औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव ..
उपनिषत् ( खण्ड: १२ )
वैश्वानरस्य शिरो द्युनामकमिति निरूपणम्
औपमन्यव कं त्वमात्मानमुपास्स इति दिवमेव भगवो राजन्निति होवाचैष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से तस्मात् तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ १ ॥
अत्स्यन्नं पश्यसि प्रियमत्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति होवाच मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ॥ २ ॥ १२ ॥
भाष्यम्
क्रीडात्मकत्वाद् द्व्याख्यं च (१) सुतेजाश्वातितेजसा । स्वर्गाधारं शिरो विष्णोः …… ॥
पदार्थकौमुदी
वैश्वानरशब्दश्रवणादग्निरत्रोच्यत इत्यन्यथाप्रतीतिनिरासाय प्रमाणे- नैव तां विद्यां विष्णुपरतया व्याचष्टे - क्रीडात्मकत्वादित्यादिना ॥ वैश्वानरस्य द्युत्वादिना कल्पनोच्यत इति प्रतीतिनिरासाय तावद् ‘‘औपमन्यव’” इति खण्डतात्पर्यमाह - क्रीडेति । “दिवु क्रीडा " इत्यादि धातोः। ‘“स्वर्गांधारम्” इति व्याख्यत्वे निमित्तान्तरम् ।
खण्डार्थः
हे औपमन्यव त्वमात्मानं वैश्वानरं कं किन्नामकमुपास्स इति । हे भगवो भगवन् राजन् दिवमेव क्रीडात्मकत्वाद् द्वयाख्यं स्वर्गाधारमेवाs- त्मानं वैश्वानरम् उपास्स इति होवाच । वक्ष्यमाणविशेषव्यावृत्त्यर्थ एव- शब्दः । तत्र स्वयं विशेषमाह - एष इति । यमात्मानं वैश्वानरं त्वमुपास्से एषः द्युस्थो वैश्वानरो विश्वनरसम्बन्धित्वाद् वैश्वानराख्यः । आत्मा भगवान् सुतेजाः अतितेजसा सुतेजोनामकः यत्तवास्ति तत्तदुपासनाफलमेवेत्याह- तस्मादिति ॥ थवैश्वानरोपासकत्वात् तव कुले स्वर्गप्राप्त्यर्थं सोमरूपं द्रव्यं सुतं प्रसुतम् आसुतम् । सवनत्रयकथनमेतत् । दृश्यतेऽतीव कर्मिण- स्त्वत्कुलीना इत्यर्थः । सुतं प्रसुतमासुतं पुत्रपौत्रतत्पुत्रा इति वा ॥ १ ॥
अन्नमत्सि दीप्ताग्निः सन् प्रियं पश्यसि । एवमन्यस्यापि वैश्वानरज्ञानिनः फलमाह - अत्तीति ॥ योऽधिकारी एतमात्मानं वैश्वानरं विष्णुमुपास्ते सोऽप्यन्नमत्ति प्रियं पश्यति । अस्योपासकस्य कुले ब्रह्मवर्चसं भवति । विशेषान्तरमाह - मूर्धेति । एषः स्थो धुनामकः सुतेोनामकश्चाऽत्मनो वैश्वानरस्य मूर्धेवेति होवाच । किमेतज्ज्ञानेन ? यावन्मया ज्ञातं तावदेवालमित्यत आह- मूर्धेति । यद्यदि मां विं नाऽगमिष्यस्तर्हि ते मूर्धोपास्य वैश्वानरमूर्धापरिज्ञानापराधेन व्यपतिष्यत् । इतिशब्दः औपमन्यवोपदेशसमाप्त्यर्थः ॥ २ ॥
।। इति द्वादश: खण्ड: ।।