आकाशो वाव तेजसो भूयानाकाशे वै ..

उपनिषत् (खण्डः -१२)

तेजोभिमानिपुरन्दरादाकाशाभिमान्युमाया उत्तमत्वनिरूपणम्

आकाशो वाव तेजसो भूयानाकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निराकाशेन आह्वयत्याकाशेन शृृणोत्याकाशेन प्रतिशृणोत्याकाशे रमत आकाशेन रमत आकाशे जायत आकाशमभिजायत आकाशमुपास्स्वेति ॥ १ ॥

स य आकाशं ब्रह्मेत्युपास्ते आकाशवतो हवै स लोकान् प्रकाशवतोऽसम्बाधानुरुगायवतोऽभिसिद्ध्यति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगवो आकाशाद्भूय इति आकाशाद् वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ॥ २ ॥ १२ ॥

भाष्यम्

तथा तस्मादुमा चैव सा चाऽकाशाभिमानिनी ॥ आकाशनाम्नी दीप्तत्वात् ……..||

पदार्थकौमुदी

" आकाशो वाघ तेजसो भूयान्" इत्येतद्व्याचष्टे - तथेति ॥ तथाशब्द उपमायाम् । एवशब्दः प्रसिद्धव्यावृत्त्यर्थः । चशब्दो वारुण्यादिसमुच्चयार्थः ।। द्वादशः खण्डः ।।

खण्डार्थः

आकाशो बाह्यान्तराकाशाभिमानिन्युमा तेजसो भूयात् । तस्य सर्वदेवताधारत्वमाहआकाश इति ॥ सूर्याद्यग्न्यन्तान्याकाशे स्थितानीति शेषः । आकाशेन तत्प्रेरणयैव देवताद्याह्वानं करोति पुरुषः । आकाश इति निमित्तसप्तमी । न रमते व्यथत इत्यर्थः । आकाशे जायत इत्यौपचारिकं नेत्याह- आकाशमभिजायत इति ॥ १ ॥

असम्बाधान् व्यथारहितान् । उरुगायवतो भगवद्वतः भगवतो ह्युरुगायनाम प्रसिद्धम् || |

॥ इति द्वादशः खण्डः ।।