मिथ्याभूतं ..
पररीत्या आत्मनः परविषयप्रकाशत्वाभावसमर्थनम्
श्रीमज्जयतीर्थटीका
मा भूदात्मप्रकाशः स्वविषयः । परविषयस्तु भविष्यति । न च पराभावो दोषः । मिथ्या-भूतस्य परस्याङ्गीकृतत्वात् । न चैवं सति तद्विषयत्वस्यापि मिथ्यात्वप्रसङ्गो दोषः । इष्टत्वात् । अतो मिथ्यारूपस्य परविषयत्वस्य सद्भावाद्भवेदात्मा प्रकाश इत्यत आह-
मूल
मिथ्याभूतं परविषयत्वञ्चानिर्वचनीयनिरासादेव निरस्तम् ।
व्याख्यातप्रायमेतत् । मुक्तात्मन्यनैकान्त्यतादवस्थ्यञ्च द्रष्टव्यम् ।
ननु शुक्तिरजताद्यभावेऽपि परमार्थत एव विज्ञानं तद्विषयमस्ति । तथा पराभावेऽपि परविषयत्वं सत्यमेव कस्मान्न स्यात् । स्यात्तत् । न त्वेवं परोऽङ्गीकरोति । तेन परोपाधिकानां मिथ्यात्वस्याङ्गीकृतत्वात् । पररीत्या चेदमनैकान्त्यव्युत्पादनम् ।
श्रीविजयीन्द्रभिक्षु
तद्विषयत्वस्येति ।। मिथ्याभूतपरविषयत्वस्येत्यर्थः । व्याख्यातेति ।। मिथ्येति नानिर्वचनीयमुच्यते । तस्य निरस्तत्वात् । किन्त्वसत्त्वमेव । तथा च परविषयत्वं मिथ्येत्युक्ते स्वरूपतो नास्तीत्येवोक्तं स्यादिति व्याख्यातप्रायमित्यर्थः । मुक्तात्मनीति ।। मोक्षे पराभावेन परविषयत्वस्य कथञ्चिदप्यसम्भवादिति भावः । ननु मुक्तिकाले सविषयत्वाभावेऽपि संसारदशायां सविषयत्वाज्ज्ञानत्वमुपपद्यते । किञ्च तवेश्वरज्ञानवन्मोक्षेऽप्यात्मज्ञानस्यातीतप्रपञ्चविषयत्वेन ज्ञानत्वमुपपद्यत इति चेन्न । विषयोल्लेखित्वरूपसविषयत्वस्य ज्ञानस्वभावतया यावद्धर्मभावित्वेन कादाचित्कत्वानुपपत्तेः । मोक्षेऽप्यतीतविषयोल्लेखित्वरूपोपप्लवापत्तेश्चेति । ननु शुक्तिरजतादेर-सत्त्वेऽपि तज्ज्ञाने तद्विषयत्वस्य सत्त्ववत् परस्य मिथ्यात्वेऽपि आत्मस्वरूपज्ञाने तद्विषयत्वं सत्यं किं न स्यादिति शिष्यः पृच्छति- नन्विति ।। कथं तर्हि व्यभिचारोद्भावनमित्यतः पररीत्येति ।।
श्रीवेदेशतीर्थ
व्याख्यातेति ।। मिथ्येति नानिर्वचनीयमुच्यते । तस्य निरस्तत्वात् । किन्त्वसत्त्वमेव । तथा च परविषयत्वं मिथ्येत्युक्ते स्वरूपतो नास्तीत्येवोक्तं स्यादिति व्याख्यातप्रायमेवेत्यर्थः । मुक्तात्मनीति ।। निवृत्ताविद्यस्य मुक्तरूपज्ञानस्याविद्योपादानकपरविषयत्वासम्भवेनाप्रकाश-त्वापत्त्या तत्राप्रकाशत्वरूपजडत्वस्योक्तमनैकान्त्यं तदवस्थमेवेति भावः । तटस्थः शङ्कते- नन्विति ।। नन्वस्मद्रीत्या पराभावेऽपि परविषयत्वं सत्यमेवाऽत्मस्वरूपज्ञानस्यास्तु । ततश्च तस्य प्रकाशरूपत्वोपपत्त्या नाप्रकाशत्वस्य तत्रानैकान्त्यमित्यत आह- पररीत्येति ।। स्वमते आत्मरूपज्ञानस्य परविषयत्वे दोषाभावेन प्रकाशत्वोपपत्तेरिति भावः ।
श्रीराघवेन्द्रतीर्थ
व्याख्यातप्रायमिति ।। ‘मिथ्येति तावदनिर्वचनीयमिति वक्तुं न शक्यते । तस्या-प्रामाणिकत्वादिना निरस्तत्वात् । ततो मिथ्येत्यसत्त्वे वक्तव्ये मिथ्याभूतं परमित्यस्य नास्ति परमिति मिथ्याभूतं तद्विषयत्वमित्यस्य नास्ति परविषयत्वमित्यर्थः स्यात् । तथा च कथमात्मा प्रकाशः’ इति मिथ्याप्रमातृत्वमिति वाक्यव्याख्यानरीत्या व्याख्यातप्रायमित्यर्थः । मुक्तात्मनीति । तस्य परविषयत्वे संसारापातेन तत्प्रकाशस्य स्वपराविषयकत्वेनाप्रकाशत्वरूपस्याप्रमातृत्वरूपस्य च जडत्वस्य तत्रानैकान्त्यमित्यर्थः। अन्यथा मुक्तत्वव्याघातादिति भावः। विश्वसत्यत्ववादिमतरीत्या शङ्कते- ननु शुक्तीति ।। शङ्काया उत्तरमाह- स्यात्तदिति ।।
गुरुराजीया
व्याख्यातेति ।। ‘मिथ्येति नानिर्वचनीयत्वमुच्यते प्रमाणाभावात्’ इत्यादिना निरस्त-त्वात् । किन्त्वसत्त्वमेव । तथा च ‘पटविषयत्वं मिथ्या’ इत्युक्ते स्वरूपतो नास्तीत्येवोक्तं स्यादिति व्याख्यातप्रायमेवेत्यर्थः । न केवलं पूर्ववाक्यव्याख्यानेनैतद्व्याख्यातमित्येव१ । तत्तात्पर्यवदेव एतत्तात्पर्यं च द्रष्टव्यमित्याह- मुक्तात्मनीति ।। निवृत्ताविद्यस्य२ मुक्तरूपज्ञानस्याविद्योपादानक-परविषयत्वासम्भवेनाप्रकाशत्वापत्त्या तत्राप्रकाशत्वरूपजडत्वस्यानैकान्त्यं तदवस्थमिति भावः । ३शिष्यः शङ्कते- नन्विति ।। तेनेति ।। अन्यथा परोपाधीनां सार्वज्ञ्यादीनामपि सत्यत्वप्रसङ्गादिति भावः । नन्वस्मद्रीत्या पराभावेऽपि परविषयत्वं सत्यमेवाऽत्मरूपज्ञानस्यास्तु । तथा चाप्रकाशत्व-रूपजडत्वाभावादेव न तत्रानैकान्त्यमित्याह- पररीत्या चेति ।। स्वमते आत्मरूपज्ञानस्य स्वपरविषयत्वे दोषाभावेन प्रकाशत्वोपपत्तेरिति भावः ।
गोविन्दीया
इष्टत्वात् ।। निर्धर्मके ब्रह्मणि तद्विषयत्वरूपधर्मस्य मिथ्यात्वाङ्गीकाराद् इष्टापादनत्वेनायं प्रसङ्गो न दोष इत्यर्थः । भवेदिति ।। आत्मनि प्रकाशो भवेत्, अतोऽप्रकाशत्वरूपहेतोरभावात् नानैकान्त्यम्, इत्यत आहेत्यर्थः । व्याख्यातप्रायमिति ।। एतद्वाक्यम् अप्रामाणिकत्वेन प्रमाणविरुद्धत्वेन च मिथ्या इत्यस्य अनिर्वचनीयत्वं वक्तुमशक्यम् । असत्त्वे च परविषयत्वं नास्तीत्युक्तं स्यादिति व्याख्यातप्रायमित्यर्थः । मुक्त आत्मनीति ।। ज्ञानरूपे मुक्त आत्मनि अप्रकाशत्वरूपजडत्वस्य हेतोः अनैकान्त्यम् तदवस्थम् । तथा हि- अविद्याया निवृत्तत्वात् तदुपादानकपरविषयत्वासम्भवेन मुक्तात्मनोऽप्रकाशत्वादित्यर्थः । परविषयत्वमिति ।। परविषयज्ञानस्यापि शुक्तिरजतज्ञानवत् सत्यत्वात् तद्गतं परविषयत्वमपि सत्यमेव कस्मान्न स्यादित्यर्थः । स्यादिति ।। सत्यमेव स्यादित्यर्थः । तेनेति ।। तेन परेण परोपाधिकानां परनिमित्तकानामित्यर्थः । पररीत्या चेति ।। अप्रकाशत्वरूपजडत्वहेतोः पररीत्या चेदमनैकान्त्यव्युत्पादनं न त्वस्मद्रीत्या । मन्मते तु आत्मनि प्रकाशत्वस्याङ्गीकृतत्वादित्यर्थः।
जनार्दनभट्टीया
मुक्तात्मनीति ।। अत्र ‘आत्मनोऽपि दृश्यत्वात् अनैकान्तिकः’ इत्यादाविव आत्मनी-त्येतावता पूर्तावपि मुक्तपदग्रहणं मिथ्याभूतपरविषयप्रकाशत्वाभावरूपजडत्वहेतुसाधनार्थम् । तथा पराभावेऽपीति ।। विषयविषयिणो एकविधत्वनियमाभावादिति भावः । एवमिति ।। पारमार्थिक-मित्यर्थः ।
ननु अस्मन्मते आत्मरूपप्रकाशस्य परविषयत्वेन आत्मनि अप्रकाशत्वरूपजडत्वस्य व्यभिचार इत्यत आह – पररीत्या चेति ।। ‘कर्तृकर्मविरोधात् तैः नाङ्गीक्रियते’ इति मूलानुरोधादिति भावः । तथा च परमते परविषयत्वस्य मिथ्यात्वाद् व्यभिचारः तदवस्थ इति भावः ।