उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति ..
उपनिषत् (खण्डः -८)
विरोचनस्य अयथार्थज्ञानमुत्पन्नमिति निरूपणम्
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आलोमभ्य आनखेभ्यः प्रतिरूपमिति ॥ १ ॥
तौ ह प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति तौ ह साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ २ ॥
तौ होचतुर्यथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृताविति एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ३ ॥
तौ हान्वीक्ष्य प्रजापतिरुवाचानुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वाऽसुरा वा ते पराभविष्यन्तीति स ह शान्तहृदय एव विरोचनोऽसुरान् जगाम तेभ्यो हैतामुपनिषदं प्रोवाचात्मैवेह महय्य आत्मा परिचर्य आत्मानमेवेह महय्यन्नात्मानं परिचरन्नुभौ लोकाववाप्नोतीमं चामुं चेति ॥ ४ ॥ तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेत्यसुराणां ह्येषोपनिषत् प्रेतस्य शरीर भिक्षया वसनेनालङ्कारेणेति संस्कुवर्न्त्येतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते ॥ ५ ॥ ८ ॥
भाष्यम्
तथाऽपि योग्यतैवात्र भूयसीति निवेदितुम् । दर्शयन् प्रतिरूपस्य दोषानाह प्रजापतिः ॥ अलङ्कारादिभिर्युक्तः पश्यस्वेति विवेचयन् । यथा देहगुणे गौण्यं दोषे दोषास्तथेति तु (१) । तथाऽप्यशुद्धभावत्वात् प्रतिरूपस्य तद्गुणान् । परस्य ब्रह्मणो जानन् ययौ तुष्टमनाः स्वयम् ॥ असुराणामविश्वासनिवृत्त्यर्थं पितामहः ॥ माध्यस्थ्यं ज्ञापयानश्च जानन् वैरोचनं मनः । प्राहाज्ञानां पराभाव इत्युच्चैश्च पुनः पुनः ।। तथाऽप्यशुद्धभावत्वादजानन्नेव निर्ययौ । गत्वा चैव परंब्रह्म प्रतिरूपात्मकं सदा ॥ दिदेश सर्वासुराणां शरीरालङ्कृतेरपि । अलङ्कृतं ब्रह्मणश्च प्रत्यक्षेणोपलम्भिताम् ॥ अतोऽसुरा न दास्यन्ति न यजन्त्यात्मनः परम् । स्वभोगेनैव तृप्तिः स्यादिति सर्वेऽपि मेनिरे ॥ तत्संस्कारवशेनैव स्वयं ब्रह्मेति वेदिन: (१) । अभवन्नपतंश्चैव तमोऽन्धे नित्यदुःखिताः ।। खण्डः ८ ॥
पदार्थकौमुदी
‘“उदशराव आत्मानम्” इत्यादि खण्डतात्पर्यमाह - तथाऽपीति ॥ शरीरानलङ्कृतावनलङ्कृतस्य तदलङ्कृतावलङ्कृतस्य प्रतिबिम्बस्य यद्यप्य- ब्रह्मत्वं शक्यं स्फुटं ज्ञातुं शक्यं तथाऽपि तेन तन्न ज्ञातमतो योग्यतैव बलीयसीति दर्शयन्नित्यर्थः । प्रतिरूपाद् ब्रह्म विवेचयन् प्रजापतिः प्रतिरूपस्य दोषान् दर्शयन् सूचयन् अलङ्कारादिभिर्युक्तः पश्यस्व पश्येत्याह | अलङ्कारादिभिर्युक्तः पश्येत्युक्त्या कथं दोषसूचनं जातमि- त्यतस्तस्याभिप्रायमाह— यथेति ॥ गौण्यं गुणयुक्तत्वम् । इति दोषान् दर्शन्निति सम्बन्धः । न्यायसाम्येन दोषस्यापि प्रेक्षावता ज्ञातुं शक्यत्वा- दिति भावः । नन्वेवं ब्रह्मणा दोषे सूचितेऽपि कथं स शान्तहृदय एव प्रवत्राजेत्यत आह - तथाऽपीति ॥ यद्यप्येवं ब्रह्मा प्राह तथाऽपीत्यर्थः । तद्गुणान् तावद्गुणान् ।
“अनुपलभ्याऽत्मानम्" इत्यारभ्य “पराभविष्यन्ति इत्यन्तस्य प्रजापतिवचनस्याभिप्रायमाह असुराणामिति । एवं स्फुटोक्त्या विरोचननिवृत्तौ तस्य तत्त्वं वक्तव्यं स्यादित्यत आह – जानन्निति । वैरोचनं मनः न निवर्तत इति जानन् । “स शान्तहृदय एव" इति वाक्यं व्याचष्टे – तथाऽपीति ॥ यद्यप्येवमाह ब्रह्मा तथाऽपीत्यर्थः । "तेभ्यो हैतामुपनिषदं प्रोवाच" इत्यादिवाक्यं व्याचष्टे – गत्वा चेति ॥ प्रति- रूपात्मकमेवेति सम्बन्धः । दिदेशोपदिदेश । अलङ्कृतिं प्रतिरूपस्य । “पुरुषो दृश्यते'' इत्युपदेशानुसारेणाऽह - ब्रह्मण इति ॥ उपलम्भितां चेति सम्बन्धः । ‘‘तस्मादप्यद्येहाऽददानम्" इत्यादिवाक्यं व्याचष्टे अत इति ।। " प्रेतस्य शरीरम्" इत्यादि व्याचष्टे – स्वभोगेनेति ॥ तदभिप्रायसिद्धमर्थं दर्शयति - तत्संस्कारेति ॥ शरीरालङ्कृतौ प्रतिरूपा - लङ्कृतत्वस्य संस्कारवशेनेत्यर्थः । ब्रह्मणा जीवाभिमतशरीरालङ्कृतौ (१) प्रतिरूपालङ्कृत्युपदर्शनेन बिम्बप्रतिबिम्बभूतयोस्तयोरभेद एवोप- दर्शितः । स च प्रतिरूपभूतब्रह्माभेदो जीवच्छरीरे बिम्बभूते बोध्यमानो जीवाभेदमादायैव पर्यवस्यति । शरीरस्य मरणशीलत्वेन तत्रामृत- ब्रह्माभेदस्य बाधितत्वात् । अतः शरीराभिमानिनो जीवस्यैव ब्रह्माभेद उपदिष्ट इति मत्त्वा स्वयं ब्रह्मेति वादिन इत्यर्थः । तमसान्धयतीति तमोन्धम् ।। अष्टमः खण्डः ।। ८ ।।
खण्डार्थः
अनन्तरं प्रजापतिर्नेदं दृश्यमानं देहप्रतिबिम्बं ब्रह्म । तस्य देहगुणेन गुणवत्त्वमिव देहदोषेण दुष्टत्वमपि भविष्यति न्यायसाम्यादित्यभिप्रायेण प्रतिबिम्बे दोषान् सूचयितुमाह - उदशराव इत्यादिना ॥ उदपूर्णशरावे आत्मानमात्मावच्छिन्नं देहमवेक्ष्यावलोक्य यदाऽऽत्मनो विद्यमानम् अङ्गादिकं न विजानीथः तदज्ञातमङ्गादिकं मे प्रब्रूतमित्युवाच । “तौ चोदपूर्णशरावे आत्मानमवेक्षाञ्चक्राते" इति श्रुतेः स्ववाक्यम् । भो भगवः! इमावावां सर्वमेवाऽत्मानं पश्यावः । सर्वमित्युक्तमेव विशदमाहतुः आलोमभ्य इत्यादि || लोमपर्यन्तं नखपर्यन्तं यद् देहप्रतिबिम्बं तत् पश्याव इत्यूचतुरिति सम्बन्धः ॥ १ ॥
परिष्कृताबनुलेपनादिमन्तौ । नखलोमादिरहितावित्यपि कश्चित् ॥ २ ॥
यथैवेदं पूर्वोक्तं किं तदित्यतस्तदेव विशदयतः - आवां भगव इत्यादि ।। इत्यूचतुः । अनन्तरं एष एव बिम्बानुरूपप्रतिबिम्बस्रष्टा आत्मेत्याद्युवाच प्रजापतिः । एवं हर्यभिप्रायेण प्रतिबिम्बस्याब्रह्मतायां न्यायसाम्येन दोषसूचनायोक्तेऽप्ययोग्यत्वाद् विरोचनः प्रतिरूपमेव ब्रह्म तत्पूजायै स्वात्मपूजैव कार्येति मत्त्वा प्रजापतिसूचितमपि दोषमप- श्यन्निन्द्रेण सह जगामेत्याह श्रुतिः ॥ ३ ॥
तौ हेति ॥ शान्तहृदयौ सम्यग्ब्रह्मणाऽऽत्मतत्त्वमुपदिष्टमित्यभिप्राय- वन्तौ तौ गच्छन्तावन्वीक्ष्य प्रजापतिः स्वमाध्यस्थ्यज्ञापनायोवाच- किमिति ॥ आत्मानमपहतपाप्मत्वादिगुणकम् (१) अनुपलभ्य सम्यक् श्रवणादितोऽननुविद्यापरोक्षतः यतो ब्रजतोऽतः । यतरे ये केचित् । एतदेवाऽह - देवा वा असुरा वा । एतदुपनिषदः एतदुपनिषदा- पातप्रतीतार्थवेत्तारो भविष्यन्ति ते पराभविष्यन्ति । मदभिप्रेतार्थस्य दुरवगाहत्वात् । इत्युवाचेति सम्बन्धः । एवमुक्तोऽपि स विरोचनः शान्तहृदय एव किमत्र गहनमित्यभिप्राय एवाऽसुरान् प्रति जगाम । हेत्याश्चर्ये । एवं बलीयसी योग्यतेति ॥ एतां " य एषोऽन्तर- क्षिणि'' इत्येवंरूपं देहप्रतिबिम्बमेव ब्रह्म । बिम्बप्रतिबिम्बयोश्चैक्यम् । तच्चोक्तरीत्या देहाभिमानिजवैक्ये पर्यवस्यति । अतो जीवात्माऽपि ब्रह्मैव । अतः स एव महय्यः इति स्वाभिप्रेतमर्थं दर्शयति – आत्मैवेति । इह जगति । आत्मा जीव एव महय्यः पूज्योऽलङ्कारादिना । आत्मा जीवः परिचर्यः सेव्यः । परब्रह्मपूजाद्यर्थिभिरिति शेषः । उक्तरीत्या जीवस्य ब्रह्मत्वात् । एवं जीवपूजादिकरणे फलमाह - आत्मानमेवेत्यादिना ।। इमं चामुं चेत्युभावित्यन्वयः । ब्रह्मपूजादिकमेवोभयलोकसाधनत्वेन श्रुत्यादिसिद्धम् | जीवश्वोक्तरीत्या ब्रह्मेति भावः। अनेन "स सर्वांश्च लोकानाप्नोति” इत्यादिब्रह्मोक्तमेव फलमुक्तमिति ज्ञातव्यम्॥४ ॥
इदं विरोचनेनावबुद्धमसुरमतमित्युपपादयति श्रुतिः - तस्मादपीति ॥ तस्मादसुरपक्षे जीवस्यैव ब्रह्मतया पूज्यत्वादद्यापि इदानीमप्यददानं जीवातिरिक्तेश्वरप्रीतिमुद्दिश्य दानशून्यम् अश्रद्दधानं जीवातिरिक्तेश्वरोऽ- स्तीति श्रद्धारहितमयजमानं जीवातिरिक्तेश्वरप्रीतिमुद्दिश्य यज्ञाकारिणं च केवलं स्वात्मपूजादिरतमिति यावत् । दृष्ट्वा सज्जनाः एते आसुरा बत आश्चर्यं हरिं सर्वोत्तमं न जानन्तीत्याहुः । कुतः ? हि यस्मादेषोपनिषद् एवमुपनिषदर्थज्ञानमसुराणां प्रसिद्धम् अत इत्यर्थः । एतदेव विशदयति-- प्रेतस्येति । प्रेतस्य त्यक्तदेहस्यापि जीवस्य सम्बन्धिशरीरं शवमपि भिक्षया यथाकथञ्चिद् भिक्षादिना प्राप्तेन वसनेनालङ्कारेण च इति उक्तरीत्या प्रतिरूपभूतब्रह्मभिन्नजीवसम्बन्धिशरीरालङ्कृत्या ब्रह्मणोऽपि तृप्तिः स्यादित्यभिप्रायेण संस्कुर्वन्ति पूजयन्त्यसुराः । किमु जीव- च्छरीरमिति भावः । एतेन बिम्बभूतजीवच्छरीरपूजादिना अमुं लोकम् । उपलक्षणमेतत् । इमं चेत्यपि ग्राह्यम् ॥ ५ ॥ ।। इति अष्टमः खण्डः ।।