मनो हिङ्कारो वाक् प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो..

उपनिषत् (खण्डः ११)

गायत्रसामप्रतिपाद्यभगवदुपासना

मनो हिङ्कारो वाक् प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतं स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति सर्वमायुरेति ज्योग्जीवति महान् प्रजया पशुभिर्भवति महान् कीर्त्या महामनाः स्यात् तद् व्रतम् ॥ ११ ॥

भाष्यम्

'प्राणसंस्थे हरौ (१) प्रोतं गायत्रं साम सर्वदा । तद्वाचकं नियम्यं चेत्यतः प्रोतमितीर्यते ॥प्राणस्थविष्णोः सामीप्यात् तत्स्थमेतदितीर्यते । क्वचिन्निर्देशसामीप्याद् विष्णोरेतदितीर्यते ॥' इति च ।

' प्राणस्थविष्णुलाल्यत्वात् (२) प्राणीत्येवाभिधीयते । मोक्षस्तु सर्वमायुः स्यान्नित्यत्वाज्ज्योक् समस्तवित् ॥' इति च

।। ११ ।।

पदार्थकौमुदी

पुनश्च हिङ्कारादिसामभक्ति प्रतिपाद्यस्य हिङ्कारादिनाम्नः प्रद्युम्नादि - पञ्चरूपस्य भगवत उपास्त्यर्थं प्राणान्याद्यधिष्ठानोक्तिपूर्वकं गायत्र- रथन्तरादिसामवाच्यत्वतन्नियामकत्वरूपमाहात्म्यमेकादशखण्डैराह मन इत्यादिना ॥ तत्र पूर्वोक्तेष्वेव प्राणादिषु प्रकारान्तरेण पञ्चविध- भगवदुपास्तिकथनपूर्वं तस्य गायत्रसामप्रोतत्वमाह मन इत्याद्य-खण्डेन ॥ अत्र "मनो हिङ्कारः" इत्यादेः प्रागुक्तरीत्याऽर्थः स्पष्ट इति भावेन ‘“एतद्गायत्रं प्राणेषु प्रोतम्" इत्येतद्व्याचष्टे - प्राणेति । अनेन प्रसिद्धप्राणेषु गायत्रं प्रोतमित्यपास्तम् । प्रोतशब्दस्य तत्स्थत्वमात्रमर्थ इति प्रतीतिनिरासायार्थमाह - तद्वाचकमिति ।।

ननु पूर्वं गायत्रसाम्नोऽप्रकृतत्वात् कथमेतदिति परामर्श इत्यत आह- प्राणस्थेति ॥ प्राणस्थविष्णोः सामीप्यान्मनो हिङ्कार इत्यादिना समीपे प्रकृतत्वात् तत्स्थं गायत्रं सामापि प्रकृतम् । अतः तत्स्थं गायत्रं सामैतदित्यनेन परामृश्यत इत्यर्थः । अत एवैतच्छब्देन प्राणस्थविष्णु- संस्थत्वस्य लाभात् प्रोतमित्यस्यार्थान्तरमुक्तम् ।एतद्रथन्तरमग्नौ प्रोतम्इत्यादिकमप्येवमेव व्याख्येयम् । नन्वेवं तर्हि " य एतदेवं विद्वानात्मसम्मितम्’” इत्यादावप्येतच्छब्देन पूर्वं प्रकृतविष्णुस्थमेव किञ्चित् परामृश्यते न विष्णुरित्यत आह - क्वचिदिति ॥ कचिद् विष्णोर्निर्देशसामीप्यात् समीप एव निर्दिष्टत्वात् स एवैतदित्यादाव - प्येतच्छब्देन पूर्वप्रकृतविष्णुस्थेति परामृश्यत इत्यर्थः । " प्राणी भवति " इत्यादेरविकलकरणो भवति । शतवर्षाणि जीवति उज्वलन् जीवतीत्यर्थ- प्रतीतिनिरासाय प्रमाणेनार्थमाहप्राणस्थेति ।। ।। एकादशः खण्डः ।।

खण्डार्थः

अत्रप्राणेषु पञ्चविधं सामोपासीत" इत्यादौ वक्तव्यम् । हिङ्कारः प्रद्युम्नो मनोनामा मनः स्थश्चेत्यादि पूर्ववत् ।। मनआदिस्थस्य हिङ्कारादि- नाम्नो भगवतः गायत्रसामवाच्यत्वादिनोपास्तिः कर्तव्येति भावेन गायत्रसामवाच्यत्वं तन्नियामकत्वं चाऽह - एतदिति । एतत् प्राणस्थ - विष्ण्वाश्रितं गायत्रं साम प्राणेषु इन्द्रियस्थविष्णुरूपेषु प्रोतं तद्वाचकं तन्नियम्यं चेत्यर्थः । एवमुपासकस्य फलमाह - स इति ॥ योऽधिकारी एतद् हिङ्कारादिनामकमेवं मनआदिस्थत्वेनैतद्गायत्रं प्राणेषु प्राणस्थविष्णु- रूपेषु प्रोतं च वेद स प्राणी प्राणस्थविष्णुलाल्यो भवति । सर्वमायु- मक्षलक्षणमेति ज्योक् सर्वज्ञः सन् जीवति प्रजया पशुभिर्महान् भवति । प्रकृष्टत्वेन जननान् प्रजेति ज्ञानम् । पान्ति शंसाधनं चेति पशवो वेदाः तैर्महान् भवतीत्यर्थः । नचैवं ज्योगित्यनेन पुनरुक्तिः परोक्षापरोक्ष- ज्ञानयोर्ग्रहणात् । लौकिकप्रजादिकमपि यथायोग्यं तदिच्छूनां भवति । कीर्त्या महान् भवति । एतत्फलहेतूक्तभगवदुपासनाङ्गतया किञ्चिद् व्रतमाह -- महामना इति । एवमुत्तरत्रापि व्याख्येयम् ॥ १ ॥

|| इति एकादश: खण्ड: ।।