तद्यत्रैतत्सुप्तः समस्तः सन् प्रसन्नः स्वप्नं न ..
उपनिषत् (खण्डः - ११ )
एकशतवर्षावधिकः इन्द्रकृतगुरुकुलवासः
तद्यत्रैतत्सुप्तः समस्तः सन् प्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति स ह शान्तहृदयः प्रवव्राज स हाप्राप्यैव देवानेतद्भयं ददर्श नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यमीति ॥ १ ॥
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः किमेवेच्छन् पुनरागम इति स होवाच नाहं खल्वयमेवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यमीति ॥ २ ॥
एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्माद् वसापराणि पञ्च वर्षाणीति स हापराणि पञ्च वर्षाण्युवास तान्येकशतं सम्पेदुरेतत् तद्यदाहुरेकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास तस्मै स होवाच ॥ ३ ॥ ११ ॥
भाष्यम्
इत्युक्त आह ब्रह्मैनं सुप्तिस्थो भगवानिति । यत्र सुप्तो ह्ययं जीव इत्युक्तः (१) प्राह वासवः ।। नाहं जानामि मत्तोऽन्यं सुप्तौ ( २ ) नान्योऽपि दर्शयेत् । अहमस्मीति भूतानि न च पश्यन्ति कानिचित् ॥
यदि जीवः परात्मा वाऽप्यन्योन्यस्मिन्नपीतताम् (३) । गतौ तदाऽप्यपीतस्तु शं विनैव भवेदिति ।। खण्डः ११ ॥
पदार्थकौमुदी
‘‘तद्यत्रैतत् सुप्तः समस्तः” इति खण्डतात्पर्यमाह – ब्रह्मैनमिति ॥ सुप्तिस्थ इत्युक्तमेव विवृणोति – यत्रेति । यत्र भगवति । “नाहं (१) खल्वयमेवं सम्प्रत्यात्मानं जानाति" इति वाक्यं जानातीत्यस्य पुरुषव्यत्यासाश्रयणेन व्याचष्टे - नाहमिति ॥ अनेनाहमेतदाश्रितः अयं तु मदाश्रयः इति मत्तोऽन्यमात्मानं परमात्मानं सम्प्रति सुषुप्तौ न जानाति न जानामीति योजनोक्ता भवति । ननु सुषुप्तौ जीवस्य स्वाश्रयपरमात्म- ज्ञानाभावेऽपि परमात्मा स्वात्मानं तदाश्रयत्वेन प्रदर्शयतीति किं न स्यादित्याशङ्कानिवर्तकतया 'अयमहमस्मि' इत्येतदपेक्षितं पूरयन् व्याचष्टे
नान्योऽपीति ।। अन्यः परमात्मा । सुप्ताविति वर्तते । स्वात्मानमिति शेषः । अन्योऽपि भगवानपि । तेनायं जीवाश्रयोऽहमस्मीत्ययमन्यो भगवानपि न स्वात्मानं जानाति दर्शयतीति योजनीयमिति भावः ।
नन्वेकेन जीवेन स्वाश्रयस्य भगवतः सुप्तावदृष्टत्वेऽपि न तदभावः । इतरेषां तज्ज्ञानसम्भवादित्याशङ्कायां प्राप्तस्य " नो एवेमानि भूतानि " इत्यस्य व्याख्यानम् – भूतानीति ।। भूतानि चेति सम्बन्धः । पश्यन्ती- त्यनेन जानातीत्येतद् वचनव्यत्ययेनानुवर्तत इत्युक्तं भवति । तथाच केषामप्यनुपलम्भान सोऽस्तीति भावः । यदुक्तमनुपलम्भात्र जीवाश्रयः परमात्मा सुप्तावस्तीति तदयुक्तम् । जीवपरमात्मनोः सुप्तावन्यतरस्या- न्यतरस्मिन् प्रविष्टत्वेनाऽश्रयाश्रयिभावानुपलम्भोपपत्तेरित्यतस्तत्र बाधक- तया विनाशमेव ‘“अपीतो भवति' इति वाक्यं नाशार्थत्वप्रतीतिं वारयन् व्याचष्टे – यदीति । अपीततां प्रविष्टताम् ।
अयं भावः । यदि जीवः परमात्मन्यपीतस्तदा शं विनैव भवेत् सुखरहितः स्यात् । सुखानुभववान्न स्यादिति यावत् । अन्यगेहगतस्य लोके सुखादर्शनात् । तथाच “सुखमहमस्वाप्सम्" इत्युत्तरकालीन- परामर्शविरोधः । यदि वा परमात्मा जीवेऽपीतस्तदा सोऽप्युक्तरीत्या शं विनैव भवेत् । तथाच श्रुत्यादिविरोध इति । एतेन विनाशमिति वाक्यावष्टम्भेन सुप्तावहङ्कारादिसकलकार्यविलयाङ्गीकारवन्तो निरस्ताः ॥ एकादशः खण्डः ॥ ११ ॥
खण्डार्थः
तत् तस्यामवस्थायां यत्र यस्मिन् प्राज्ञे एतत् एषः सुप्तः समस्तः सङ्कुचितेन्द्रियव्यापारः सम्प्रसन्नः स्वरूपसुखवान् तदनुभववानिति यावत् । स्वप्नं न विजानाति । किमु जाग्रत्पदार्थमिति भावः । एषः सुप्ताधारः प्राज्ञ आत्मा । एवं सुप्तजीवाश्रये परमात्मनि निरूपिते तं जीववैलक्षण्येन सम्यग् ज्ञातुमासुरमतमवलम्ब्य सुप्त्यवस्थायां जीवाश्रयेश्वराभावं तावद् युक्त्या साधयति - नाहं खल्वित्यादिना ॥ सम्प्रति सुप्त्यवस्थायाम् अहं खलु तावद् आत्मानं परमात्मानम् अयं परमात्मा एवं सुप्तस्य ममाश्रयः अहं त्वेतदाश्रित इति मत्तोऽन्यं न जानाति न जानामि । ननु सुषुप्तौ जीवस्य स्वाश्रय परमात्मज्ञानाभावेऽपि परमात्मा स्वात्मानं तदाश्रयत्वेन प्रदर्शयतीति किं न स्यादित्यत आह अयमहमस्मीति ।। अयं जीवाश्रयोऽहमस्मीत्ययमन्यो भगवानपि आत्मानं स्वात्मानं न जानाति न ज्ञापयतीति । नन्वेकेन जीवेन स्वाश्रयस्य भगवतः सुप्तावदृष्टत्वेऽपि न तदभावः । इतरेषां तज्ज्ञानसम्भवादित्याशङ्कायामाह - नो एवेमानीति ।। इमानि भूतान्यपि सुप्त्यवस्थायां स्वाश्रयं नो एव जानन्ति । अतोऽ- नुपलम्भात् स नास्तीति भावः । ननु तदा जीव ईश्वरे ईश्वरो वा जीवे प्रविष्ट इति नाऽश्रयाश्रयिभावोपलब्धिरित्यत आह - विनाशमेवेति || यदि जीव ईश्वरेऽपीतः प्रविष्टः तर्हि शं विनैव भवति भवेत् । स्वरूपसुखानुसन्धाता न स्यात् । नहि परगृहं गतस्य सुखभोगोऽस्ति । तथाच तस्य ‘‘सुखमहमस्वाप्सम्’इत्युत्तरकालीनपरामर्शायोगः । यदि वा ईश्वरो जीवे प्रविष्टस्तर्हि शं विनैव भवेत् । तथाच तस्य सदा सुखभोक्तृत्व-प्रतिपादकश्रुत्यादिविरोध इत्यर्थः । तथाच ( १ ) तदा जीवेश्वरौ नान्योन्य- स्मिन्नप्ययवन्तौ भेदेन च नोपलभ्येते । " सुखमहमस्वाप्सम्’” इत्युत्तर- कालीनपरामर्शबलेन च जीव एवोपलभ्यतेऽतो जीवातिरिक्तेश्वरोऽनुप- लम्भान्नास्तीति भयं भयहेतुं पूर्वपक्षं ददर्श ॥ १ ॥
इमं च पूर्वपक्षं ब्रह्मणे निवेद्य सम्यग् वैलक्षण्येन परमात्मानं ज्ञातुं पुनरागत इत्याह स समित्पाणिरित्यादिना ॥ २ ॥
हे मघवन् ! एषः परमात्मा एवमेव सुप्त्यादौ जीवविलक्षणतया प्रत्यक्षेण नोपलभ्यत एव । किन्तु जीववैलक्षण्यं जीवव्यावृत्तधर्मैरनुमेयमेवातस्ते एतं जीवव्यावृत्तधर्मवन्तं व्याख्यास्यामि । एतस्मात् पुनः किञ्चित्कालं ब्रह्म- चर्याचरणरूपाद् ब्रतादन्यत्र, तस्माद् ऋत इति यावत् । नो एव नैव व्याख्यास्यामि यतोऽतो वसापराणि पञ्चवर्षाणीत्युवाच प्रजापतिः । स एवमादिष्ट इन्द्रोऽपराणि पञ्चवर्षाण्युवासं ह । एवमिन्द्रस्य चतुर्वारं गुरुकुलवासे कियन्ति वर्षाणि सम्पन्नानीत्यपेक्षायां श्रुतिः स्वयमेवाऽह- तानीति ।। तानीन्द्रेणोषितानि वर्षाणि एकशतम् एकेनाधिकं शत- मेकाधिकशतसङ्ख्याकानि सम्पेदुः सम्पन्नानि बभूवुः । अयमर्थः प्रसिद्ध इत्याह- एतत्तदिति । यदाहुर्ज्ञानिनः एकशतं वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवासेति तदेतत् " द्वात्रिंशतम् ' ' इत्यादिना दर्शितमित्याख्या- यिकान्ते उपसंहृत्य श्रुतोच्यते ( श्रुत्योच्यते ) । तस्मै अनुष्ठितब्रह्मचर्याय सः प्रजापतिरुवाचोपदिदेश । जीवव्यावृत्तधर्मजातं जीववैलक्षण्यानु- मापकमिति शेषः || ३॥
।। इति एकादशः खण्डः ॥