अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ..
उपनिषत् (खण्डः -५)
ब्रह्मचर्य स्वरूपकथनम्
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वाऽऽत्मानमनुविन्दते ॥ १ ॥
अथ यत्सत्रायणमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्येमेव तद्ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ॥ २ ॥
अथ यदनाशकायनमित्यचक्षते ब्रह्मचर्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते ।
अद्भुतं श्वेतद्वीपाख्यं विष्णुधाम
अऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेवतत् । अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् ॥ ३ ॥
तद्य एवैतावरं च वै ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ४ ॥ ५ ॥
भाष्यम्
यज्ञ इष्टं च सत्रं च मौनं चानशनं तथा ॥ परस्य ब्रह्मणो ज्ञानं सर्वमेतदुदीरितम् । परस्य ब्रह्मणो लोके श्वेतद्वीपाभिधे परे || अरण्यौ चार्णव (२) दिव्यौ चिदानन्दरसात्मकौ । यावानुच्चः स्वर्गलोकस्तावानुच्चतया स च ।।
श्वेतद्वीपो दिविष्ठोऽतस्तत्र मद्यं सरोवरम् । सर्वभोज्यात्मकं दिव्यं तत्राश्वत्थाः सुधास्रवाः ॥ तत्र विष्णोः पुरं दिव्यमपराजितनामकम् । विमिताख्यं च पर्यङ्कं विष्णोर्मानेन सम्मितम् |चित्सुवर्णमयं दिव्यं लक्ष्मीस्तत्तत्स्वरूपिणी ।
श्वेतद्वीपो (१) विष्णुः पर्यब्रह्मनामकः ।। खण्डः -५ ॥
पदार्थकौमुदी
“अथ यद् यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत्' इत्यारभ्य ‘“अरश्च” इत्यतः प्राक्तनग्रन्थं व्याचष्टे - यज्ञ इति ॥ तथाशब्देनारण्यायनमपि ग्राम् । परस्य ब्रह्मणो ज्ञानमिति ब्रह्मचर्यशब्दार्थः । यात्यपरोक्षतो जानाति ज्ञमनेनेति यज्ञः । इच्छत्यनेनेतीष्टम् । सतत्राणं यस्मात् तत्सत्रम्। मनुतेऽपरोक्षतोऽवगच्छत्यनेनेति मौनम् । ( २ ) अनशं नीयते परोक्षतो ज्ञायतेऽनेनेत्यनशनम् । अरण्यावयतेऽनेनेत्यरण्यायनमिति व्युत्पत्तिभ्य इति भावः ।
"अरश्च हवै ण्यश्चार्णवौ" इत्यादि ब्रह्मलोकपदस्य सत्यलोकपरतया प्रतीतिं वारयन् व्याचष्टे - परस्येति ।। " चिदानन्दरसात्मकौ" इत्यनेन तौ समुद्रौ लक्ष्म्यात्मकाविति ज्ञायते । ननु श्वेतद्वीपो ब्रह्मलोक इत्ययुक्तम् । तस्य " तृतीयस्यामितो दिवि ' ' इति इन्द्रसदनाख्यतृतीयद्युस्थत्वोक्तेः । श्वेतद्वीपश्च क्षीराब्धिगतो न तथा भवितुमर्हतीत्यत आह- यावानुच्च इति । दिविष्ठः तृतीयदिविष्ठः । " तदैरं मदीयं सरः" इति वाक्यं व्याचष्टे - तत्रेति ॥ “ तदश्वत्थः " इति वाक्यमेकवचनादेकत्वप्रतीतिं वारयन् व्याचष्टे– तत्राश्वत्था इति ।। सोमसवन इत्यस्यार्थः - सुधास्रवा इति ॥
“ तदपराजिता पू:' इति वाक्यं व्याचष्टे - तत्रेति । तदित्येतत् तन्त्रेण तत्र लोके तस्य विष्णोरिति व्याख्यातम् । 44(2) प्रभुविमितम्’’इति वाक्यं व्याचष्टे— (२)विमिताख्यमिति ॥ “ हिरण्मयम्’'इत्यस्य व्याख्या– चित्सुवर्णमयमिति । तत्कथमित्यत आह - लक्ष्मीरिति ॥ ग्रन्थान्तरा- विरोधाय श्वेतद्वीपस्थपर्यङ्कगतविष्णुनामाऽह् स इति ॥ खं०॥ ५ ॥
खण्डार्थः
ननु ब्रह्मचर्यस्य न ब्रह्मलोकप्राप्तिसाधनत्वं युक्तम् । अन्यत्र यज्ञादेरेव तत्साधनत्वेनोक्तत्वादित्यतो यज्ञादिकमपि ब्रह्मचर्यमेवेत्याह- अथेति । अथ ज्ञानस्यैव मोक्षसाधनत्वेन प्रमितत्वादित्यर्थः । यद् यज्ञ इत्याचक्षते विद्वांसस्तद्ब्रह्मचर्यमेव ज्ञानमेव । एवमग्रेऽपि । नन्वस्तु यज्ञादिशब्द- वाच्यस्य ज्ञानस्य मानसब्रह्मचर्याभेदः कायिकवाचिकब्रह्मचर्ययोस्तु कथं यज्ञादिशब्दोदितज्ञानाभेद इत्याशङ्कायां यज्ञादिशब्दनिर्वचनलभ्यस्य मोक्षहेतुज्ञानस्य स्वकार्यजनने कायिकवाचिकब्रह्मचर्यसापेक्षत्वादुपचारेण तत्राप्यभेदव्यपदेशोपपत्तिरित्यभिप्रेत्य मानसब्रह्मचर्यरूपे ज्ञाने यज्ञादि- शब्दनिर्वचनमुक्ताभेदोपपादनाय दर्शयन् तस्य स्वकार्यकरणे स्वेतर- ब्रह्मचर्यसापेक्षत्वं चोपपादयति- ब्रह्मचर्येण ह्येवेत्यादिना ॥ कायिकेन वाचिकेन वा ब्रह्मचर्येणेत्यर्थः । एवमग्रेऽपि । हिशब्देन ज्ञानमेतादृश- ब्रह्मचर्यसहकृतमेव मोक्षहेतुरिति प्रसिद्धमिति दर्शयति । यो ज्ञाता सः तं विन्दते इत्यनेन यात्यनेन ज्ञमिति यज्ञशब्दनिर्वचनं ज्ञाने सूचयति । तेन "ब्रह्मचर्यमेव तत्" इत्युक्तमुपपादितमिति ध्येयम् । एवमग्रेऽपि इष्टमित्यत्रापि इच्छत्यनेनेतीष्टमिति निरुक्तिमभिप्रेत्य अनया च निरुक्त्या इच्छासाधनमेव प्राप्तं न मोक्षसाधनं ज्ञानमित्यतस्तत्तात्पर्यं दर्शयति– इष्ट्वाऽऽत्मानमनुविन्दत इति । इच्छानन्तरं भगवन्तमपि प्राप्नोतीत्यतो मोक्षहेतुज्ञानमुक्तनिरुक्तिलभ्यमेवेति भावः ।। १ ।।
सत इत्यनूद्याऽत्मन इति व्याख्यानम् । अनेन सतो भगवतस्त्राण- मयतेऽनेनेति सत्त्रायणमिति निरुक्तिः सूचिता । आत्मानं भगवन्तम् । अनुविद्य श्रवणादिना ज्ञात्वा मनुते परोक्षतो जानाति । अनुविद्यापरोक्षतो ज्ञात्वा मनुते मोक्षे ध्यायतीति वार्थः । अनेन मनुतेऽनेनेति मौनमिति निर्वचनं सूचितं भवति ॥ २ ॥
यमात्मानं ब्रह्मचर्येणानुविन्दते स एष आत्मा मोक्षे तस्य न नश्यति । हि । न तं परित्यजतीति प्रसिद्धमित्यर्थः । अनेनाप्यनाशकं नाशशून्यं ब्रह्मायतेऽनेनेत्यनाशकायनमिति निर्वचनं प्रदर्शितम् । एवमरण्यावयतेऽ- नेनेत्यरण्यायनमिति निर्वचनसूचकं वाक्यं प्रकरणादूह्यम् । एवं चात्र यन्मानसं ब्रह्मचर्यं तस्य यज्ञाद्यभेद एव विवक्षितः । यज्ञादिशब्दैरपि ज्ञानलाभात् । यच्च कायिकं वाचिकं च ब्रह्मचर्यं तद् यज्ञादिशब्द- वाच्यज्ञानसहकारित्वात् तदभिन्नमिति व्यपदिश्यत इत्युक्तं भवति । अरण्याविति कौ कुत्रत्यौ ? यत्प्राप्तिसाधनं ब्रह्मचर्यमित्यपेक्षायामाह - अरश्चेत्यादिना ॥ यद्वा अरण्यायनमिति प्रसिद्धारण्यप्राप्तिसाधनं ब्रह्मचर्यमित्यन्यथाप्रतीतिनिरासायारण्यशब्दार्थमाह - अरश्चेति । इतो मेर्वपेक्षया । तृतीयस्यां दिवि विद्यमाने ब्रह्मलोके श्वेतद्वीपेऽरश्व ण्यश्चेत्ये- वंनामानौ ह वै प्रसिद्धौ । अर्णवौ समुद्रौ समुद्रोपमे वा । सरसी तिष्ठतः । एतत्प्रसङ्गात् पुनः परब्रह्मलोकमाहात्म्यमेवाऽह - तदित्यादिना । तत् तत्रैरमीराख्यवृक्षसम्बन्धिसुरापूर्णम् । इराऽन्नं तन्मय ऐरो मण्डस्तेन पूर्णमैरमित्यपि कश्चित् । वस्तुतस्तु ऐरं लक्ष्म्यात्मकम् । 'ऐरं श्रीश्व' इति गीतातात्पर्यवचनात् । उपपादितं चैतट्टीकाकारैः । " तदैरं मदीयं सरः इति श्रुतेरैरं श्रीरिति । मदीयं मदकारि । सरः सरोवरं वर्तते । तत्राश्वत्थोऽश्वत्थसमूहः सोमसवनः सुधास्रवोऽस्ति । तत् तत्र लोके तस्य ब्रह्मणोऽपराजिताऽपराजितनामकं पूः पुरमस्ति । तत्रापि प्रभुणा ब्रह्मणा विमितं सम्मितं हिरण्मयं चित्सुवर्णमयं पर्यङ्कमस्ति ॥ ३ ॥
एवमरण्यौ निरूप्येदानीं ब्रह्मचर्यस्य तत्प्राप्तिसाधनतारूपं तदयनत्वं दर्शयन् अन्यदपि फलमाह - तद्य इति । तत् तस्माद् य एवाधिकारिणः एतावरं च ण्यं चार्णव ब्रह्मलोके विद्यमानौ ब्रह्मचर्येणानुविन्दन्ति प्राप्नुवन्ति तेषामेवैष ब्रह्मलोकः । व्याख्यातमेतत् ।। ४ ।।
|| पञ्चमः खण्डः ॥