यानाह - प्राण इत्यादिना || प्राणश्चक्षुरादित्य इत्येकैव देवता । द्यौर्वापत्नी तृप्यति । दिवि तृप्यन्त्यां यत्किञ्च ज्ञानरूपमानन्दरूपं च ब्रह्म द्यौश्चाऽदित्यश्चाधिष्ठितः । हृदये पूर्वद्वारपत्वेन तद् ब्रह्म तृप्यति । एषां प्रयत्वात् । किं तत इत्यत आह तस्येति ।। तस्य ब्रह्मणः तृप्तिमनु यजमानः प्रजादिभिः तृप्यति ।। १-२ ।।
।। इति एकोनविंशः खण्डः ।।