शशविषाणं गोविषाणं वोच्यत इतिवत् ..

पूर्वोक्तप्रश्नायोगे दृष्टान्तकथनम्

श्रीमज्जयतीर्थटीका

अत्र दृष्टान्तमाह-

मूल

शशविषाणं गोविषाणं वोच्यत इतिवत् ।

यथा केनापि ‘तत्र विषाणमस्ति’ इत्युक्ते किं भवता विषाणपदेन शशविषाणमुच्यते किं वा गोविषाणमिति न युज्यते प्रश्नः । शशविषाणस्यैवाप्रसिद्धत्वेन विषाणत्वस्य तत्सम्बन्धितया अनुपलब्धस्य विषाणपदात् प्रतिभासे सत्यपि तदनुस्मरणहेतुत्वानुपपत्त्या जिज्ञासोदयाभावेनैवं-विधसंशयायोगात् । तथा प्रकृतेऽपि ।

श्रीविजयीन्द्रभिक्षु

ननु भेदान्यानिर्वचनीयस्याप्रसिद्धत्वं भेदानिर्वचनीयत्वपारमार्थिकत्वप्रभेदायोगे न हेतुर्भवितुमर्हति । वैयधिकरण्यादित्यत आह- भेदस्येति शेष इति ।। आरोप्यकोटिसम्बन्धितया संशयधर्मिजातीयनिष्ठस्यैव धर्मस्य तत्कोट्युपस्थितिजननद्वारा संशयहेतुत्वादिति भावः । अनिर्वचनीयभेदस्याप्रसिद्धिर्वादिरीत्येति ज्ञेयम् । अप्रसिद्धत्वादेवेत्येवकारस्य हेतुशरीरप्रवेशे आधिक्यात् तत्सार्थक्याय भिन्नक्रमेण योजयति- एवकार इति ।। ननु भेदः किमनिर्वचनीय उत पारमार्थिक इति विकल्पप्रभेदायोगे अनिर्वचनीयभेदमात्राप्रसिद्धेः हेतुत्वोक्तिरयुक्तेत्यत आह- उपलक्षणं चेति१ ।। यद्यप्युक्तप्रभेदायोगोऽनिर्वचनीयभेदरूपैककोटिमात्राप्रसिद्ध्याऽपि साधयितुं शक्य इत्युपलक्षणमित्यधिकं तथाऽपि वादिरीत्या अनिर्वचनीयभेदवत् प्रतिवादिरीत्या पारमार्थिक-भेदोऽप्यप्रसिद्धः सम्भवतीत्युभयथा अप्रसिद्ध्या विकल्पप्रभेदायोगसाधनं सुशकमिति ज्ञापनायोप-लक्षणपरतया व्याख्यानमिदमिति द्रष्टव्यम् ।

ननु कोटिज्ञानं कोटिज्ञानत्वेनैव हेतुः । लाघवात् । न तु संशयधर्मितावच्छेदकधर्मसदृश-धर्मावच्छिन्नधर्म्यन्तरसम्बद्धकोटिज्ञानत्वेन । गौरवात् । तादृशधर्मावच्छिन्नधर्म्यन्तरसम्बद्धतया कोटिज्ञानेऽपि संशयादर्शनाच्च । तथा चानिर्वचनीयत्वपारमार्थिकत्वकोट्योरपि भेदरूपधर्मिणा सह धर्म्यन्तरसम्बन्धितया प्रसिद्ध्यभावेऽपि क्वचित्प्रसिद्धिमात्रेण संशयो युज्यत इत्यभिप्रेत्य शङ्कते- ननु नायमस्ति नियम इति ।। आरोप्यमाणकोटिसम्बन्धितयेति ।। आरोप्यमाणकोटिसदृश-धर्मसहचारितया२ इत्यर्थः । उक्तरीत्या कोटिज्ञानमात्रं संशयहेतुरङ्गीक्रियत एव । तथाऽपि प्रकृतसंशयायोगतादवस्थ्यमिति परिहरति- सत्यमिति ।। मूलोक्तमेवेदं दूषणमित्याह- एतदप्युक्तमिति ।। अनिर्वचनीयत्वकोटिप्रसिद्धिरूपसामग्रीबाधप्रयुक्ततत्कोटिसंशयायोगरूप-दूषणमित्यर्थः । ननु शशविषाणं गोविषाणं वोच्यते इत्येतद्दृष्टान्तवचनस्य सर्वत्राप्रसिद्धत्वा-देवेत्यव्यवहितहेतुवाक्येनान्वयायोगेन वैयर्थ्यमित्याशङ्क्याऽह- अत्रेति ।। प्रकृतप्रश्नायोग इत्यर्थः । शशविषाणं गोविषाणं वोच्यते इत्यस्य प्रकृतप्रश्नायोगरूपार्थे दृष्टान्तत्वघटनाय तत्प्रतिपादकं वाक्यमध्याहारपूर्वकं व्याचष्टे- यथा केनापीति ।। दृष्टान्तप्रश्नायोगे हेतुमाह- शशविषाणस्यैवेति ।। तत्सम्बन्धितयेति ।। शशविषाणसम्बन्धितयेत्यर्थः । कोटिसहचरिततया अनुभूतस्यैव साधारण-धर्मतया कोट्यनुस्मृतिहेतुत्वादिति भावः । एवंविधेति ।। ‘शशविषाणं गोविषाणं वोच्यते‘ इत्येवमाकारकसंशयस्येत्यर्थः ।

श्रीवेदेशतीर्थ

ननु भेदेऽनिर्वचनीयत्वादिप्रभेदाभावोपपादनायानिर्वचनीयवस्तुमात्रस्याप्रसिद्धत्वकथन-मसङ्गतमित्यत आह- अनिर्वचनीयस्य भेदस्येति शेष इति ।। ननु पारमार्थिकस्यानिर्वचनीयस्य च भेदस्याप्रसिद्धत्वेन भेदे पारमार्थिकत्वादिप्रभेदायोगात् सन्देहविषयभेदजातीयाप्रसिद्धौ तस्याऽरोप्य-माणानिर्वचनीयत्वादिकोट्यधिकरणतयाऽनुभवाभावे कोटिस्मरणाभावेन संशयासम्भवेऽपि प्रकारान्तरेण संशयो युज्यत एव । इन्द्रियाणि भौतिकान्युताभौतिकानीति संशयवत् कोटिद्वय-प्रतिपत्तिमात्रेण संशयोपपत्तेः । न चैवं साधारणधर्मासम्भवः । इन्द्रियत्वस्य साधारणधर्मत्वाभावेऽपि भौतिकत्वेनाभौतिकत्वेन वा प्रतिपन्नत्वस्य साधारणधर्मत्ववदत्रापि तादृशस्य फलबलेन कल्पनादित्यभिप्रेत्य शङ्कते- ननु नायमिति ।। यद्वा, नन्वेवं भेदेऽनिर्वचनीयपारमार्थिकत्व-प्रभेदाभावोपपादनेन विमतः सन्देहो न युज्यते सन्देहविषयजातीयाधिकरणतया अनुपलभ्य-मानारोप्यमाणकोटित्वात् शशविषाणं  नरविषाणं  वेति  कोटिद्वयावलम्बिसंशयवदित्यनुमान-मभिप्रेतम् । तदनुपपन्नम् । व्यतिरेकव्याप्तौ व्यभिचारात् । इन्द्रियाणि भौतिकान्यभौतिकानि वेति सन्देहस्याऽरोप्यमाणकोटिप्रतिपत्तिमात्रेणोपपत्तौ सन्देहविषयजातीयाधिकरणतया तज्ज्ञानान-पेक्षणादित्यभिप्रेत्य शङ्कते- ननु नायमिति ।। प्रतिपत्तव्यमिति यद् अयमित्यन्वयः ।। सन्देहविषयेति ।। सन्देहविशेष्येत्यर्थः । कोटिसम्बन्धितया कोट्यधिकरणतयेत्यर्थः । नियमो नास्तीत्युक्त्या स्थाणुपुरुषसन्देहविशेष्यजातीयस्थाण्वादेरारोप्यमाणस्थाणुत्वादिकोट्यधिकरण-तया प्रतिपत्तव्यतामभ्युपैति- आरोप्यमाणानिर्वचनीयस्येति ।। तथा च स्यादेवेन्द्रियेषु भौतिकत्वाभौतिकत्वसन्देहः । भौतिकत्वाभौतिकत्वकोटिप्रतिपत्तेः सद्भावात् । प्रकृतः संशयो न युज्यते । ब्रह्मणः पारमार्थिकत्वेन पारमार्थिकत्वरूपकोटिप्रतिपत्तिसम्भवेऽपि अनिर्वचनीयत्व-कोटिप्रतिपत्तेरभावादित्यर्थः । एतदप्युक्तमिति ।। अस्मिन् पक्षे भेदस्येति शेषः । उपलक्षणत्वं च नास्तीति ज्ञातव्यम् । अनिर्वचनीयस्य वस्तुन इत्यर्थः । अप्यर्थकस्यैवशब्दस्य सर्वत्रेत्यनेन सम्बन्धः । अत एव कुत्रापीत्युक्तमिति ज्ञातव्यम् । अत्र दृष्टान्तमाहेति ।। पूर्वयोजनायां नायं दृष्टान्तः । उभयोरप्यनिवर्चनीयपारमार्थिकभेदयोरप्रसिद्धेरुपपादितत्वात् । तत्र च शशविषाणं नरविषाणं वोच्यत इतिवदिति निदर्शनीयमिति भावः ।

द्वैतद्युमणि

नन्विति ।। सजातीयमिति ।। सन्देहविशेष्यतावच्छेदकघटकधर्मवत्त्वेन सजातीयमित्यर्थः । प्रकृते ‘अयं भेदः पारमार्थिको न वा’ इति संशये इदन्त्वविशिष्टभेदत्वरूपप्रकृतसंशय-विशेष्यतावच्छेदकघटकभेदत्वस्य साधारणधर्मताखण्डनार्थं सिद्धान्तिनः प्रवृत्ततया तदुपयुक्त-शङ्कासङ्गतिः । आरोप्यमाणकोटिप्रतिपत्तिमात्रेणेति ।। वस्तुत्वादिसाधारणधर्मान्तरेण विप्रतिपत्त्या चेत्यर्थः । तथा च वस्तुत्वादिसाधारणधर्मेण विप्रतिपत्त्या वा प्रकृतसन्देहो भ्रान्तिं विना भवतीति भावः । नायं सन्देह इति ।। ऊर्ध्वत्वादिसाधारणधर्माधीनस्थाणुत्वादिसंशयात् विप्रतिपत्त्यधीनात् इन्द्रियाणि भौतिकानि न वेति संशयाच्चास्य वैलक्षण्यं सूचितम् ।

श्रीराघवेन्द्रतीर्थ

यथाश्रुते योजनान्तरं वक्तुमाह- एवकार इत्यादि ।। तथा च लब्धमर्थमनुवदन्नेव शङ्कते-  नन्विति ।। अयमित्युक्तं व्यनक्ति- यदित्यादि ।। सन्देहविषयो भेदः । तज्जातीयो भेदान्तरम् । आरोप्यमाणकोटिरनिर्वचनीयत्वादिः । तत्सम्बन्धितयाऽनिर्वचनीयो भेदः पारमार्थिको भेद इति प्रतिपत्तव्यमिति यद् अयं नियमो नास्ति । किं तु अनिर्वचनीयत्वपारमार्थिकत्वप्रतीतिमात्रेण भेदे तदुभयकोटिकसन्देहो युज्यते । न तु भेदसम्बन्धितयाऽन्यत्र प्रतिपत्तव्यमिति शङ्कार्थः । अत्रेति ।। प्रश्नो न युज्यत इत्यत्रेत्यर्थः । सन्देहविषयेति । भेदः किमनिर्वचनीयो वा पारमार्थिको वेति सन्देहे विषयो साध्यभेदधर्मी भेदः तज्जातीयं तत्सदृशं भेदान्तरमेव आरोप्यमाणा या कोटिः अनिर्वचनीयत्वपारमार्थिकत्वरूपा तत्सम्बन्धितया प्रतिपत्तव्यम् । अनिर्वचनीयपारमार्थिकभेदयोरेव प्रसिद्ध्या भाव्यमिति नियमो नास्तीति यावत् । किन्तु आरोप्यमाणानिर्वचनीयत्वपारमार्थिकत्वरूपकोटिप्रसिद्धिमात्रेणैव संशयः सम्भवति । तत्रानिर्वचनीयत्वकोटिः शुक्तिरजते प्रसिद्धा । पारमार्थिकत्वकोटिर्ब्रह्मणि प्रसिद्धेति संशयो युक्त इत्यर्थः । यथा शब्दो नित्योऽनित्यो वेत्यत्र नित्यत्वानित्यत्वकोटिप्रसिद्धिमात्रेणैव संशयो दृष्टः । न तु नित्यानित्यशब्दप्रसिद्धिरपेक्षिता तद्वत् ।

गोविन्दीया

नन्विति ।। सन्देहविषयस्थाणुत्वपुरुषत्वजातिमत्स्थाण्वादि यद्वस्तु तदेवाऽरोप्यमाण-स्थाणुत्वादिकोट्यधिकरणतया प्रतिपत्तव्यमित्ययं नियमो नास्ति । सर्वत्राधिकरणज्ञानाभावेऽ-पीन्द्रियेषु आरोप्यमाणभौतिकत्वाभौतिकत्वकोटिप्रतिपत्तिमात्रेणापि इन्द्रियाणि भौतिकान्युता-भौतिकानीति सन्देहदर्शनादिति चेदित्यर्थः । अधिकरणस्य सत्त्वादिति भावः । सत्यमिति ।। नियमाभावपक्षाङ्गीकारः । अधिकरणाभावोऽपि आरोप्यमाणकोटिप्रतिपत्तिमात्रेण सन्देह इत्ययं पक्षानङ्गीकार इत्यर्थः । तथापि= इन्द्रिये आरोप्यमाणकोटिप्रतिपत्तिमात्रेण सन्देहसम्भवेऽपि, अयं प्रकृतः सन्देहो न युज्यत इत्यर्थः । आरोप्यमाणेति ।। भेदे आरोप्यमाणानिर्वचनीयत्वस्य कुत्रापि अप्रतीतत्वात् तादृशाधिकरणस्यैव असत्त्वादित्यर्थः । एतदपीति ।। एतच्छङ्कापरिहारोऽपीत्यर्थः । तदनुस्मरणेति ।। तस्य विषाणत्वप्रतिभासस्य शशविषाणस्मरणहेतुत्वानुपपत्त्या पुरोवर्तिवस्तु-जिज्ञासोत्पत्त्यभावेन शशविषाणं वा गोविषाणं वेति संशयायोगादित्यर्थः ।

नारोपन्तीया

सन्देहविषयजातीयमेवेति । तथा च पारमार्थिकस्यानिर्वचनीयस्य भेदस्याप्रसिद्धत्वेऽपि पारमार्थिकत्वानिर्वचनीयत्वकोटिप्रतीतिमात्रेण संशयो भविष्यतीति भावः ।

जनार्दनभट्टीया

अभेदे अनिर्वचनीयत्वरूपकोट्यप्रसिद्धिः कथम्? इति शङ्किते तदुत्तरत्वेन प्रवृत्तमूलवाक्ये अनिर्वचनीयत्वरूपधर्म्यप्रसिद्धौ प्रतीतायां (असङ्गतेः) आह – भेदस्येति शेष इति ।। तथा च अनिर्वचनीयस्य भेदस्य अप्रसिद्धेरिति योजिते भेदमात्रस्य उभयमतसिद्धत्वेन अप्रसिद्धविशेषणीभूत- अनिर्वचनीयत्वांशे पर्यवस्यतीति भावः ।

सन्देहविषयजातीयमिति ।। स्थाणुपुरुषसंशये सन्देहविषयः ऊर्ध्वताविशिष्टः पुरोवर्तीति तज्जातीयं पुरुषान्तरम् । आरोप्यमाणकोटिः पुरुषत्वं तत्सम्बन्धितया प्रतिपन्नम् । प्रकृते तु नैतत्सम्भवति । सन्देहविषयो जीवपरमात्मभेदः । तज्जातीये भेदान्तरे अनिर्वचनीयकोटिसम्बन्धितया ज्ञानाभावादिति भावः । अत्र दृष्टान्तमिति ।। ‘प्रश्नो न युज्यते’, ‘संशयो न युज्यते’ इत्युभयत्रेत्यर्थः ।