इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढं साम..
उपनिषत्(खण्ड: - ६)
सरस्वतीवाय्वोरुपासना
इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते इयमेव साग्निरमस्तत्साम ॥ १ ॥
अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयतेऽन्तरिक्षमेव सा वायुरमस्तत् साम ॥ २ ॥
द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते द्यौरेव सादित्योऽमस्तत् साम ॥ ३ ॥
नक्षत्राण्येवकः चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयते नक्षत्राण्येव सा चन्द्रमा अमस्तत् साम ॥४॥
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः कृष्णं तत् साम तदेतदेतस्यामृच्यध्यूढं साम तस्मादृच्यध्यूढं साम गीयतेऽथ यदेवैतदादित्यस्य शुक्लं भाः सैव साम यन्नीलं परः कृष्णं तदमस्तत् साम ॥ ५ ॥
सूर्यान्तर्गतप्राणस्थभगवन्महिमा
अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषः दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात् सर्व एव सुवर्णः ॥ ६ ॥
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति । नाम स एषः सर्वेभ्यः पाप्मभ्यः उदितः उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ ७ ॥
तस्यर्क्च साम च गेष्णौ तस्मादुद्गीथस्तस्मात् त्वेवोद्गातैतस्य हि गाता स एष ये चामुष्मात् पराञ्चो लोकास्तेषां चेष्टे देवकामानां चेत्यधिदैवतम् ॥ ८ ॥ खण्डः ६ ॥
भाष्यम्
'अनीरसूर्यनीलेषु वायुस्थः (१) सामदेवता । उर्वीवियद्धुशुक्लेषु ऋग्देवीस्था(२) सरस्वती ॥ सेति भार्या हि वाग्देवी प्राणोऽमः पतिरीरितः । एवं तौ सामनामानावुभावेवाप्युदाहृतौ (३) ।। अतो हि सामवेदोऽयं ऋक्सामात्मक ईरितः । वागादिष्वेवमेवैतौ वाक्प्राणौ सर्वदा स्थितौ ॥ तयोरन्तः स्थितो विष्णुर्गायकौ तस्य तावुभौ । ऋक्सामभ्यां स उन्नामा पापोद्रवोच्च एव च ।। ' इत्यादि सत्तत्त्वे । ‘कप्यासरक्तपद्माक्षः सूर्यगचाक्षिगश्च सः । गायकस्तस्य विष्णोर्यः स स्वर्ग्याश्च नृलोकगान् ।। कामान् दद्यान्नरश्चेत् स्यात् सुराणां च नृणामपि । मोक्षदो यदि वायुः स्यान्मुख्योद्गाता ततोऽनिलः ।।' इति च । तस्मादुद्गीथ उच्चोऽसौ गीयते चेति ॥ ६ ॥
पदार्थकौमुदी
‘“वाच ऋग्रस ऋच: साम रस: " इति प्रकृतऋक्सामयोरीश्वर- वर्गत्वादधिदैवमध्यात्मं च तदुपास्तिपूर्वं तत्परिवृतोद्गीथोपास्तिमाह- “इयमेव' इत्यादिखण्डद्वयेन || यद्वा " ऋचः साम रसः साम्न उद्गीथो रसः” इत्यृक्सामाभ्यमुद्गीथस्य श्रेष्ठ्यमुक्तम् । ऋक्सामोत्तमत्वेऽप्यु- द्गीथस्य किं माहात्म्यम्? कथं चोद्गीथस्य ऋक्सामोत्तमत्वमित्यत ऋक्साममाहात्म्योक्तिपुरःसरं भगवतस्तदुत्तमत्वं दर्शयति- " इयमेव " इत्यादिखण्डद्वयेन ।। तत्र " इयमेवर्गनिः साम" इत्यादौ भूरादीनामेव ऋगादित्वमुच्यत इति प्रतीतिनिरासाय " इयमेवर्गशिः साम” " अन्तरिक्षमेव वायुः साम" " द्यौरेवर्गादित्यः साम” “नक्षत्राण्येव चन्द्रमाः साम’” ‘“अथ यदेतदादित्यस्य शुक्लं भाः सैवर्क" " अथ यन्नीलं परः कृष्णं तत्साम" इति वाक्यपञ्चकं व्याचष्टे – अग्नीरेति ॥ सूर्येत्यतः परं चन्द्रेति ग्राह्यम् । तथा द्यु इत्यतः परं नक्षत्रेत्यपि ग्राह्यम् । सामदेवतावायुरग्नीरसूर्यचन्द्रनीलेषु । स्थः तिष्ठतीत्यर्थः । एवमुत्तरार्धोऽपि व्याख्येयः । यद्यपि श्रुतौ " इयमेवर्क्" इत्यादीनि प्रथमवाक्यानि । तथाऽपि प्राधान्यक्रममनुसरता “अग्निः साम'' इत्यादीन्येव प्रथमं व्याख्यातानि । “इयमेव साऽग्रिमस्तत्साम" इत्यादि वाक्यपञ्चकं व्याचष्टे- सेतीति ।। ‘“एवं तावुभावपि मिलित्वा सामनामानावुदाहृतौ” इत्यनेनेदमर्धनारीनरात्मकवायुस्वरूपकथनपरमिति ज्ञायते । उक्तं च “अर्धनारीनरवपुर्वायुः कुत्रचिदीरितः" इति । " तस्माद् ऋच्यध्यूढं साम गीयत" इति वाक्यपञ्चकं व्याचष्टे अतो हीति । यतोऽग्र्यादौ सामदेवता वायुरस्ति उर्व्यादौ च ऋग्देवी सरस्वती यतश्च तदेतस्या- मृच्यध्यूढं साम अत एवेत्यर्थः ।
" अध्यात्मं वागेवर्क प्राणः साम'' इत्याद्युत्तरखण्डस्थवाक्यचतुष्टयं व्याचष्टे – बागादिष्विति । अत्रादिपदेन प्राणचक्षुरात्मश्रोत्रमनः शुक्लनीलानां ग्रहणम् । " य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते" " य एषोऽन्तरक्षिणि पुरुषो दृश्यते" इति वाक्यद्वयमादित्यचक्षुर्मात्रा- न्तस्थभगवत्परमिति प्रतीतिनिरासाय व्याचष्टे तयोरिति ॥ आदित्यस्थचक्षुः स्थवायुसरस्वत्योरित्यर्थः । " तस्यर्क च साम च गेष्णी" इति वाक्यं व्याचष्टे - गायकाविति ॥ ऋक्समाभ्यामृग्वेदसामवेदाभ्यां गायकाविति सम्बन्धः । " तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः" इति वाक्यं व्याचष्टे स उन्नामेति ।। ‘“उच्च' इत्यु- च्छब्दस्यार्थान्तरम् । स एवेत्येव - शब्दान्वयः । तस्य " यथा कप्यासं पुण्डरीकमेवमक्षिणी" इति वाक्यं व्याचष्टे कप्यासेति ॥ पुण्डरीकशब्दो रक्तपद्मपरः । कं पिवन्नालसम्बन्धीति योगेन कप्यासत्वं रक्तपद्मविशेषणमित्यर्थः । एवं च कप्यासशब्देनाम्लानत्वं लभ्यत इति तात्पर्यम् । अक्षिगश्चेत्यनेन " तस्यैतस्य तदेव रूपं यदमुष्य रूपम् " इत्येतदपि व्याख्यातम् । “स एष ये चामुष्मात् परावो लोकास्तां- वाप्नोति देवकामांश्च" " ये चैतस्मादर्वाचो लोकास्तांश्चाऽप्नोति मनुष्यकामांश्च' इत्यत्रोद्गातुरेव परागर्वाग्लोकप्राप्तिर्देव- मनुष्यकाम- प्राप्तिश्वोच्यत इत्यसत् । " तस्मादु हैवंविदुद्गाता ब्रूयात् कं ते काममागायानि’” इत्याद्युत्तरवाक्यानुपपत्तेः । तस्मात् पराग्लोकादि- प्रापकत्वमेवोच्यते । तदपि न सर्वस्योद्गातुर्मुख्यतः सम्भवतीत्यतो व्यवस्थया तद्व्याचष्टे गायक इति ।। " तस्मादुद्गीथः” इत्यत्र तस्मादिति कस्य परामर्श इति न ज्ञायते । अतस्तदनूद्य तत्परामृश्यं दर्शयति तस्मादिति । पूर्वं “तस्योदिति नाम ' ' इति भगवत उन्नामकत्वमुक्तम् । “ तस्य ऋक् च साम च गेष्णौ" इति गीयमानत्वमुक्तम् । तदुभयं तस्मादिति परामृश्यत इति भावः । इति षष्ठः खण्डः ।। ६ ॥
खण्डार्थः
ऋग् ऋगभिमानिनी ऋङ्नाम्नी सरस्वती इयमेव पृथिवीलोकगतैव । साम सामाभिमानी सामनामको वायुः अग्निरग्निस्थः तदेतदग्र्यन्त- र्गतमग्निनामकं सामैतस्यां पृथिव्यन्तर्गतायामृचि अध्यूढमाश्रितम् । अग्निर्हि पृथिव्याश्रितो दृश्यते । अतोऽग्निस्थस्य वायोः पृथिवीस्थसरस्वत्या- श्रयत्वमुपपन्नम् । सामनाभकवायोः ऋच्यध्यूढत्वे युक्तिमाह- तस्मा- दिति ।। तस्मात् तयोः सम्बद्धत्वादेव बाह्यमपि साम ऋच्यध्यूढं गीयते सामगातृभिः । एवं पृथक् स्थितयोर्ऋक्सामयोः सरस्वतीवाय्वोः पृथिव्यग्निस्थरूपमाहात्म्यमुक्तम् । इदानीं सरस्वती वायुश्चेत्येतद्वयं मिलित्वैकशरीरं सदर्धनारीनरात्मकं सामनामकं वर्तते । तत्र सरस्वतीभागः सेत्युच्यते । वायुभाग अमेत्युच्यते । तस्यार्धनारीनरात्मकभागद्वयस्यापि पृथिव्यग्निस्थत्वमाह – इयमेव सेत्यादिना ।। सारत्वात् स्त्रीषु सा देवी इयमेव पृथिवीगतैव । न मीयत इत्यमो मुख्यवायुः अग्निरग्निस्थः। तत् सा अम इत्येतदुभयं मिलित्वा साम सामनामकं भवतीत्यर्थः ॥ १ ॥ एवमुत्तरत्रापि । अन्तरिक्षमन्तरिक्षलोकस्था । वायुर्ब्राह्यवायुस्थः ॥२॥
लोकस्था | आदित्य आदित्यस्थः ॥ ३ ॥ नक्षत्राणि नक्षत्रस्था | चन्द्रमाः चन्द्रस्थः || ४ ॥
यदेतदादित्यस्य शुक्लं भाः तेजः सैव तदन्तस्थैव ऋक् । अथाऽदित्यस्य यन्नीलं नेदमौपचारिकं किन्तु परः परम् । कृष्णमतिशयेन कृष्णं तेजस्तत् तत्स्थं साम || ५ ||
अस्त्वेवमृक्सामयोः सरस्वतीवाय्वोरुक्तमाहात्म्यम् । किं तत इत्यत एवंविधाभ्यामपि भगवानुपास्यो यतोऽतस्तस्य युक्तमृक्सामोत्तमत्वमिति भावेनोद्रीथाख्यभगवत्स्वरूपमाह अथेति ॥ अथशब्दः प्रकरणा-न्तरद्योतकः । य एष आदित्ये आदित्यस्थसरस्वतीवाय्वोरन्तर्हिरण्मयः । हिरुक् बाह्यविलक्षणं सुखं हिरण्यं स्यात् । मयडाधिक्यार्थे स्वरूपार्थे च । इतरविलक्षणपूर्णानन्दस्वरूपः । पूर्णौ हि हितौ निहितौ रच णश्चेति रणौ रत्यानन्दौ यस्मिन् स हिरण्मयो वा सुवर्णवर्णो वा, पुरुषो दृश्यते ज्ञानदृष्ट्येति शेषः । उक्तं च
" …स एव च हिरण्मयः । हिरुक् सुखं हिरण्यं स्याद् बाह्यानन्दात् पृथग् यतः ।। आधिक्यार्थे मयड् यस्मादधिकानन्दरूपक इति । रत्यानन्दौ पूर्णनित्यौ हि तौ तेन हिरण्मयः । स्वर्णवर्णतया वाऽपि वासुदेवो हिरण्मयः ।। " इति च । न केवलं भगवत्स्वरूपस्यैव हिरण्मयत्वम् । किन्तु तदवयवानामपीत्याह -हिरण्मश्मश्रुरिति ॥
आप्रणखात् प्रणखमारभ्य सर्व एवावयवः सुवर्णः सुवर्णवर्णः सुखपूर्णो वेत्यर्थः ॥ ६ ॥
" सर्व एव सुवर्णः" इत्युक्त्या चक्षुषोऽपि सुवर्णवर्णत्वप्राप्तेस्तत्र विशेषमाह – तस्येति ॥ तस्याऽदित्यान्तर्गतसरस्वतीवायुगतस्य पुरुषस्य यथा कप्यासं कं पिबन्नालसम्बन्धी अम्लानमिति यावत् । पुण्डरीकं रक्तपद्मम् एवमक्षिणी वर्तेते । तस्य रहस्यं नामाऽह - तस्येति । तस्य पुरुषस्योदिति नाम कुतः ? स एष आदित्यस्थसरस्वतीवायुगतः पुरुषः सर्वेभ्यः पाप्मभ्य उदित उद्गतो यतः । एवंविदः फलमाह - उदेतीति ॥ योऽधिकारी एवं पापोद्गतत्वप्रवृत्तिनिमित्तकोन्नामतया भगवन्तं वेद स सर्वेभ्यः पाप्मभ्यः उदेति उद्गतो भवति । ह वै प्रसिद्धमित्यर्थः ॥ ७ ॥
तस्याऽदित्यस्थसरस्वतीवायुगतस्य भगवत ऋक् च साम च परस्परसमुच्चये चशब्दौ | ऋगाभिमानिनी सरस्वती सामाभिमानी वायुश्च गेष्णौ गायकौ । ऋग्वेदसामवेदाभ्यामिति शेषः । एतस्यैव भगवतः प्रसिद्धमुद्गीथनामाप्यत एव जातमित्याह - तस्मादिति ॥ यस्मात् तस्योदिति नाम यस्माच्च तस्यर्क साम च गेष्णौ तस्मात् स उद्गीथः । उच्चासौ गीयते चेति व्युत्पत्तेरित्यर्थः । न केवलमुक्सामनामकसरस्वतीवायू एव तस्य गेष्णौ किन्त्वित्यत आह - तस्मादिति । यस्मादेवमत्युत्तमौ सरस्वतीवायू तस्य गायकौ तस्मादेव यः कोऽप्युद्गाता तस्यैव भगवतो गाता गायको भवेत् । तस्यैव भगवतः सामर्थ्यमाह - स एष इति । स एष आदित्यस्थसरस्वतीवायुगत उद्गीथाख्यो भगवान् ये चामुष्मा- दन्तरिक्षलोकात् पराञ्च लोकाः स्वर्गादयस्तेषां अधिपतिर्भवतीत्यर्थः । न केवलममुष्य लोकस्यैव किन्तु तेषामपीति चशब्दः । देवकामानां देवकाम्यानां देवकामितदानार्थं चेष्टे समर्थो भवतीत्यधि- दैवतमृक्सामोद्गीथस्वरूपमुक्तम् ॥ ८ ॥
।। इति षष्ठः खण्डः ।।