तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः..

उपनिषत् (खण्ड: १५ )

सम्प्रदायप्राप्त शास्त्रश्रवणादितः शाश्वतमोक्षलाभनिरूपणम्

तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषणाभिसमावृत्य कुटुम्बी शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधदात्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्याहिंसन् सर्वाणि भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते ॥ खण्ड:  १५ ॥

॥ इति श्रीमच्छान्दोग्योपनिषदि अष्टमोऽध्यायः ॥ ॥ इति श्रीमच्छान्दोग्योपनिषत् सम्पूर्णा ॥

भाष्यम्

उपदिष्टः परेणैव त्वेवमाह चतुर्मुखः । उवाच च मनोर्विद्यां प्रजाभ्यो मनुरेव च ॥ तस्मात् सर्वेन्द्रियाणीशे निधाय पुरुषोत्तमे । दृष्ट्वा तं परमं विष्णुं तल्लोकं प्रतिपद्यते । नाऽवर्तते पुनस्तस्मात् कदाचित् केनचित् कचित्॥' इति च ॥

॥ १५ ॥

पदार्थकौमुदी

एषा मुमुक्षुभिरवश्यमादरणीयेत्याशयेन वेदपुरुष एतदुपनिषत्प्रवर्त- कान् वदन्नेतदुपनिषदुक्तगुणोपासकानाम् अवश्यापेक्षितान् यमनियमान् प्रदर्शयन्नपुनरावृत्तिरूपं फलं चाऽह तद्वैतदित्यादिना खण्डेन ॥ तत्राऽदिवाक्यं ब्राह्मणादीनां सर्वेषां यशः प्राप्नुयामित्यादेः सर्वोपासक- विषयत्वानुपपत्तेरेवं वक्ता क इति जिज्ञासामपनुदन् व्याचष्टे - उपदिष्ट इति ।। परेणैव विष्णुनैव । अनेन ब्रह्मशब्दो विष्णुपर इत्युक्तं भवति ।आचार्यकुलाद् वेदमधीत्य" इत्यादिना यमनियममात्रेण ब्रह्मलोक- प्राप्तिरुच्यत इत्यन्यथाप्रतीतिवारणायापेक्षितं पूरयंस्तद् व्याचष्टे - तस्मा- दिति ।। तस्मादेवमस्या उपनिषदः परम्परागतत्वेन तदुक्तार्थस्यात्यन्तं विश्वसनीयत्वात् । ‘‘पुरुषोत्तमे ईशे" इत्यनेनैतदुपनिषदुक्तगुणवतीति सूचयति । तं परमं विष्णुं दृष्ट्वेति शेषोक्तिः ।नच पुनरावर्तते" इत्यत्र चशब्दोऽवधारणार्थ इत्यभिप्रेत्योक्तम्- कदाचित् केनचित् क्वचि-दिति ॥ खं० ॥ १५ ॥

खण्डार्थः

तत् पूर्वोक्तम् एतत् " श्यामाच्छबलम्'' इत्यादिकम् उपनिषद्रूपं वाक्यजातं ब्रह्मा विष्णुः प्रजापतये चतुर्मुखायोवाच होपदिदेश किल । मनवे स्वायम्भुवाय । यत एवमियमुपनिषत् परम्परगता अत एतदुपनिषदुक्तार्थस्यावश्यमादरणीयत्वादद्यतनोऽपि यः कश्चिन्मुमुक्षुः आचार्यकुलाद् वेदमधीत्य, यथाविधानमित्येतत् पूर्वोत्तराभ्यां सम्बध्यते । गुरोः कर्म सेवारूपं गुरुदक्षिणारूपं वा अतिशेषेण अशेषेण कुटुम्बी गृहस्थाश्रमवान् । क्वचित् कुटुम्बे इति पाठः । तदा वर्तमान इति शेषः । इदमितराश्रमिणामुपलक्षणम् । धार्मिकान् व्यापारान् विदधत् कुर्वाणः । आत्मनि एतदुपनिषदुक्त गुणवति सर्वेन्द्रियाणि सम्प्रतिष्ठाप्य नियम्य तीर्थेभ्यो यज्ञेभ्योऽन्यत्र विना सर्वाणि भूतान्यहिंसन् हिंसामकुर्वाणः यावदायुषं वर्तयन् वर्तमानस्तं परमात्मानं दृष्ट्वा ब्रह्मलोकमभिसम्पद्यते प्राप्नोति । स्वर्गलोकं प्राप्त इव पुनरावर्तते किम् ? नेत्याह - नचेति ॥ चशब्दोऽवधारणार्थः । कदाचिदपि कचिदपि केनापि निमित्तेन । नैवाऽवर्तत इत्यर्थः द्विरुक्तिरुक्ताशेषार्थावधारणार्था || पञ्चदशः खण्डः ॥ १५ ॥